________________
३४८
चन्द्रप्रमचरितम्
[१५, १
[ १५. पञ्चदशः सर्गः]
द्वयषामप्यथ प्रातः स्थावरेतरभूभृताम् । उदस्थात्कटकक्षोभी संनाहपटहध्वनिः ॥२।। तस्मिन्नम्वुद गम्भीरे दिगन्तरविसर्पिणि । प्रकम्प भूरपि प्रापदास्तां रिपुपताकिनी ।।२।। मदो मदोद्धताकारैर्दिक्कुञ्जरकुलरपि । तत्यजे त्रस्तचेतोभिररिकीटेषु का कथा ।।३।। भटानां भाविसङग्रामभवदुत्साहशालिनाम् । मनांस्याशिरे हर्वपूंषि पुलकोद्गमैः ॥४॥
द्वयेति । अथ २रात्रिविगमानन्तरम् । प्रातः विभाते । द्वयेषाम् [ आप ] द्वावयवी येषां तेषाम् । स्थावरेत रभूभृतां स्थावराश्चेतरे च जङ्गमाश्च ते च ते भूभृतश्च स्थावरेतरभूभृतः तेषां स्थावरेतरभूभृताम्पर्वतानामितरभू भूतां राज्ञामपि । कटकक्षोभी कटकानि तटानि, पक्षे कटकं सेनां क्षोभी संचलनशीलः । संनाहपट ध्वनि: संनाहस्य संग्रामसूचकस्य पटहस्य भेर्या ध्वनि: शब्दः। उदस्थात् व्याप्नोति स्म । लुङ । श्लेष:४ ॥१॥ तरिमन्निति । अम्बदगम्भीरे अम्बुदवद् गम्भीरं यस्य तस्मिन् । [तस्मिन् ] पटहध्वनो । दिगन्तरविपिणि दिगन्तराणि दिग्विवराणि विििण व्यापिनि सति । भरपि मिरपि । प्रकम्प चंचलम् । प्रापत् प्राप्नोति स्म । आप्ल व्याप्तौ लुङ् । 'सति शास्ति-' इत्यादिना अङ्-प्रत्ययः । रिपुपताकिनी रिपूणा शतॄणां पताकिनी सेना। आस्ता तिष्ठतु । अतिशयः ॥२॥ मद इति । मदोद्धताकारैः मदेनोद्धत आकारो येषां तै: । त्रस्तचेतोभिः त्रस्तं भोतं चेतो मानसं येषां तैः । दिक्कजरकलरपि दिक्ष दिशास विद्यमानां कुजराणां १ कुलनिवहैरपि। मदः गर्वः । तत्यजे त्यज्यते स्म । त्यज हानी कर्मणि लिट् । रिपुकीटेषु रिश्व एव १२की टास्तषु । का कथा का वार्ता ।।३।। भटानामिति । भाविसंग्रामभवदुत्साहशालिनां भाविना भविष्यता संग्रामेण रणेन भवता जायमानेनोत्साहरसेन शालिनां संपन्नानाम् । भटानां योद्धणाम् । हर्षेः संतोषः । मनांसि मानसानि । पुलकोद्गमैः पुलकानां रोमाञ्चानामुद्गमैरुत्पादैः । वपूंषि शरीराणि । आन
इसके पश्चात् प्रभात होते ही युद्धको भेरी बज उठी । उसकी ध्वनिने स्थावर भूभृत्मणिकूट पर्वत और जङ्गम भूभृत्-पद्मनाभ, इन दोनोंके कटक ( मध्यभाग और छावनी ) में क्षोभ उत्पन्न कर दिया ।।१।। मेघगर्जनके समान गम्भीर उस ध्वनिके दिग्दिगन्तव्यापी होनेपर पृथ्वी भी कांप उठी फिर शत्रुसेनाके कम्पनके बारेमें तो कहना ही क्या है ? ॥२॥ भेरीकी आवाज सुनकर मदोद्धत दिग्गजोंके कुलका दिल दहल उठा और उसने मद छोड़ दियाउसका मदजल सूख गया तथा घमण्ड चूर हो गया फिर क्षुद्र शत्रुकीटोंकी तो बात ही क्या है ? ॥३। होनेवाले युद्धके उत्साहसे युक्त सैनिकोंके मन हर्षसे और शरीर रोमाञ्चसे व्याप्त हो
१. 'नम्बधिग । २. श अर्धरात्रि। ३. = क्षोभयतीत्येवं शीलः । ४. श 'श्लेषः' इति नास्ति । ५. = गाम्भीर्य । ६. श 'पटहध्वनौ' इति नास्ति । ७. = विसर्पतीत्येवं शोलस्तस्मिन् । ८.= चाञ्चल्यम् । ९. आ लङ । १०. = अपत्तिश्च ११. = दिग्गजानां । १२. आ 'कोटा: क्रमयः' इति समुपलभ्यते, परमितोऽग्रे 'तेषु' इति पदं नोपलम्रते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org