SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ - १५, ४६ ] पञ्चदशः सर्गः स्वामिप्रसादमासीद्यो मुखरागः प्रतीच्छताम् । तेषामासीत्स एवारिशरजालं प्रतीच्छताम् ॥४२॥ निजेपुरचितस्फारमण्डपोत्सारितातपाः। तत्र नाज्ञासिषुर्योधाः प्रहरन्तः परिश्रमम् ।।४३।। स्वामिसंमानयोग्यं यद्यत्स्वसंभावनोचितम् । यच्चाम्नायसमं तत्ते स्मारंस्मारं डुढौकिरे ।।४४।। शस्त्रप्रहारैर्गुरुभिः समुदा येन यो जितः। तेनामर्षात्पुनः सोऽस्त्रसमुदायेन योजितः ॥४५।। कस्याप्यश्वगतस्येभकुम्भं निर्भिन्दतोऽसिना। ततः पतन्त्यभात्पुष्पवृष्टिवन्मौक्तिकावलिः ॥४६।। आरभन्त उपक्रमते स्म । रभिराभस्ये ॥४१॥ स्वामीति । स्वामिप्रसादं स्वामिनः प्रभोः प्रसादमादरम् । प्रतीच्छतां वाञ्छताम् । यो मुखरागः मुखे वदने रागो हर्षः संतोषः, पक्षे मुखे रागो रुधिरेणारुणता । आसीत् अभवत । लङ । अरिशरजालम अरेः शत्रोः शराणां बाणानां जालं समूहम् । प्रतीक्षताम् अङ्गीकूवताम । तेषां मटानाम । स एव मखराग एव । अभत । लङ । यमकम ॥४२॥ निजेष्विति । तत्र संग्रामे । निजेषरचित. स्फारमण्डपोत्सारितातपाः निजानां स्वेषामिषभिणि रचितेन निर्मितेन स्फारेण महता मण्डपेनोत्सारितो निवारित आतपो येषां ते । प्रहरन्तः युद्धं कुर्वाणाः। योधाः भटाः। परिश्रमम् आयासम् । न आज्ञासिषुः न जानन्ति स्म । ज्ञा अवबोधने लुङ ।।४३॥ स्वामीति । स्वामिसम्मानयोग्यं स्वामिनः प्रभोः सम्मानस्य सत्कारस्य योग्यम् । स्वसंभावनोचितं स्वेषां संभावनस्य सामर्थ्यस्योचितं योग्यम् । यद् यत् । ( तत् तत् ) सर्वम् । ते भटाः स्मारं स्मारं स्मृत्वा स्मृत्वा । 'भृशाभीक्ष्ण्ये खमुञ्' इति खमुञ्-प्रत्ययः डुढौकिरे ययुः । ढोकृञ् गतौ लिट् ॥४४॥ शस्त्रेति । गुरुभिः महद्भिः। शस्त्रप्रहारैः शस्त्राणामायुधानां प्रहारैर्घातः । समुदा संतोषयुक्तेन । येन भटेन । यः भटः । जितः पराजितः । तेन पराजितभटेन । अमर्षात् क्रोधात् । पुनः पश्चात् सः विजयी भटः । अस्त्रसमुदायेन अस्त्राणामायुधानां समुदायेन निकरेण । योजितः संबन्धितः ॥४५॥ कस्यति । असिना खङ्गेन । इभकुम्भम् इभस्य गजस्य कुम्भं कुम्भस्थलम् । निभिन्दतः विदलतः । अश्वगतस्य अश्वं वाजिनं गतस्य यातस्य । कस्यापि कस्यचिद्भटस्य । ततः इभकुम्भात् । पतन्ती च्यवन्ती । मौक्तिकावलि: मौक्तिकानां मुक्ताफलानामावलिः संहतिः । पुष्पवृष्टिवत् पुष्पाणां कुसुमानां वृष्टिवत् वर्षमिव । युद्ध क्षेत्रमें उतरनेसे पहले अपने स्वामीके प्रसादको ग्रहण करते समय योद्धाओंके चेहरोंपर जो लालिमा और अनुराग था, युद्धक्षेत्रमें उतरनेपर शत्रुओंके बाणोंको सहते समय भी उनके चेहरोंपर वही लालिमा और अनुराग छाया हुआ था ॥४२॥ योद्धाओंने अपने बाणोंसे (आकाशमें)बहुत बड़ा मण्डप बनाकर धूपको दूर कर दिया था, इसलिए उन्हें प्रहार करनेपर भी आयास नहीं जान पड़ता था ॥४३॥ जो अपने स्वामीके सम्मानके, अपनी शक्तिके और अपनी परम्पराके योग्य था, उसे बारम्बार स्मरण करते हुए सैनिक आगे चले जा रहे थे ॥४४॥ एक योद्धाने शस्त्रोंके असह्य प्रहारोंसे जिस विरोधीको जीत लिया था और खुशी मनाई थी, उसने पुनः क्रुद्ध होकर उसे (जिसने जीत लिया था) अस्त्रोंके सुमूहसे पूर दिया ॥४५॥ अपने खङ्गसे हाथीके गण्डस्थलका विदारण करनेवाले किसी अश्वारोहीके ऊपर उस विदीर्ण गण्डस्थलसे गिरनेवाली गजमुक्ताओं १. म मसूत् स । २. क ख ग घ म सोऽस्रसमु। ३. आ इ परन्त्यभा। ४. = उपक्रमन्ते । ५. आ रभ । ६. = प्रसन्नताम् । ७. श°रक्तता। ८. = वेष्टितः। ९. आ संबाधितः । १०. = विदारयतः । ११. = अश्वारूढस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy