________________
३५८
चन्द्रप्रमचरितम्
[१५, ४७ -
योधाः शस्त्रक्षताः पेतुर्भूरितापा रणाशयाः। भूतैर्बुभुक्षितैर्युद्धभूरिता पारणाशया ॥४७॥ भग्ने चापे गुणे छिन्ने रिक्तीभूते च बाणधौ । कस्याप्यासीविषा दीर्घ दण्डादण्डि कचाकचि ॥४८॥ धीरधीरारिरुधिरैरुरुधाराधरैररम् । धरा धराधराधारा रुरुधेऽधोऽधराधरा ॥४९।। ये तत्र जज्ञिरेऽस्राणां प्रगुअन्निनदा नदाः । तेष्वासन्मूलनिनाः करिणां मकराः कराः ।।५०।।
अभात् राजते'स्म । लङ् । उपमा ( उत्प्रेक्षा ) ॥४६॥ योधा इति । रणाशयाः रणे संग्रामे आशयो योद्धुमभिप्रायो येषां ते । शस्त्रक्षताः शस्त्रेण खङ्गेन क्षता हताः । भूरितापाः भूरि बहुल: तापो येषां ते । योधाः भटाः । पेतुः पतन्ति स्म । पत्लु गतो लिट् । बुभुक्षितैः भोक्तुं वाञ्छद्भिः । भूतैः राक्षसैः । पारणाशया पारणाया भोजन आशया बाञ्छया । युद्धभूः युद्धस्य रणस्य भूभूमिः। इता प्राप्ता। यमकम् ॥४७॥ भग्न इति । चापे कोदण्डे । भग्ने वधिते । गुणे ज्यायाम् । छिन्ने त्रुटिते । बाणधौ इषुधौ। रिक्तीभूते शून्ये जाते च । कस्यापि भटस्य । द्विषा शत्रणा । दीर्घ चिरम् । दण्डादण्डि दण्डाश्च दण्डाश्च परस्परस्य प्रहरणं (यस्मिन्) युद्धे तद्दण्डादण्डि । 'मियो ग्रहणे प्रहरणे च सरूपं युद्धेऽव्ययीभावः' इति समासः। कचाकचि कचाश्च कचाश्च परस्परस्य ग्रहणं यस्मिन् युद्धे तत् कचाकचि । आसीत् अभवत् । लङः ॥४८॥ धीरेति । उरूधाराधरैः उर्वी महती धारा प्रवाह घरन्तीत्युरुधाराधरास्तैः। धोरधीरारिरुधिरैः धीराणां धीरा धीरधीराः ते च तेऽरयश्च धोरधोरारयः तेषां रुधिरैः रक्तः । धराधराधारा धराधराणां पर्वतानामाधाराऽधिकरणम् । अधोऽधः [अधः] अधोभागे । 'सामीप्ये-' इत्यादिना द्विः (?) । अधराधरा भृशं निम्नरूपा । धरा भूमिः । अरम् अत्यन्तम् । रुरुधे रुध्यते स्म । रुधृञ् आवरणे कर्मणि लिट् । द्वयक्षरचित्रम् ।।४९॥ य इति । तत्र रणभूमौ । अस्राणां रक्तानाम् । प्रगुन्निनदाः प्रगुञ्जन्नव्यक्तो निनदो ध्वनिर्येषां ते। ये केचित् । नदाः नद्यः । जज्ञिरे जायन्ते स्म । जनैङ् प्रादुर्भावे लिट् । तेषां नदानाम् (तेषू नदेषु ) । मूलनिक्षूनाः मूलात् प्रथमात् निलूनाः खण्डिनः । करिणां गजानाम् । कराः शुण्डादण्डाः । मकराः जलचरविशेषाः । आसन् अभूवन् । अस भुवि लङ्। यमकम्
की झड़ी पुष्पवृष्टि सरीखी प्रतीत हो रही थी ॥४६॥ रणकी इच्छासे कुछ योद्धा ज्योंही आगे बढ़े त्योंही वे शत्रुओंके शस्त्रोंसे घायल होकर अत्यधिक सन्तापका अनुभव करते हुए युद्ध भूमिमें गिर गये, और फिर पारणा करनेकी इच्छासे भूखे भूतोंने उसे घेर लिया ॥४७॥ एक धनुर्धारी योद्धा दूसरे धनुर्धारी योद्धासे लड़ रहा था, किन्तु जब उसका धनुष टूट गया, प्रत्यञ्चा कट गयी और तर्कस (तूणीर, जिसमें बाण रखे जाते हैं) खाली हो गया, तब उसने लाठी लेकर प्रतिपक्षीसे युद्ध किया, और जब लाठी भी टूट गयी तब वह उसके बालोंको पकड़कर लड़ा ॥४८॥ पर्वतोंका आश्रय पाकर रहनेवाली पृथिवी, नीचेको ओर जिधर खूब ढालू थी, अत्यन्त धीर योद्धाओंके बड़े-बड़े, रुधिरके मेघोंके द्वारा लबालब भर दी गयी ॥४९॥ उस युद्धभूमिमें अव्यक्त शब्द करनेवाली रुधिरको बड़ी-बड़ी नदियाँ बहने लगीं। उनमें जड़से कटकर गिरी हुई
१.श आभात् राजति । २. आ 'उपमा' इति नास्ति । ३. श भरिः । ४. आ वाञ्छितः । ५. श भग्ने इति । ६. आ लञ । ७. आ“धारा निलय । धराधराः पर्वता एवाधारोऽवष्टम्भो यस्याः सा । ८. आ अधोभागेऽधोमागे । ९. शये। १०. = मूलभागतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |