________________
३५४ चन्द्रप्रमचरितम्
[१५, २८भारद्वाजः कुतोऽप्येत्य परीयाय प्रदक्षिणम् । क्षीरिणं वृक्षमारुह्य ववाशे वल्गु वायसः ॥२८।। सहसैव समुद्भिद्य सुस्रवे करिणां कटः। भेजे कोऽपि महोत्साहो रोमाञ्चकवचैर्भटैः ॥२९॥ इष्टैरिष्टार्थपिशुनैः परितोषितसैनिकैः। शकुनैरेभिरन्यैश्च स व्यक्तविजयोऽभवत् ॥३०।। इत्युत्थितं समाकर्ण्य पद्मनाभं सराजकः । संना पृथिवीपालोऽप्यमर्षादभिनिर्ययौ ॥३१।। दक्षिणं गणयामास नाशिवं स शिवारवम् ।
चुतं न पौनःपुनिकं न मार्गमहिखण्डितम् ३२।। ररास निनाद । रस घुक्ष शब्दे लिट् ।।२७॥ भारद्वाज इति । भारद्वाजः खजरीटपक्षो। कुतोऽपि कस्मादपि । एत्य आगत्य । प्रदक्षिणं प्रदक्षिणावर्तम् । परीयाय जगाम । इण गती लिट् । क्षीरेण युक्तम् । वृक्षं भूरुहम् । आरुह्य आस्थाय। वायसः बलिभक। वल्ग मधरम । ववाशे दध्वान । वाशि शब्दे लिट ॥२८॥ सहसेति । करिणां गजानाम् । कटैः कपोलप्रदेशः । सहसैव वेगेनैव । समुद्भिद्य संविदार्य। सुस्रवे दुवे । द्रु स्रु गती भावे लिट् । रोमाञ्चकवचैः रोमाञ्चो रोमहर्षणं स एव कवचो येषां तैः। भटै: योद्धभिः । कोऽपि कश्चिदपि । महोत्साहः महासंभ्रमः । भेजे शिश्रिये । श्रि सेवायां कर्मणि लिट् ॥२९॥ इष्टैरिति । इष्टार्थपिशुनैः इष्टस्याभोष्टस्यार्थस्य प्रयोजनस्य पिशुनैः सूचकैः । परितोषितसैनिकैः परितोषिताः संतोषिताः सैनिका यस्तैः" । इष्टै: अभिप्रेतैः । एभिः एतैः । अन्यैश्च अपरैश्च । शकुनैः एष्यत्सूचकनिमित्तः । व्यक्तविजयः व्यक्तो व्यक्तीभूतो विजयो यस्य सः। अभवत् अभूत् । भू सत्तायां लङ् । अनुमितिः ॥३०॥ इतीति । इति एवम् । उत्थितं निर्गतम् । [ तं ] पद्मनाभं पद्मनाभभूपतिम् । आकर्ण्य श्रुत्वा । सराजकः राजकेन राज्ञां समूहेन सह वर्तत इति तथोक्तः-राजसमूहयुक्तः । पृथिवीपालोऽपि पृथिवीपालभपोऽपि । संनह्य"सज्जोकृत्य । अमर्षात् कोपात् । अभिनिर्ययौ' अभिनिर्जगाम । या प्रापणे लिट् । जातिः ॥३१॥ दक्षिणमिति । सः पृथिवीपाल: । दक्षिणं दक्षिणभागं गतम् । अशिवम् अमङ्गलम् । शिवारवं शिवायाः शृगालस्य (शृगाल्याः ) रवं ध्वनिम् । न गणयामास न गणयति स्म। गण संख्याने लिट् । पौन:पुनिक
शब्दोंमें बोलने लगा ॥२७॥ भारद्वाज-खञ्जरीट पक्षी कहींसे भी आकर पद्मनाभकी परिक्रमा करके चला गया और कौआ दूध बहानेवाले किसी वट आदि वृक्षपर बैठकर सुन्दर ढंगसे बोलने लगा ॥२८॥ हाथियोंके गण्डस्थल सहसा फूट पड़े और उनसे मदजल झरने लगा। सैनिकोंको रोमाञ्च हो आया और उन्हें अद्भुत् महान् उत्साहका अनुभव होने लगा ॥२९॥ इष्ट अर्थकी सूचना देनेवाले और इसीलिए सैनिकोंको सन्तुष्ट करनेवाले इन इष्ट शकुनोंसे तथा इन सरीखे
और-और भी शकुनोंसे पद्मनाभको विजय स्पष्ट हो गई ॥३०॥ इस प्रकार राजा पद्मनाभको युद्धके लिए निकला हुआ सुनकर पृथिवीपाल भी अपने पक्षके राजवर्गके साथ युद्धकी तैयारी करके बड़े क्रोधसे निकल पड़ा ॥३१॥ पृथिवीपालके प्रयाण करते समय दाईं ओर शृगालीका अमङ्गलकारी शब्द होने लगा; बार-बार छोंकें आने लगों; साँप रास्ता काट गया; कैंटोले पेड़ों
१. क ख ग घ व्यक्तव्य जयों, म वक्तव्यजयों। २. अ °जयोऽभजत् । ३. अ क ख ग घ म तमाकर्ण्य । ४. आ इ सराजकम् । ५. क ख ग घ म शिवारुतम् । ६.= कुतश्चनापि । ७. श प्रदक्षिणप्रदेशेन । ८. परिक्रम्य जगाम । ९. आ संविधार्य १०. = अद्भुतीऽपूर्वोवा। ११. आ येषां तेः । १२. आ एतत्सू । १३. = विशिष्टो जयः । १४. श समाकण्यं । १५. = सज्जीभूय । १६. आ 'अभि' नास्ति । १७. श पृथ्वीवालः । १८. आ अशुभम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org