________________
३४७
- १४, ७१]
चतुर्दशः सर्गः तस्यां रक्षां श्रुतपरबलः संविधाय स्वसैन्ये किंचित्कृत्वा सह निजभटै विसङग्रामचर्चाम् । श्रित्वा शय्यां शयनभवने भासुरां पद्मनाभस्तस्थौ धीरः समदनितालिङ्गनाद्येविनोदैः ।।७०॥ भुवनभवनदीपीभूतबिम्बे नियत्या गतिमुदयविरुद्धां नीयमाने मृगाङ्के । मुकुलिततनुतारालोचना लोकयन्ती विरहमिव तदीयं सा विलिल्ये त्रियामा ७१॥
॥इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये चतुर्दशः सर्गः ॥१४॥
सपदि शीघ्रम् । समाययो आजगाम । लिट । रूपकम् ॥६९।। तस्यामिति । धीर: धैर्ययुक्तः। पद्मनाभः पद्मनाभनृपः । तस्यां रात्री । श्रुतपरबल: श्रुतमाणितं परबलं शत्रुसैन्यं येन सः । स्वसैन्ये रक्षा रक्षणम् । संविधाय कृत्वा । भाविसङ्ग्रामचर्चा भविष्यतः सङ्ग्रामस्य चर्चा विचारम् । निजभटैः स्वयोधृभिः । सह साकम् । किंचित् अल्पकालपर्यन्तम् । कृत्वा विधाय । शयनभवने शयनस्य भवने गृहे । भासुरां भासनशीलाम् । शय्याम आसिकाः । श्रित्वा प्राप्य । समदवनितालिङ्गनाद्यैः समदानां संतोष सहितानां वनितानां नारीणामालिङ्गनायैः परिरम्भणाद्यः । विनोदैः विलासैः । तस्थौ आसां चके। लिट् ॥७०॥ भुवनेति । भवनभवनदीपीभतबिम्बे भवनं जगत तदेव भवनं गहं तस्य दोपीभूतं बिम्बं मण्डलं यस्य तस्मिन् । मृगाड़े चन्द्रे । उदयविरुद्धाम् उदयस्योत्पत्तेविरुद्धां प्रतिकूलाम् । गतिम् अस्तमयम् । नियत्या दैववशेन नीयमाने गम्यमाने । मुकुलिततनुतारालोचना मुकुलिता पिहिता तनु: स्वरूपं यासां ता मुकलिततनवः तारास्तारकाः, ता एव लोचने नयने यस्याः सा । सा त्रियमा निशाङ्गना। तदीयं चन्द्रसंबन्धिनम् । विरहं वियोगम् । लोकयन्तीव वीक्षमाणेव । विलिल्ये विलीना, विलयं गतेत्यर्थः । लोङ् श्लेषणे । लिट् । उत्प्रेक्षा ॥७१॥
इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रमचरित महाकाव्ये तद्व्याख्याने च
विद्वन्मनोवल्लमाख्ये चतुर्दशः सर्गः ॥१४॥
उसो रात्रिमें धीर-वीर राजा पद्मनामने शत्रु-सेनाके आनेके समाचार सुनकर और उसकी शक्तिका पूरा पता लगाकर अपनी सेनामें रक्षाका प्रबन्ध किया, एवं कुछ समय तक अपने सैनिकोंके साथ भावि युद्धके बारे में विचार-विमर्श किया। इसके पश्चात् शयनागारमें रत्नोंसे जगमगाती हुई सेजपर जाकर, अपनी सगर्व ( पद्मनाभकी वीरतापर गर्व करनेवाली ) रानियोंसे आलिङ्गन आदि विनोद करके लेट गया ॥७०॥ संसार रूपी घरमें जिसका बिम्ब दीपक स्वरूप है उस चन्द्रमाको नियति ( अदृष्ट ) जब उदयसे विपरीत ( अस्त ) अवस्थामें ले जाने लगी, तब रात्रिने अपनी कायाको समेट लिया और तारारूपी नेत्रोंको मुंद लिया, और फिर चन्द्रमा ( पति ) के विरहको देखकर ही मानो वह विलीन हो गई ॥७१।। इस प्रकार महाकवि वीरनन्दि विरचित उदयाङ्क चन्द्रप्रम चरित महाकाव्यमें
चौदहवाँ सर्ग समाप्त हुआ ॥१४॥
१. आ इ तस्थे । २. = पल्यङ्कम् । ३. आ 'आसिकाः' इति नास्ति । ४. आ संताप । ५. एष टोकाश्रयः पाठः, प्रतिषु तु 'लोचयन्ती' इत्येव समवलोक्यते । ६. श लिङ्। ७. आ सर्गः समाप्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org