________________
- १५, ८]
पञ्चदशः सर्गः हृष्यदङ्गतया सद्यः स्फुटत्पूर्वरणवणैः । वीरैर्वीररसाविष्टैः संनद्धमुपचक्रमे ॥५॥ कश्चित्तनुच्छदं योग्यं समरे समरेखकम् । देहे हृष्यत्यपर्याप्तं नामुञ्चन्ना मुचत्पुनः ॥६॥ तव संनहनं नाथ लघुभूतमिवाधुना। इत्यूचे स्वकरस्पर्शात्पुष्टाङ्गः कोऽपि कान्तया ॥७।। शृङ्गारद्विगुणीभूतैरमाति पुलकैस्तनौ । संनाहेऽन्यस्य चतुरा क्षणमन्तर्दधे प्रिया ।।८।।
शिरे२ व्याप्नुवन्ति म्म । आप्ल व्याप्ती लिट् । 'नक् च-' इत्यादिना नगागमः ॥४॥ हृष्यदिति । हृष्यदङ्गतया हृष्यत संतूष्यदङ्ग यस्य तस्य भावः तया। सहाः तत्क्षणम् । स्फुटत्पूर्वरणवण स्फुटद् भिनत् पूर्वेण रणेन संजातं व्रणं येषां तैः । वीररसाविष्टैः वीररसेनाविष्ट: प्रविष्टः । वीरैः वीरपुरुषैः । संनद्धं संनहनाय । उपचक्रमे प्रारभ्यते स्म । क्रम पादविक्षेपे कर्मणि लिट् ।।५।। कश्चिदिति । कश्चित् एकः। ना पुरुषः । हृष्यति हर्ष गते । देहे शरीरे। अपर्याप्तम् अगृहीतम्। समरेखकं समा समाना रेखा यस्य तत्, चतुरस्रमिति भावः । समरे संग्रामे । योग्यम् उचितम् इति । तनुच्छदं कवचम् । अमुञ्चत् अत्यजत् । पुनः पश्चात् । ना अन्यः पुरुषः । आमुचत् धरति स्म । मुच्लु मोक्षणे लुङ् । कश्चिद्वीरः कवचं त्यक्तवान् कश्चिद् भीरु धरतिस्मेत्यर्थः । पर्यायोक्तिः ॥६॥ तवेति” । स्वकरस्पर्शात् स्वस्याः कान्तायाः करस्य हस्तस्य स्पर्शात् । पुष्टाङ्गः"तुष्टाङ्गः । कोऽपि कश्चित् । कान्तया वनितया साकम् (?) । इति वक्ष्यमाणप्रकारेण । ऊचे उच्यते स्म । ब्रह्य व्यक्तायां वाचि कर्मणि लिट् । 'अस्ति ब्रुवो भूवचौ' इति वचादेशः । नाथ भो नाथ । तव ते । संहननं कवचम् । अधुना इदानीम् । लघुभूतमिव अल्पीभूतमिव । राजतीति शेषः । उपमा ॥७॥ शृङ्गारेति । अन्यस्य परस्य । शृङ्गाराद्वि गुणीभूतैः शृङ्गारेण शृङ्गाररसेन द्विगुणीभूतै द्विगुणजातः । पुलकैः रोमाञ्चैः । तनौ शरीरे । संनाहे संनहने । अमाति अप्रमाणे (ते) सति । चतुरा प्रौढा । प्रिया कान्ता ।
गये ।।४।। युद्धकी खुशीमें योद्धा अपने शरीर में फूले नहीं समा रहे थे। उनके पिछले युद्धोंके घाव फूट कर बह रहे थे, किन्तु वे वीर, वीररसके आवेशमें थे, अतएव युद्ध की तैयारी करनेमें लग गये ॥५॥ एक पुरुषने सङ्ग्रामके हर्षसे शरीर फूल जानेपर छोटे पड़नेवाले कवचको-जो उसीको रेखाओंके मापसे बनाया गया था, और युद्ध में जिसका पहनना उचित था-छोड़ दिया। फिर उसे दूसरे पुरुषने पहन लिया ॥६॥ 'नाथ ! आपका शरीर इस समय ( इस बड़े कवचकी दृष्टिसे ) कुछ छोटा-सा प्रतीत हो रहा है,' यह कहते-कहते प्रियाने ज्यों ही अपने हाथसे उसके शरीरका स्पर्श किया त्यों ही वह ( नवयुवक-पति ) खूब हृष्ट-पुष्ट हो गया ॥७॥ अन्य नवयुवकके शरीरमें शृङ्गारसे रोमाञ्च दूने हो गये और कवच छोटा पड़ गया। यह देखकर उसकी चतुर पत्नी कुछ क्षणोंको उसकी आँखोंसे ओझल हो गई—अन्यत्र जाकर छिप
१. आ इ नामुचन्ना। २.=व्याप्तानि । ३. आ श तत्क्षणे । ४. = युक्तः । ५. आ धोरैः। ६. श संनाहनाय । ७. = लघुतां गतम् । ८. आ मुच्छ । ९. आ वीरः । १०. श तदेति । ११. = पीनाङ्गः ।
१२. आ लध्वीभूतं । १३.= अतिशयोक्तिः । १४. = द्विगुणतां गतैः । १५. = कवचेः । Jain Education International For Private & Personal Use Only
www.jainelibrary.org