________________
TIE
१५, २७ ]
पञ्चदशः सर्गः
नगोत्तुङ्गं समारुह्य नागेन्द्रं रणविग्रहम् । तमन्वगाद्भीमरथः प्रताप इव पूषणम् ॥२३॥ परिज्वलन्महास्त्रौघं रथं सारथिसज्जितम् । मनोरथमिवास्थाय निर्जगाम महोरथः ||२४|| परितः परिवव्रुस्तमन्येऽप्येत्य नराधिपाः । चतुरङ्गबलोपेताश्चतुरम्बुधिविश्रुताः ||२५|| प्रयाणंतूर्यनिर्घोष संमिलत्सर्व सैनिका' । सासी व हादिसंख्येव व्यक्तयत्ता न वाहिनी ॥ २६ ॥ विसस्वान शिवा तस्य वामतः शिवशंसिनी । तामेव दिशमाश्रित्य ररास मृदु रासभः ||२७||
३५३
रथा रथारूढेन । युवराजेन सुवर्णनाभेन । अनुसस्रे अनुगम्यतेस्म । उपमा ॥ २२ ॥ | नगेति । भीमरथः भोमरथराजः । नगोत्तुङ्गं त इव पर्वत इवोत्तुङ्गमुन्नतम् | रणविग्रहं रणविग्रहनामधेयम् । नागेन्द्र" गजेन्द्रम् । समारुह्य । पूषणं सूर्यम् । प्रताप इव तेज इव । तं युवराजम् । अन्वगात् अनुगच्छतिस्म । उपमा ||२३|| परीति । परिज्वलन्महास्त्रौघं परिज्वलन् प्रज्वलन् महास्त्राणां महामन्त्रायुधानामोघो यस्मिन् तम् । सारथि - सारथिना सज्जितं संनद्धम् । मनोरथमिव मनः संतोषमिव । रथं स्यन्दनम् । आस्थाय आरुह्य । महीरथः महीरथराजः । निर्जगाम निरगात् ||२४|| परित इति । चतुरम्बुधिविश्रुताः चतुरम्बुषीन् चतु:समुद्रपर्यन्तं विश्रुताः प्रसिद्धाः । चतुरङ्गबलोपेता चतुरङ्गेण चतुरवयवेन बलेन सेनया उपेता युक्ताः । अन्ये [ अपि ] परेऽपि । नराधियाः भूमिपाः । एत्य गत्वा । तं पद्मनाभम् । परितः समन्तात् । परिवव्रुः परिवृण्वन्ति स्म । वृञ् वरणे लिट् ॥ २५ ॥ प्रयाणेति । प्रयाणतूर्यनिर्घोषसंमिलत्सर्वसैनिका प्रयाणस्य निर्याणस्य तूर्यस्य वाद्यविशेषस्य निर्घोषेण रवेण संमिलन्तो राशीभवन्तः सर्वे निखिलाः सैनिका मटा यस्यां सा । सा वाहिनी सेना । बह्वादिसंख्येव बह्वादिरेव संख्या सेव। आदिशब्देन यूथगण इत्यादि । व्यक्तेयत्ता ] व्यक्ता स्पष्टा इयत्ता एतत्प्रमाणता यस्याः सा । न भवति । उपमा ||२६|| विवस्वानेर्ति । तस्य पद्मनाभस्य वामतः वामभागतः। शिवशंसिनो शिवस्य शुभस्य शंसिनो सूचिनी । शिवा शृगाली " । विसस्वान २ निनाद । स्वन शब्दे लिट् । तामेव वामरूपामेव । दिशं दिशाम् | आश्रित्य आगत्य । रासभः खरः । मृदु मृदुलं यथा तथा ।
०
पहाड़ के समान उन्नत रणविग्रह
सूर्य ( जो रथपर सवार रहता है ) अनुगमन करता है ||२२|| नामक गजराजपर चढ़कर भीमरथने युवराजका अनुगमन किया। जैसे प्रताप सूर्यका अनुगमन करता है ||२३|| चमचमाते हुए बड़े-बड़े अस्त्रोंके समूहसे युक्त, सारथीके द्वारा सजाये गये और मनोरथके समान प्रतीत होनेवाले रथके ऊपर बैठकर राजा महीरथ, भीमरथ के पीछे-पीछे चलने लगा ||२४|| चारों समुद्रों तक प्रसिद्ध और भी राजे-महाराजे चतुरङ्गिणी सेनाओं को अपने साथ लिवाकर आ गये और पद्मनाभके आगे-पीछे और दाएँ-बाएँ भागोंमें — इस तरह उसे चारों ओरसे घेरकर चलने लगे || २५ || प्रयाण के समय रणभेरीका शब्द सुनते ही सभी सैनिक सेना में आकर सम्मिलित हो गये । उस समय वह सेना बहु आदि संख्या के समान स्पष्ट प्रमाणसे युक्त नहीं थी—अगणित थी ||२६|| जाते समय पद्मनाभकी बाईं ओर मङ्गलकी सूचना देने - वाली शृगाली शब्द करने लगी और उसी दिशा में अर्थात् बाईं ओर ही एक गदहा कोमल
-
१ क ख ग ध प्रयाणे तूर्य । २. म सैनिका: । ३ = अनुसृतः । ४. श नग इति । ५. श नगेन्द्रं । ६. = मनोऽभिलाषमिव । ७. श महीरथनामधेयः । ८. आश विवस्वान इति । ९ आ सुखस्य । १०. श सूचनो । ११. आश शृगालः । १२. श विसस्वने ।
४५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org