SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३४३ -१४, ६०] चतुर्दशः सर्गः जज्ञे पयः प्रविशतः सुतरं यदेव भूभृत्सरित्सु पृतनाकरिणां कुलस्य । गण्डस्थलप्रविगलन्मदपूरपूर्णमासीत्तदेव सुदुरुत्तरमुत्तितीर्षोः ॥५८।। कृत्वा क्षणं जनकुतूहलकारि युद्धं दर्पोद्धरै लगजेजितकाशिनस्ते । जग्मुः सलीलमदमन्दपदं करेणुपाश्चात्यभागनिहितात्मकराः करीन्द्राः ॥५९॥ वन्येभगण्डकषणाहितदानगन्धे नीतस्तरौ नियमनाय करी नियन्त्रा। रोषाद् बभञ्ज निजतापनुदोऽस्य शाखा न श्रेयसे स्खलु भवत्यपडिप कोपः ॥६०॥ सिन्दूररागेण वर्णन रुचिरी मनोहरोऽवयवो येषां तैः । गजेन्द्रः द्विपेन्द्रः। सा श्री: सा शोभा। विदधे क्रियते स्म । कर्मणि लट् ॥५७। जज्ञे इति । यदेव । भूभृत्सरित्सु भूभृतो गिरेः सरित्सु नदोषु । पयः सलिलम् । प्रविशतः गच्छतः । पृतनाकरिणां पतनायाः सेनायाः करिणां गजानाम् । कुलस्य निकरस्य । सुतरं सुखेन तरणयोग्यम् । जज्ञे जायते स्म । जनैङ् प्रादुर्भाव लिट् । तदेव । गण्डस्थलप्रविगलन्मदपूरपूर्ण गण्डस्थलात् कपोलप्रदेशात् प्रविगलतः प्रस्रवतो मदस्य मदजलस्य पूरेण प्रवाहेण पूर्ण परिपूर्णम् । उत्तिती!ः उत्तर्तुमिच्छोः । सुदुरुत्तरं कष्टेनोत्तरणयोग्यम् । पासीत् । अस भुवि लङ् ॥५८।। कृत्वेति । दर्पोद्धरैः दर्पण गर्वणोद्धरैः प्रवृद्धः। जलगजैः जले समदभत (तः) गजैः । जनकृतहलकारि जनानां सेनाजनानां कुतूहलकारि आश्चर्यकारि । युद्ध योधनम् । क्षणं स्वल्पकालपर्यन्तम् । कृत्वा विधाय । जितकाशिनः जितमानिनो जितसंग्रामिणो वा । करेणपाश्चात्यभागनिहितात्मकराः करेणतां करिणीनां पाश्चात्ये पश्चाद्भवे भागे निहिताः स्थापिता आत्मनां स्वेषां कराः येषां ते। करीन्द्राः गजेन्द्राः । सलीलमदमन्दपदं सलीलं विलासयुक्तं मदेन मदजलेन मन्दमलसं पदं यस्मिन् कर्मणि तत्० । जग्मः ययुः । लिट । जातिः ।।५९। वन्येभेति । वन्येभगण्डकषणाहितदानगन्धे वन्यानां वनेभवानामिभानां गजानां गण्डानां कपोलानां कषणेन कर्षणेनाहितः संबद्धो दानस्य मदजलस्य गन्धो यस्मिन् तस्मिन् । तरी वृक्षे। नियन्त्रा हस्तिपकेन । नियमनाय बन्धाय । नीतः प्रापितः । करी गजः । निजतापनुदः निजस्यात्मनस्तापस्य नुदो विनाशकस्य । अस्य तरोः। शाखाः शिखाः । रोषात् कोपात् । बभञ्ज भजनं करोतिस्म। भंजो अवमर्दने लिट् । अपदेऽपि अस्थानेऽपि । कोपः क्रोधः । श्रेयसे सुखाय । राजोंने उन सरोवरोंके किनारोंपर उत्पन्न कर दिया, जिनके अगाध जलमें वे प्रवेश कर रहे थे ॥५७॥ पहाड़ी नदियोंमें प्रवेश करनेवाले सेनाके हाथियोंके झुण्डको उन ( नदियों ) का जो जल आसानीसे तैरने योग्य था, वही उन ( हाथियों ) के गण्डस्थलोंसे बहे हुए मदजलके प्रवाहसे पूर्ण होकर (बाढ़ जैसी अवस्थाको पाकर ), लौटनेकी इच्छा करनेवाले हाथियोंके उसो झुण्डको आसानीसे तैरने योग्य नहीं रहा ॥५८॥ दर्पमें चूर रहनेवाले उद्धत जलहस्तियोंके साथ, थोड़ी देर, सैनिकोंको कौतूहलजनक युद्ध करके विजयका गर्व करनेवाले वे गजराज हथिनियोंके पिछले भागोंपर अपनी-अपनी सूंड रखकर विलासपूर्ण मन्दगतिसे अपने स्थानकी ओर चल पड़े ॥५९|| जङ्गली हाथीने अपना गण्डस्थल जिस पेड़से घिसा था और अपने मदजलकी गन्धसे सुगन्धित कर दिया था, उसीसे बाँधनेके लिए महावत एक हाथीको लिवाकर ज्योंही पहुँचा, त्योंही उसने क्रुद्ध होकर अपने सन्तापको मिटानेवाले उसी पेड़की सारी शाखाओंको तोड़ डाला। बादमें उसे स्वयं गर्मी सहनी पड़ी। सच है अयोग्य स्थानमें भी किया गया २. आ जनी। ३. = पयः । ४. = यः । ५. श शिफाः । १. क ख ग घ म दर्पोद्धते । ६. आ भंज। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy