________________
३५०
चन्द्रप्रभचरितम्
[ १५, ९रिपुरोषारुणीभूतच्छविच्छुरितकण्टकैः। रेजे संध्याघना कारैर्भाषितारिघटै टैः ।।६।। भूरिभैरवधीरायाः रुष्टैः प्रतिगजश्रुतेः ।। भूरिभैरवधीराया समदानैः स्वपाणिना ।।१०।। पुण्यैः कवचितस्यास्य किं कृत्यमपरं मया । इतीव नृपतेरङ्गे संनाहोऽनिष्ठयाविशत् ॥११॥ जयलक्ष्मीपरिष्वङ्गव्यवायन ममामुना।
किमित्यासीद् युवेषस्य संनाहे नातिगौरवम् ।।१२।। क्षणम् अल्पकालपर्यन्तम् । अन्तर्दधे व्यवहिता। डुधान धारणे च लिट् ॥८॥ रिप्विति । रिपुरोषारुणी. भूतच्छविच्छुरितक ङ्कट: रिपुषु शत्रुषु जातेन रोषेण कोपेनारुणीभूतया लोहितया छव्या कान्त्या च्छुरितः कङ्कटः कववो येषां तैः । संध्याघनाकारैः संध्यायाः संध्याकालस्य घनस्य मेघस्याकार इवाकारो येषां तैः । भीषितारिघटैः भीषिता विभीषिता अरोणां शत्रूणां घटः ( घटा ) समूहो यस्तैः । भटैः योद्धृभिः । रेजे । लिट् । उपमा ॥९॥ भूरिति । भूरिभैरवधीराया: भूर्या बहुलाया भैरव्या भयंकराया धीरायाः स्थिरायाः" । प्रतिगजश्रुतेः प्रतिगजानां प्रतिकूलकरिणां श्रुतेर्वनेः सकाशात् । रुष्टः कुपितैः । इरायाः सुरायाः । समदानः समं समानं दानं मदजलं येषां तैः। इभैः करिभिः । [स्वपाणिना स्वकरेण । भूः पृथिवी] । अवधि ताडयते स्म। हन हिंसागत्योः कर्मणि लुङ । यमकम् ॥१०॥ पुण्यैरिति । पुण्यैः शुम कर्मभिः । कवचितस्य आच्छादितस्य । अस्य राज्ञः। मया । अपरम् अन्यत् । कृत्यं कार्यम् । किं वर्तते ?। इती एवमिव । नृपतेः पद्मनाभस्य । अङ्गे देहे । संनाहः कवचादिसंनाहः । अनिष्ठया” अनिष्ठावस्थया। अविशत् विशति स्म । विश प्रवेशने लङ ॥११॥ जयेति । जयलक्ष्मीपरिप्वङ्गव्यवायेन" जयलक्ष्म्याः परिष्वङ्गेनालिङ्गनेन व्यवायेन व्यवहितेन । अमुना अनेन सह । मम मे। किं प्रयोजनम् ? इति । युवेशस्य सुवर्णनाभस्य । संनाहे ' संनाहकरणे । अतिगोरवम् अतिमहत्त्वम् । नासीत् नाभूत् । अस भुवि लङ" । आक्षेपः (?) ॥१२॥ गयी ॥८॥ शत्रुओंके प्रति रोष होनेसे सैनिकोंके नेत्र लाल हो गये और उनकी लाल कान्तिसे उनके कवच भी लाल हो गये । अतएव वे सन्ध्याकालीन मेघोंके समान हो गये। उन्हें देखकर शत्रुमण्डल भयभीत हो गया। उस समय उनकी शोभा देखते ही बनती थी ॥६।। शत्रुओंके हाथियोंकी बहुत भयावनी और गम्भीर चिंघाड़ सुनकर (गन्धकी दृष्टिसे) मद्यके समान मदजल बहानेवाले, पद्मनाभके हाथियोंने अपनी सूंडसे पृथिवीका ताडन शुरू कर दिया ॥१०॥ 'राजा पद्मनाभ पहलेसे ही पुण्यका कवच पहने हुए है-मुझे जो काम करना चाहिए, उसे पुण्य पहलेसे ही कर रहा है, अब इससे अधिक इसका और क्या काम है, जो मझे करना चाहिए', मानो यही सोचकर निष्ठा न रहनेपर भी कवचने पद्मनाभके शरीरमें प्रवेश किया-पद्मनाभने कवच पहना ॥११॥ 'जयलक्ष्मीके आलिङ्गनमें व्यवधान डालनेवाले इस कवचसे मुझे क्या काम है', मानो यह सोचकर युवराज सुवर्णनाभको कवच पहननेके विषयमें विशेष महत्त्व प्रतीत नहीं हुआ
१. अ संध्यायना । २. इ गजश्रुतः । ३. आ इ ममाधुना । ४. अ गौरवः । ५. आ 'च' नास्ति । ६. एष टोकाश्रयः पाठः, प्रतिषु च मूलासु 'कण्टकैः' इत्येव समुपलभ्यते । ७. श च्छुरितं कङ्कटं कवचं। ८. श भीषितो विभाषितों। ९. आ 'विभीषिता' इति नास्ति । १०.= गभीरायाः। ११. आ शुद्धायाः । १२. 'इरा भूवाक्सुरा सु स्यात्' इत्यमरः । १३.= ताडिता । १४. आ 'यमकम्' इति नस्ति । १५. आ सुखक। १६. = संनाहेन । १७. - अस्माद्धेतोरिव । १८. = अनास्थया । १९.=जयलक्ष्म्याः परिष्वङ्ग आलिङ्गने व्यवासेन व्यवधानेन । 'व्यवायस्तु मैथुनव्यवधानयोः' अनेका० ३।५३३ । २०. = संनाहेन । २१. = कवचे । २२. आ लुङ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org