________________
३५६
चन्द्रप्रभचरितम्
हेषासक्तहये गर्जद्गजे प्रध्वनदानके । तस्मिन्बलद्वये शब्दमयमासीदिवाखिलम् ||३८|| रैरोरा रैरररेरी रोरो रोरुररेररि- । रुरूरूरुरुरूरूरोरारारोररुरोररम् ||३९|| तुरङ्गिणां पदातीनां रथिनां गजरोहिणाम् | यस्य येन समा कक्षा स तमाह्वास्त वीतभीः ॥४०॥ युद्धमार्गविदो योद्धमारभन्त महाभटाः । प्राणैरस्थास्नुभिः स्थास्नुयशः क्रेतुमभीप्सवः ॥४१॥
[ १५, ३८ -
५
रणाजिरे ऽङ्गणे । अन्योन्यं परस्परम् । उद्दिश्य उद्देश्यं कृत्वा । [ वल्गती गच्छन्ती ] भटसंहतिः भटानां योद्धृणां संहतिः समूहः । रराज बभौ । लिट् ||३७|| हेषेति । हेषासक्तहये हेषायां तुरगध्वनी आसक्ताः प्रीता हयास्तुरङ्गमा यस्मिन् तस्मिन् । गर्जद्गजे गर्जन्तो ध्वनन्तो गजा यस्मिन् तस्मिन् । प्रध्वनदान के प्रध्वनन्तो ध्वनन्त आनकाः पटहा यस्य तस्मिन् । तस्मिन् बलद्वये बलयोः सेनयोर्द्वये सति । अखिलं सकलम् । शब्दमयमिव शब्दस्वरूपमिव । आसीत् अभवत् । अस भुवि लङ् । उपमा (?) उत्प्रेक्षा च ॥ ३८ ॥ रेर इति । रैरोरा: रै ( रा: ) द्रव्यम्, रायं राति ददातीति रम्, रैरम् उरो हृदयं यस्य स रैरोरा, द्रव्यदानहृदयःत्यागशील इत्यर्थः । रैररेरेरिः रायं द्रव्यं रातीति रैरो धनदाता, रैरो धनदः कुबेर इत्यभिप्रायः, रैरश्चासो रैरश्च रैररैरो धनदधनद इत्यर्थः, तमोरयति क्षिपति परिभवतीति रैररेरेरिः - घनदजिदित्यर्थः, वित्तदायक कुबेर तिरस्करणशील इत्यर्थः । रोरुः भृशं ध्वनन् । उरूरूरुः उरुश्च उरुश्च उरूरू स्थूलस्थूलो उरूरू उरू यस्य सः उरूरूरुः, अत्यन्त परोवरोरुरित्यर्थः । रोरो: रोरवीति रोरुः तस्य रोरोः, शब्दयतः ( शब्दं कुर्वतः ) ।रु गतावित्यस्य मौणादिक उ-प्रत्ययः भृशं ध्वनत इत्यर्थः । उरूरूरो: अतिमहदूरुयुतस्य । उरो: महतः । अरेः शत्रोः । अरिः शत्रुः । अरीरैः अरा ( आरा ) धारा विद्यते एषामित्यरीणि, चाणीत्यर्थः, अरीणामीराः क्षेपाः तैः चक्रक्षेपैरित्यर्थः । अरम् अत्यन्तम् । आर ढोकते स्म । ऋगतो लिट् । एकव्यञ्जन चित्रमिदम् ||३९|| तुरङ्गिणामिति । तुरङ्गिणाम् अश्वारोहाणाम् । पदातीनां पादचारिणाम् । रथिनां रथारूढानाम् । गजारोहिणां गजारूढानाम् । यस्य पुरुषस्य । येन पुरुषेण । कक्षा सामर्थ्यम् । सम" समानम् । वीतभीः वीता रहिता भीर्भीति र्यस्य सः । सः पुरुषः । तं पुरुषम् । आह्वास्त आह्वयति स्म । ह्वय स्पर्द्धायाम् | लङ् ||४०|| युद्धेति । युद्धमार्गविदः युद्धस्य संग्रामस्य मार्ग विदन्तीति तथोक्ताः । अस्थास्नुभिः अस्थिरैः । 'ग्लास्थस्स्तु:' इति स्नु-प्रत्ययः । प्राणैः असुभिः । स्थास्नु स्थिररूपम् । यशः कीर्तिम् । क्रेतुं स्वीकाराय । अभीप्सवः अभिलिप्सवः । महाभटाः महायोद्धारः । योद्धुं योधनाय । सैनिकों का समूह सुशोभित हो रहा था || ३७ || दोनों सेनाओं में घोड़े हिनहिना रहे थे, हाथो चिंघाड़ रहे थे और रणभेरियाँ बज रही थीं । अतएव सारा विश्व केवल शब्दमय-सा प्रतीत होने लगा ||३८|| हृदयसे धन प्रदान करनेवाले, धन देनेवाले कुबेरको भी मात करनेवाले, सिंहनाद करनेवाले और स्थूल ऊरुओंवाले एक योद्धाने, सिंहनाद करनेवाले और मोटे ऊरुओंवाले एक महायोद्धा के ऊपर चक्रका वार किया और वह उसके निकट जा पहुँचा ||३६|| कुछ योद्धा घोड़ोंपर सवार थे, कुछ हाथियोंपर और कुछ रथोंपर । इनके अतिरिक्त पयादे भी थे । किन्तु जो जिसके जोड़का था, उसने उसे निर्भय होकर ललकारा ॥ ४० ॥ अस्थिर प्राण देकर स्थिर यशके क्रय ( खरीद) को चाहनेवाले युद्धकलामें कुशल महान् योद्धाओंने
युद्ध प्रारम्भ कर दिया ॥४१॥
Jain Education International
१. अधीरधीः । २. क ख ग घ म यशश्चेतुं । ३ = रण एवाजिरं तस्मिन् । ४. = यस्मिन् । ५. आ उपमोत्प्रेक्षा चेति नास्ति । ६. श रातीति । ७. आरु गतो । ८. = तुल्या । ९. आ आह्वयते स्म । हो स्पर्द्धायां लुङ । १०. श अभीच्छवः ।
For Private & Personal Use Only
www.jainelibrary.org