________________
-
१५, ६३ ]
पञ्चदशः सर्गः
क्वचित्पतितपत्त्यश्वं कचिद्भग्नमहारथम् | क्वचिद्भिन्नभमासीत्तद् दुःसंचारं रणाजिरम् ||६०|| भङ्गं गृहृत्यथात्मीये सैन्येऽरिशरजर्जरे । पृथिवीपाल सेनानी रुत्तस्थौ चन्द्रशेखरः || ६१ ॥ भद्राः किं प्रपलायध्वं मार्गोऽयमुचितो न वः । दैवादुपस्थिते कृच्छ्र शूराणां विक्रमः क्रमः ||६२ || संभ्रमं मा वृथा कृढ़वं रूढे रणधुरां मयि । पृष्ठ मरातिभिः ||६३ ||
पूर्वं भवतां
अश्वाः । पेतुः पतन्ति स्म । पत्लृ गतौ लिट् । दीपकम् ॥ ५९ ॥ क्वचिदिति । क्वचित् कस्मिंश्चित्प्रदेशे । पतितपत्त्यश्वं पतिता निपतिता पत्तय पदातयः अश्वाः तुरगा यस्मिन् तत् । क्वचित् प्रदेशे । भिन्नेभं भिन्नाः afusar इभा गजा यस्मिन् तत् । रणाजिरं रणस्य संग्रामस्याजिरमङ्गणम् । दुःसंचारं संचरितुमशक्यम् । आसीत् अभूत् । अस भुवि लङ् || ६०॥ भङ्गमिति । अथ वीरभटयुद्धानन्तरम् । अरिशरजर्जरे अरीणां शत्रूणां शरैर्बाणैर्जर्जरे ँ ग्लाने । आत्मीये स्वकीये । सैन्ये सेनायाम् । भङ्गं पराजयम् । गृह्णति सति याते सति । पृथिवीपालसेनानीः पृथिवीपालस्य सेनानीः सेनापतिः । चन्द्रशेखरः चन्द्रशेखर नामधेयः । उत्तस्थो आगतः ।। ६१ ।। भद्रा इति । भद्राः भो मङ्गलपुरुषाः ! [ किं ] किनिमित्तम् ? प्रपलायध्वं घावत । अयं गतौ । लोट् । 'रो लोऽयौ" इति प्रर" शब्दस्य र लः । अयम् एषः । मार्गः । वः युष्माकम् | 'पदाद्वाक्यस्य—' इत्यादिना युष्मच्छन्दस्य षष्ठीबहुवचनस्य वसादेशः । उचितो न योग्यो न भवति । दैवात् विधिवशात् । शूराणां वीरपुरुषाणाम् । कृच्छ्रे कष्टे । उपस्थिते १२ सति समीपं गते सति । विक्रमः पराक्रमः । क्रमः परिपाटी । अर्थान्तरन्यासः ।।६२।। संभ्रममिति । मयि । रणधुरां रणस्य संग्रामस्य घुरां भारम् । रुदे वहति सति । वृथा मुबा । सभ्रमं" संचलनम् । मा कृध्वं मा कुरुध्वम् । डुकृञ् करणे लुङ् । भवतां युष्माकम् । पृष्ठं पृष्ठभागः । आरातिभिः शत्रुभिः । अदृष्टपूर्वं ननु दृष्टपूर्वं न भवति खलु । प्राक् पलायिता न भवत इत्यर्थः ॥ ६३ ॥
३६१
पयादे रणक्षेत्रमें गिरने लगे ||१९|| रणाङ्गण में कहीं पयादे पड़े हुए थे, कहीं घोड़े तड़प रहे थे, कहीं घायल हाथी छटपटा रहे थे और कहीं टूटे हुए बड़े-बड़े रथोंका अम्बार लगा हुआ था । अतएव वहाँ संचार करना कठिन हो गया || ६०|| शत्रुओंके बाणोंसे जर्जर होकर अपनी सेना ज्योंही हिम्मत हारकर पराजय मानने और भागनेके लिए तैयार हुई, त्योंही पृथिवीपालका सेनापति चन्द्रशेखर उठकर सामने आ गया ||६१ || और यों कहने लगा-' - 'हे भद्र पुरुषों ! क्यों भाग रहे हो ? यह भागनेका मार्ग तुम्हारे लिए उचित नहीं है । भाग्यवश सङ्कट उपस्थित हो जानेपर पराक्रम दिखलाना शूरवीरोंकी परिपाटी है ||६२|| सङ्ग्रामका भार में संभालता हूँ । आप लोग व्यर्थ ही मत घबराओ निश्चय ही आप लोगोंकी पीठको शत्रुओंने आज तक नहीं देखा - आप लोग पहले कभी भी पीठ दिखलाकर सङ्ग्राम भूमिसे नहीं भागे ॥ ६३ ॥
।
१. अ क ख ग घ म भटाः । २. क ख ग घ म विक्रमक्रमः । ३. आ इ रणधुरं । ४. अ दृष्टम | ५. आ अस्य श्लोकस्य व्याख्यापूर्णा समवलोक्यते । ६. आ ' जर्झरे । ७. आजर्झरे । ८. आ अय पय । ९. श लेट् । १०. श 'रो लोड्यो' इति नास्ति । ११. आ पर शं । १२. = समायाते । १३. आ 'समीपं गते सति' इति नास्ति । १४. आ 'वहति' इति नास्ति । १५. श संभ्रमः ।
४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org