________________
३५२ चन्द्रप्रमचरितम्
[ १५, १७चूडारत्नेन चित्राङ्गं प्रालम्बेन परंतपम् । रत्नकण्ठिकया कण्ठं कुण्डलाभ्यां सुकुण्डलम् ॥१७॥ अनर्घमणिना भीमरथं हारेण हारिणा । महीरथं स्वाभरणैश्चतुरः सञ्चकार सः ।।१८।। (कुलकम् ।) अन्योऽपि यस्य यो योग्यः सन्नाहेस्तुरगो रथ। वारणो वा विशेषज्ञस्तत्सादकृत तं नृपः ॥१६॥ सेना सेना यती बद्धराजिराजिसमुत्सुका । चक्रे चक्रषुखङ्गास्त्रसारा सारातिसाध्वसम् ॥२०॥ सज्जीकृतं महामात्रै रोपितास्त्रे पुरोधसा। वनकेलिमथारुह्य निरगादभिशत्रु सः॥२१॥ रथिना युवराजेन सोऽनुसने नराधिपः।
ऐरावतसमारूढो रविणेव सुराधिपः ।।२२।। सेनं सेनराजम् ॥१६।। चूडेति । चूडारत्नेन चूडामणिना। चित्राङ्गं चित्राङ्गराजम् । प्रालम्बेन सुवर्णमययज्ञोपवीतेन । परंतपं परंतपराजम् । रत्नकण्ठिकया रत्नकण्ठाभरणेन । कण्ठं कण्ठराजम् । कुण्डलाभ्यां कर्णवेष्टनाभ्याम् । सूकुण्डलं सुकुण्डलराजम् ॥१७॥ अनघेति । अनर्घमणिना अनर्पणामल्येन मणिना रत्नेन यक्तेन । हारिणा मनःप्रीतिकारिणा. हारेण । भीमरथं भीमरथराजम । स्वाभरण: अनर्घाभरणः । महीरथं महीरथराजम । चतुरः प्रौढः । सः पद्मनाभः। सच्चकार सत्करोति स्म । दीपकम ।।१८।। अन्य इति । अन्योऽपि परोऽपि । यः । सन्नाहः तनुत्रादिः । तुरगः अश्वः । रथः स्यन्दनः । वारण: गजः। यस्य राज्ञः । योग्यः उचितः । तम् । विशेषज्ञः सकलज्ञः । नृपः पद्मनाभः । तत्सात् तेषामधीनम् । अकृत अविधात ( व्यधात ) । लुङ ॥१९।। सेनेति । सेना हनेन स्वामिना सह वर्तते इति सेना। यती गच्छती बद्धराजिः बद्धा रचिता राजिः पक्तिः । आजिसमत्सुका आजो संग्रामे समुत्सुका आसक्ता । चक्रेषु खङ्गास्त्रसारा चक्रेण चक्रायुधेन इषुणा बाणेन खड्रेन अस्त्रेण मन्त्रायुधेन च सारा उत्कृष्टा । [सा] सेना चम्. । अरातिसाध्वसम् अरातोनां शत्रूणां साध्वसं भयम् । चक्रे चकार । लिट् । यमकम् ॥२०॥ सज्जीति । अथ अनन्तरम। सः पद्मनाभः। महामात्रैः हस्तिशिक्षकैः । सज्जीकृतं संनद्धीकृतम् । पुरोधसा पुरोहितेन । रोपित स्त्रं रोपितं पूरितं ( रोपितानि पूरितानि अस्त्राणि यस्मिन् तम् )। वनके लि बनकेलिनामगजम् । आरुह्य । अभिशत्रु शत्रोरभिमुखम् । निरगात् निर्जगाम । इण गती लुङ । जातिः ।।२१॥ रथिनेति । सः नराधिपः पद्मनाभः। ऐरावतसमारूढः ऐरावतं देवगण समारूढः'। सुराधिपः सुराणां देवानामधिप इन्द्रः। रविणेव सूर्येणेव । सब राजाओंका सत्कार किया ॥१६-१८॥ कवच, घोड़ा, हाथी तथा रथ आदि और भी जो पदार्थ जिसके योग्य था, उसे विशेषताके पारखी राजा पद्यनाभने, उसीके अधीन कर दिया ॥१९॥ चक्र, बाण, खङ्ग आदि अस्त्र-शस्त्रोंसे सुसज्जित, युद्ध के लिए उत्सुक, स्वामी सहित. और पंक्तिबद्ध होकर आगेकी ओर जाती हई. पद्मनाभकी उस सेनाने शत्रओंको भय उत्पन्न कर दिया ॥२०॥ इसके बाद जिसे महावतोंने सजाया और जिसके ऊपर पुरोहितने अस्त्र रख दिये , उस वनकेलि नामक हाथीपर सवार होकर राजा पद्मनाभ शत्रुकी ओर चल दिया ॥२१॥ युवराज सुवर्णनाभने रथपर सवार होकर राजा पद्मनाभका अनुगमन कियाआगे राजा चला जा रहा था और उसके पीछे युवराज । जैसे ऐरावतपर चढ़े हुए इन्द्रका
१. क ख ग घ 'कुलकम्' नोपलभ्यते । २. म स वाहस्तुरगों । ३.= सच्चकार । ४. = सच्चकार । ५. = स्पकीयैराभरणैः । ६. आ अवीरात् । ७. = गच्छन्ती। ८. = यया सा। ९. = अस्त्रायुधेन ।
१०. आ श सज्जेति । ११. श आरूढः । Jain Education International For Private & Personal Use Only
www.jainelibrary.org