________________
३४५
-१४, ६६]
चतुर्दशः सर्गः छायासु यत्क्षितिरुहां तृणतोयतृप्तै रोमन्थतत्परमुखैर्वृषभैर्बभूवे । तन्नूनमध्वजपरिश्रम एव तेन व्याजेन तैरलसनेत्रयुगैश्चचर्वे ॥६४।। विच्छिन्नकर्णसुखकृन्निजकाकलीकमश्रावि किंनरगणैः कटु कन्दरस्थैः । भारावतारसमये रसितं मयानां रम्यं कुतूहलकरं न यथा ह्यपूर्वम् ॥६५॥ क्षुद्रेतरक्षितिरुहां करभैः प्रवालजाले भृशायतशिरोधिभिरश्यमाने । क्षोरापदेशमगलेप्रमदाश्रु ननं युक्तः परार्थघटने महतां प्रमोदः ॥६६१
कृतहितम् । शान्त्यै उपशमाय । क्व भवति कुत्र भवति ? अर्थान्तरन्यासः ।।६३।। छायास्विति । क्षितिरुहां वृक्षाणाम् । छायासु अनातपेषु । तृणतोयतृप्तः तृणतोयाभ्यां तृणोदकाभ्यां तृप्तः प्रोतः। रोमन्यतत्परमुखैः रोमन्थे चर्वितचर्वणे तत्परं प्रातं मुखं येषां तैः । वृषभ: अनडुद्भिः । बभूवे भूयते स्म । इति भाव लिट् । इति' यत् तत् । अलसने त्रयुगैः अलसमालस्ययुक्तं नेत्रयुगं येषां तैः । तैः वृषभैः । तेन रोमन्थेन । व्याजेन छद्मना । अध्वपरिश्रम इव मार्गश्रम इव । चचर्वे भक्ष्यते स्म । चर्व अदने कमणि लिट् । निश्चयम् । अपह नुतिः ॥६४॥ विच्छिन्नेति । भारावतारसमये भारस्यावतारस्यावरोहणस्य समये काले। मयानाम् उष्ट्राणाम् । कटु निष्ठरम् । रसितं ध्वनिः । अन्दरस्थैः गह्वरस्थितः । किन्नरगणः किन्नराणां देवभेदाना गणैनिक रैः । विच्छिन्नकर्णसूखकृन्निजकारलीकं विच्छिन्नयोः स्थापितयोः (विच्छिन्ना अवरुद्धा) कर्णयोः श्रोत्रयोः सुखकृतानन्दकरो निजानां स्वेषां काकली यस्मिन् कर्मणि तत् । अबावि श्रूयते स्म । श्रु श्रवणे कर्मणि लुङ । अपर्वं नवीनम् । यथा हि कुतूहलकरम् आश्चर्यकम् । तथा हि रम्यं मनोहरं वस्तु न-कुतूहलकरं न भवति. अपूर्व वस्तु यथा कुतूहलकरं तथा रम्यं वस्तु कुतूहलकरं न भवतीत्यर्थः । अत्र तु यो ( किं- ) नराणां निजकाकलीध्वनी रम्योऽपि अपूर्णन पूर्वस्मिन् मतत्वात् (?) ( सोऽपूर्वो न; पूर्वस्मिन्नपि समये श्रुतत्वात् ) । भयानां ध्वनिर पूर्वः प्रागश्रुतत्वात् । अत (व मधुर मपि स्वकीयं तं हित्वा स एव श्रुत इत्यभिप्रायः । अर्थान्तरन्यासः ।। ६५ । क्षुद्रेति । क्षुद्रेतरक्षितिरुहां क्षुद्राणाम् (क्षुद्रेभ्यः ) इतरे महान्तस्तेषां क्षितिरुहां वृक्षाणाम् । प्रवालजाते प्रवालानां पल्लवानां जाते समूहे । भृशायत शिरोधिमिः भृशमत्यन्तमायतः ( ता) शिरोधि: कन्धरो ( रा ) येषां तैः । करभैः उष्ट्रः । अश्यमाने भक्ष्यमाणे सति । क्षारापदेशं क्षीरमित्यपदेशं व्यपदेशयुक्तम् । प्रमदाश्रु आन्द प । अगलत् अस्रवत् । गल विमोचने लङ् । नूनं महतां महापुरुषाणाम् । परार्थघटने परेषामन्येषामर्थस्य प्रयोजन घटने संपादने । प्रमोदः संतोषः । युक्तः योग्यः । अर्थान्तरन्यासः
ओर विचरने लगे। क्या खल ( खली ) जनोंसे प्रेम करनेवालोंके साथ किया गया उपकार कहीं उन्हें शान्त करनेवाला हो सकता है ? ॥६३|| घास-पानीसे तृप्त होकर वे बैल वृक्षोंकी छायामें बैठकर एवं आलस भरे नेत्रोंको बन्द करके रौंथ-पागुर करने लगे। यह देखकर ऐसा जान पड़ता था मानो वे रोंयके बहाने मार्गके परिश्रमका चर्वण कर रहे हों ॥६४॥ बोझ उतारते समय ऊँटोंने जो कर्ण कटु शब्द किया, उसे गुफाओंमें बैठे हुए गन्धर्वोके गणने अपने सङ्गीतकी, कानोंको सुख देनेवाली मधुर ध्वनिको बन्द करके सुना। सच तो यह है कि सुन्दर वस्तु वैसा कौतूहल उत्पन्न नहीं करती जैसा अपूर्व वस्तु करती है। ऊंटोंका सङ्गीत गन्धर्वोको बिलकुल नया था, अत: उसे उन्होंने अपना सङ्गीत बन्द करके सुना ॥६५॥ ऊँटोंने अपनी गर्दनको खूब लम्बा करके जब बड़े-बड़े पेड़ोंकी नई-नई पत्तियोंको खाना शुरू किया, तब उसे दूध झरने लगा, दूध क्या झरने लगा, उसके बहानेसे निश्चय ही उनके हर्षाश्रु बहने लगे। परो
१. आ इ देशमगमत् : २. अप्रमदाश्रमन्त्र । ३.= संतृष्टैः । ४. = संलग्नं । ५. आ 'इति नास्ति । ६. = निश्चयेन । ७. श मयूनाम् । ८. श मधुरमधुर । ९. = क्षीरापदेशं यथा स्यात्तथा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org