________________
चन्द्रप्रमचरितम्
[ १५, ६४प्राणैरस्थास्नुभिः स्थास्नु यशश्चेदधिगम्यते । क्रियते स्वामिकार्य च ना पुष्येद मरणं रणे ।.६४॥ इति संधीरयन्नात्मसैन्यं रणपराङ्मुखम् । डुढौके चण्डदोर्दण्डकृष्टकोदण्डदारुणः ॥६५।। शरपञ्जरसंछन्नसमस्तगगनोदरः।। चकार क्षणमात्रेण स शत्रुकुलमाकुलम् ।।६६।। तं रथस्थं रथारूढः स्वर्भानुरिव भास्करम् । भीमः कटाक्षयामास पद्मनाभचमूपतिः ।।६७।। तयोर्बभूव तुमुलं रणधूर्धरयो रणम् ।
व्योमव्यापीषुसंपातैर्दूरमुत्सारितामरम् ॥६८।। प्राणैरिति । चेत् यदि । अस्थास्नुभिः ( वि-) शरारुभिः । प्राणैः असुभिः । स्थास्नु स्थिररूपम् । यशः कीतिः । अधिगम्यते लभ्यते । गम्लु गतो कर्मणि लट् । स्वामिकायं च स्वामिनः प्रभोः कार्य सेवनं [च] क्रियते विधीयते। कर्मणि लट् । रणे संग्रामे । ना भटपुरुषः मरणं प्राणत्यागम् । पुष्येत् प्रवर्धयेत् । पुष पुष्टी कर्मणि लिङ् । भटो रणे मरणं शोभावहं मन्यत इत्यर्थः। अर्थान्तरन्यासः ॥६४।। इतीति । रणपराङ्मुखं रणस्य संग्रामस्य पराङ्मुखं विमुखम् । आत्मसैन्यम् आत्मनो निजस्य सैन्यं सेनाम् । इति उक्तप्रकारेण । संधीरयन् धैर्ययुक्तं कुर्वन् । चण्डदोर्दण्डकृष्टकोदण्डदारुणः चण्डेनोग्रेण दोर्दण्डेन भुजदण्डेन कृष्टेनाकृष्टेन कोदण्डेन चापेन दारुणो भयंकरः। डुढौके रुरुधे। ढोकृञ् गती लिट् । जातिः ॥६५।। शरेति । शरपञ्जरसंछन्नसमस्तगगनोदरः शराणां बाणानां पञ्जरेण संछन्नं गगनस्याकाशस्योदरं मध्यप्रदेशो यस्य सः । चन्द्रशेखरःक्षणमात्रेण अल्पकालमात्रेण । शत्रुकुलं रिपुकुलम् । आकुलं चिन्ताक्रान्तम् । चकार विदधो । लिट् । जातिः ॥६६॥ तमिति । रथारुढः रथं स्यन्दनमारूढः । भीमः भीमनामधेयः । पद्मनाभचमूपतिः पद्मनाभस्य राज्ञः चमूपतिः सेनापतिः । रथस्थं रथे स्थितम् । तं चन्द्रशेखरम् । भास्करं सूर्यम् । स्वर्भानुरिव राहुग्रह इव । कटाक्षयामास अपाङ्गेन वीक्षां चकार । उपमा ॥६७।। तयोरिति । रणधुर्धरयोः रणस्य संग्रामस्य धरं भारं धरयोधरतोः। तयोः भीमचन्द्रशेखरयोः। व्योमव्यापीषुसंपातैः व्योम गगनं व्यापिनां संकिरतामिषूणां बाणानां संपातैविमोचनैः । दूरं विप्रकृष्टम् । उत्सारितामरम् उत्सारिता निवारिता अमरा देवा यस्मिन् ( यस्मात् ) तत् । तुमुलं परस्परयदि अस्थिर प्राणोंसे स्थिर यश मिल जाता है और साथमें अपने स्वामीका काम भी हो जाता है, तो सङ्ग्राममें मर जाना बुरा नहीं-कोई घाटेका सौदा नहीं है। एक योग्य सैनिक ऐसे मरणका अवश्य ही समर्थन करेगा ॥६४॥ अपनी, रण विमुख सेनाको इस तरह ढाढस बंधाता हुआ सेनापति चन्द्रशेखर आगे बढ़ा, और उसने अपने प्रचण्ड भुजोंसे धनुष खींचना शुरू कर दिया। इस समय वह बड़ा ही भयङ्कर दिखलाई पड़ रहा था ॥६५॥ सेनापति चन्द्रशेखरने आकाशके मध्यभागको बाणोंके पञ्जरमें बन्द कर दिया-आकाशके मध्यमें चन्द्रशेखरके बाण-ही-बाण दृष्टिगोचर हो रहे थे । बाणोंसे खाली आकाश किसी ओर भी दृष्टिगोचर नहीं हो रहा था। उसने क्षणभर में शत्रुओंके समुदायको व्याकुल कर दिया ॥६६॥ रथपर बैठे हुए सेनापति चन्द्रशेखरको पद्मनाभके सेनापति भीमने-जो रथके ऊपर आरूढ़ था-वक्रदृष्टिसे देखा। जैसे राहु सूर्यको देखता है ॥६७॥ युद्धकलामें कुशल भीम और चन्द्रशेखर सेनापतिमें घोर सङ्ग्राम
१. 'पुष्येत्' इति टोकानुसारी पाठः, प्रतिषु तु 'नाकृत्यं मरणं रणे' इति दृश्यते । २. क ख ग 'संछिन्न । ३. म 'त्रिभिः कुलकम्'। ४. अदुर्धरयो रणम् । ५. = रणात् संग्रामात् । ६. = येन । ७. = विदधे । ८. श ईक्षां ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org