________________
३४६
चन्द्रप्रभचरितम्
चन्द्राकारस्थलममलिनोत्तङ्गडिण्डीरपिण्डश्वञ्चद्वाजिव्रजमविरतोद्भान्तकल्लोलमालः । सर्पन्मत्तद्विपमभिसरन्नक्रचको जयेत्तं
स्कन्धावारं यदि कथमपि स्यादपारः पयोधिः ॥६७॥ इति तत्र गिरौ निविष्टसैन्यं चरवक्रादवगम्य पद्मनाभम् । स्वबलेन समं समेत्य कोपात्पृथिवीपालनृपोऽन्तिके बभूव ॥ ६८|| तयोर्द्वयोरपि नृपयोः प्रतापिनोर्विलोकितुं बलमिव जातकौतुका । समाययौ सपदि शशाङ्कभूषणा विभावरी विकसिततारकेक्षणा ||६६||
॥६६॥ चन्द्रेति । अमलिनोत्तुङ्ग डिण्डोरपिण्डः अमलिनं (नः) निर्मलम् ( 3: ) उत्तुङ्गानामुन्नतानां डिण्डीराणां फेनानां पिण्डं ( ण्ड: ) यस्य सः । अविरतोद्भ्रान्त कल्लोलमाल: अविरतमनवरतमुद्भ्रान्ता ऊर्ध्वं गता कल्लोलानां तरङ्गाणां माला यस्य सः । अभिसरन्नक्रचक्रः अभिसरत् लुठत्' नक्राणां' जलचरविशेषाणां चक्रं यस्य सः । पयोधिः समुद्रः । चन्द्राकारस्थूलं चन्द्रवदाकारं शुभ्राकारं स्थूलं पटमण्डपो यस्य तम् । 'दृष्यं स्थूलं पटकुटी' इति वैजयन्ती । चञ्चद्वाजिव्रजं चञ्चन् भ्राजमानो वाजिनामश्वानां व्रजः समूहो यस्य तम् । सर्पन्मत्तद्विर्षं सर्पन्तस्संचरन्तो मत्तद्विपा मदगज । यस्मिन् तम् । तं स्कन्धावा पदृणं । यदि कथमपि केन प्रकारेणापि । जयेत् विजयेत् । जि श्री अभिभवे । लिङ् । तहि अपारः स्यात् । यथासंख्यम् ||६७॥ इतीति । इति एवम् । निविष्टसैन्यं निविष्टसेनम् । पद्मनाभं पद्मनाभभूपम् । चरवक्त्रात् चराणां भृत्यानां वक्त्राद् मुखात् । अवगम्य ज्ञात्वा । पृथिवीपालनृपः पृथिवीपालभूपः । स्वबलेन स्वसेनया । समं साकम् । कोपात् क्रोधात् । समेत्य आगत्य । अन्तिके पद्मनाभस्य सेना " समीपे । बभूव भवति स्म ||६८ ।। तयोरिति । प्रतापिनोः प्रतापयुक्तयोः । तयोः द्वयोः अपि पद्मनाभ पृथिवीपाल भूपयोः । बलं चतुरङ्गसैन्यम् । विलोकितुं वीक्षणाय इव । जातकौतुका जाताश्चर्या । शशाङ्कभूषणा शशाङ्कश्चन्द्र एव भूषणमाभरणं यस्याः सा । विकसिततारकेक्षणा विकसिता उदिता तारका नक्षत्राणि ता एव ईक्षणे नयने यस्याः सा । विभावरी रात्रिः ।
[ १४, ६७ -
पकार करते समय बड़ोंको प्रमोद मनाना ही उचित है || ६६ || इस पड़ाव और समुद्र में अद्भुत साम्य है । पड़ाव में चन्द्रमाके आकारके गोल और शुभ्र तम्बू तने हुए हैं; समुद्र में निर्मल तथा उन्नत फेनराशि होती है । पड़ावमें चञ्चल घोड़े हैं; समुद्रमें लगातार उठने और घूमनेवाली बड़ी-बड़ी लहरें होती हैं । पड़ाव में मदमाते हाथी हैं; समुद्रमें इधर-उधर घूमनेवाले बड़े-बड़े मगर-घड़ियालोंके झुण्ड होते हैं । इतनी समानता होनेपर भी यदि समुद्र किसी प्रकारसे पड़ाव - को जीत ले तो उसे अपार माना जा सकता है || ६७ || इस तरह उस मणिकूट पर्वतपर पद्मनाभ अपनी चतुरङ्गिणी सेनाके साथ ठहरा हुआ है, यह समाचार अपने गुप्तचरसे जानकर राजा पृथिवीपाल बड़े क्रोधसे सेना के साथ उसके निकट आ पहुँचा || ६८ || उन दोनों प्रतापी नरेशोंके बलको देखनेके लिए मानो कौतूहल वश रात्रि - जो चन्द्रमारूपी मण्डनसे मण्डित है और जिसके चमचमाते हुए तारारूपी नेत्र खुले हैं - आ गई, अर्थात् रात्रि हो गई ॥६६॥
Jain Education International
१. = इतस्ततो गच्छत् । २. = मकराणां । ३. आ मतंगजाः । ४ = शिबिरम् । ५ = केनापि प्रकारेण । ६. आ 'जी' इति नास्ति । ७. श लेङ् । ८. आ प्रसृष्टसेनम् । ९ = गुप्तचराणाम् । १०. श 'पृथिवीपालनृप:' इति नास्ति । ११. = सेनायाः ।
For Private & Personal Use Only
www.jainelibrary.org