SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ३५५ - १५, ३७ ] पञ्चदशः सर्गः न कण्टकद्रुमस्थस्य काकस्य परुषं रवम् । न वाजिपुच्छज्वलनं न चार्तरुदितस्वरम् ॥३३।। न प्रातिकूल्यमत्यन्तं मनःपवनगोचरम् । नासृक्प्रवर्षमाकाशे' क्रोधान्तरितचेतनः ॥३४।। क्षयानिलचलत्पूर्वपश्चिमार्णवतुल्ययोः । तयोर्वभूव संघट्टः सैन्ययोरुभयोरपि ॥३५॥ अन्योन्यालोकनोद्भूतत्वरांस्तुरगसंभवः । पांसुर्निवारयामास कृपयेव क्षणं भटान् ॥३६।। माद्यद्दन्तिमदोत्सेकच्छन्न पसिौ रणाजिरे। वल्गत्यन्योन्यमुद्दिश्य रराज भटसंहतिः ॥३७|| पुनः पुनः भूयो भूयः प्रवर्तमानम् । क्षुतं न । अहिखण्डितम् अहिना सर्पण खण्डितं निवारितम् । मार्ग पन्थानम् । न गणयामासेति प्रत्येकमभिसंबन्धः । दीपकम् ॥३२।। नेति । कण्टकद्रुमस्थस्य कण्टके कण्टकयुक्त द्रमे वक्षे स्थितस्य । काकस्य वायसस्य । परुषं निष्ठरम । रवं ध्वनिम । न गणयामास । वाजिपुच्छज्वलनं वाजिनामश्वानां पुच्छानां वालधोनां ज्वलनं संतापम् । न। आर्तरुदितस्वरम् आर्तेन दुःखेन रुदितस्य रोदनस्य स्वरं ध्वनिम । न च गणयामास । अयमपि दीपकः ॥३३॥ जनेति। क्रोधान्तरितचेतनः क्रोधन कोपेनान्तरितं व्यवहितं चेतनं (अन्तरिता व्यवहिता चेतना) बुद्धिर्यस्य सः । मनःपवनगोचरं मनोवाय्वोविषयम् । अत्यन्तं भृशम् । प्रातिकूल्यं प्रतिकूलत्वम् । न गणयामास ।। आकाशे गगने । असृक्प्रवर्षम् असृजो रक्तस्य प्रवर्ष वृष्टिम् । न गणयामास । त्रिभिः कुलकम्" ।। ॥३४॥ क्षयेति । क्षयानिलचलत्पूर्वपश्चिमार्णवतुल्ययोः । क्षयस्य प्रलयकालस्यानिलेन वायुना चलतोः' संचलतो. पर्वपश्चिमयोः पूर्वापरयोरणवयोः समुद्रयोस्तुल्ययोः समानयोः। तयोरुभयोरपि द्वयोरपि । सैन्ययोः सेनयोः । संघदृः संबन्धः । बभूव भवतिस्म। लिट् । अतिशयः ॥३५।। अन्योन्येति । अन्योन्यालोकनोद्भूतत्वरान् अन्योन्यस्य पस्परस्यालोकनेन दर्शनेन उद्भूत" उत्पन्नः त्वरः शीघ्रं येषां तान् । भटान् योद्धन् । तुरगसंभवः तुरगैः अश्वः संभवः संजातः । पांसुः रजः । कृपयेव कारुण्येनेव । क्षणम् अल्पकालपर्यन्तम् । निवारयामास निवारयति स्म । वृञ् वरणे लिट् । उत्प्रेक्षा ॥३६॥ माद्यदिति । माद्यद्दन्तिमदोत्से कच्छन्न पांसो माद्यतां मदयुक्तानां दन्तिनां गजानां मदस्य मदजलस्योत्सेकेन छन्नो लोनः पांसू रजो यस्य तस्मिन् । रणाजिरे पर कौओंका परुष स्वर सुनाई देने लगा; घोड़ोंकी पूंछोंमें आग लग गयो; दुखियोंके रोनेका दुःखभरा स्वर होने लगा; मनमें प्रतिकूल विचार आने लगे; प्रतिकूल वायु बहने लगो और आकाशमें लहू बरसने लगा, पर चेतनापर क्रोधका असर आ जानेसे उसने अपशकुनोंपर कोई ध्यान ही नहीं दिया ॥३२-३४॥ प्रलयकालोन वायुसे क्षुब्ध हुए पूर्व और पश्चिम समुद्रों सरीखे दोनों सेनाओंके दलोंका आपसमें खूब जोरका संघर्ष शुरू हो गया ॥३५॥ एक-दूसरेको देखकर सैनिक आपसमें प्रहार करनेके लिए उतावले हो उठे, किन्तु घोड़ोंको टापोंके प्रहारसे उत्पन्न हुई धूलिने मानो दयाके कारण उन्हें कुछ क्षणों तक रोक लिया ॥३६॥ मदमाते हाथियोंके मदजलके छिड़कावसे धूलि शान्त ही जानेपर रणाङ्गणमें एक-दूसरेको लक्ष्य करके आगे बढ़नेवाला १. अ स्वरम् । २. क ख ग घ मरुदितं वरम् । ३. अबमकरोत् । ४. अ आ इ कसन्न। ५. = क्षवं । ६. = तुल्ययोगिता। ७. श 'काकस्य' इति पदं नास्ति । ८. = दहनम् । ९. = दीपकम् । १०. आ स्वस्तिकान्तगतः पाठो नास्ति । ११. मूलप्रतिषु 'त्रिभिः कुलकम्' इति नास्ति। १२. = क्षुब्धयोः । १३. = संघर्षः । १४. = उपमा। १५. = उद्भूता समुत्पन्ना त्वरा शोघ्रता। १६. श सेकसन्न । १७. श सन्नो लीनः पांसुधूलिः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy