SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ पञ्चदशः सर्गः ३५९ - १५, ५५] कश्चिदालोहनिर्मग्नैः प्रत्यङ्गं पूरितः शरैः। बभावभ्यरि निष्कम्पः सप्ररोह'इव द्रुमः ॥५१॥ केन तत्रसुरालोकं गतेन प्रेतवर्तिना। के न तत्र सुरा लोकं त्यक्त्वा स्वं कौतुकागताः ॥५२॥ जशे मांसोपदंशासृगासवोन्मत्तचेतसाम् । डाकिनीनां नटन्तीनां कबन्धैर्नाट्यसूरिभिः ॥५३।। निरन्तरनिपातीषुजालप्रच्छन्नमूतिना।। भयादिव कुतोऽप्यासोद्भानुनापि पलायितम् ॥५४॥ योधानामायधच्छिन्नविरेजे रणरङ्गभः। शिरोभिः शतपत्त्रोधैरव व्योमसरश्च्युतैः ॥५५॥ ॥५०॥ कश्चिदिति । प्रत्यङ्गम् अङ्गमङ्गं प्रति प्रत्यङ्गम्, प्रत्यवयवमिति यावत् । आलोहनिर्मग्नैः आलोहं लोहशलाकापर्यन्तं निमग्न. प्रविष्टः । शरैः बाणः । पूरितः व्याप्तः। कश्चित् एको भटः । सप्ररोहः प्ररोहै: सहितः । द्रुम इव वृक्ष इव । अभ्यरि अरेः शत्रोरभिमुखम् । निष्कम्पः निश्चलः । बभी भातिस्म । उत्प्रेक्षा ॥५१॥ केनेति । स्वं स्वकीयम् । लोकं जगत् । त्यक्त्वा विमुच्य। कौतुकागताः कौतुकेन कुतूहलेन आगता आयाताः । के सुराः के देवाः । तत्र रणे । आलोक दर्शनपदम् । गतेन यातेन । प्रेतवतिना प्रेते प्रेतभूमौ वतिना वर्तनशीलेन । केन मस्तकेन । 'कं वारिणि च मूर्धनि च । न तत्रसुः न बिभ्यति स्म । ४सै उद्वेजने लिट् । यमकम् ॥५२॥ जज्ञ' इति । मांसोपदंशासृगासवोन्मत्तचेतसां मांसमेवोपदंशो यस्य तन्मांसोपदंशं (तत्) च तत् असृग्रक्तं च ( तदेव ) आसवो मद्यं तेनोन्मत्तमुन्मादयुक्तं चेतो यासां तासाम् । नटन्तीनां नृत्यन्तीनाम् । डाकिनीनां पिशाचभेदानाम् । मध्ये । कबन्धैः शवैः। 'कबन्धोऽस्त्री क्रियायुक्तमपभूधकलेवरम्' इत्यमरः । नाट्यसूरिभिः नाटयस्य नाटकस्य सूरिभिराचार्यः । जज्ञे जायते स्म । जनैङ् प्रादुर्भाव लिट् । उत्प्रेक्षा (रूपकम्) ॥५३॥ निरन्तरेति । निरन्तरनिपातीषुजालप्रच्छन्नमूर्तिना निरन्तरं निरवकाशं निपातिनां निपततामिषूणां बाणानां जालेन समूहेन प्रच्छन्ना व्यवहिता मूर्तिर्यस्य तेन । भानुनापि सूर्येणापि । कुतोऽपि कस्मादपि । भयात् भीतेः । पलायितमिव विद्रुतमिव । उत्प्रेक्षा ॥५४॥ योधानामिति । आयुधच्छिन्नै: आयुधैः शस्त्रश्छिन्नैःछेदितैः । योधानां भटानाम् । शिरोभिः मस्तकैः। रणरङ्गभूः रणस्य संग्रामस्य रङ्गस्य भूर्भूमिः । व्योमसरश्च्युतःक हाथियोंकी सूंडे मगर सरीखी प्रतीत हो रही थीं ॥५०॥ किसी वीर योद्धाके अङ्ग-अङ्गमें बाण प्रविष्ट हो गये थे-बाणोंके नुकीले अगले भाग-जो लोहेके थे-अन्दर धंसे हुए थे और शेष भाग बाहर निकले हुए थे, फिर भी वह शत्रुके सामने निष्कम्प होकर खड़ा हुआ था। उस समय वह ऐसा जान पड़ता था मानो अङ्कुरित वृक्ष खड़ा हो ॥५१॥ रण देखनेके कौतूहलसे अपना लोक छोड़कर वहाँ (रण भूमिमें) आये हुए वे कौनसे देव थे, जो धड़से अलग हुए, मृत योद्धाके सिरको देखकर न डर गये हों ? ॥५२॥ मांसरूपी जायकेदार खाद्यवस्तु और रुधिर रूपी मद्यका सेवन करनेसे डाकिनियोंको उन्माद हो गया, उनके चित्त भ्रान्त हो गये और इसीलिए वे नाचने लगीं। उन्हीं के साथ धड़ भी नाच रहे थे, जो उन्हें नृत्यकी शिक्षा देनेवाले नाट्याचार्य सरीखे जान पड़ते थे ॥५३॥ निरन्तर गिरनेवाले बाणोंके जालसे सूर्य तिरोहित हो गया--दृष्टिसे ओझल हो गया। अतएव ऐसा प्रतीत होता था मानो वह डरके कारण कहीं भाग गया हो ॥५४॥ आयुधोंसे कटकर गिरे हुए योद्धाओंके सिरोंसे रणभूमिरूपी रङ्गमञ्च १. अ आ इ सप्रारोह । २. आ 'अङ्गमङ्गं प्रति प्रत्यङ्गम्' इति नोपलभ्यते । ३. श°मुखः । ४. आ त्रस्ये । ५. श जज्ञे । ६. = नृत्यस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy