________________
३४२ चन्द्रप्रमचरितम्
[१४, ५५तोयावगाहचलितैरलिनीलदे हैरुत्सारितध्वजकुथाभरणास्त्रभारैः। कल्पान्तमारुतपरिक्षुभितैरिवाद्रिराजै रराज वसुधा वरवारणेन्द्रः ॥५५॥ यानि द्विपेन्द्रनिवहो निजपुष्कराणि संजाततुष्टिरुदमीमिलदम्युमग्नः । तान्येव सैनिकविलुण्ठितवारिजेषु रक्ताम्बुजश्रियमधुः सलिलाशयेषु ॥५६॥ कुर्वन्ति यामनुकृताचलतुङ्गङ्गाः संध्यारुणाभ्रनिवहा नभसस्तटेषु ।
सा श्रीहूंदेषु सरितां विदधे विद्भिः सिन्दूररागरुचिरावयवैर्गजेन्द्रः ।।५७।। समूहाः । क्षिप्तोलपासु क्षिप्ताः स्थापिता उलपाः तृणादयो यासु तासु । मन्दुरासु वाजिशालासु । कथंचन कथमपि । संयेमिरे बध्यन्ते स्म । यम उपरमे कर्मणि लट । उपमा ॥५४॥ तोयेति । तोयावगाहचलितः तोयस्य जलस्यावगाहाय प्रवेशाय चलितैर्यातः । अलिनोलदेहः अलय इव नीलाः कृष्णा देहाः शरीराणि येषां तैः । उत्सारितध्वजकुथाभरणास्त्रभारैः उत्सारिता अवरोहिता' ध्वजाः पताकाः कृथाः करिकम्बलाः आभरणान्यलङ्कारा अस्त्राणि दन्तखङ्गास्तेषां मारो येषां तः। वरवारणेन्द्रः वरैरुत्तमैरणेन्द्रैगजेन्द्रैः । कल्पान्तमारुतपरिक्षुभितैः कलान्तस्य युगावसानस्य मारुतेन संवर्तकवायुना परिक्षुभितैश्चलितः । अद्रिराजैरिव अद्रीणां पर्वतानां राजभिरिव । वसुधा भूमिः । रराज बभौ । लिट् । उत्प्रेक्षा ।।५५।। यानीति । अम्बुमग्न: अम्बुनि जले मग्नो लोनः। संजाततुष्टिः संजाता संभूता तुष्टिर्यस्य सः । द्विपेन्द्रनिवहः द्विपेन्द्राणां निवहो निकरः । यानि निजपुष्कराणि स्वहस्ताग्राणि । उदमीमिलत उदधीधरत । मिल निमेषणे णिजन्ताल्लङ। तान्येव निजपुष्करराण्येव । सैनिकविलुण्ठितवारिजेषु सैनिकः सेनाचरविलुण्ठितानि लञ्चितानि वारिजानि कमलानि येषु तेषु । सलिलाशयेषु जलाधारेषु । रक्ताम्बुजश्रियं रक्तानामरुणानामम्बुजानां कमलानां श्रियं शोभाम् । अधुः धरन्ति स्म । डुधाञ् धारणे च लुङ् । ५६।। कर्वन्तीति । अनुकृताचलतुङ्गशृङ्गाः अनुकृतानि दष्टान्तीकृतानि अचलानां पर्वतानाम् इव तुङ्गान्युन्नतानि शिखराणि येषां ते। सन्ध्यारुणाभ्रनमस: सन्धायां सन्ध्याकालेऽरुणं लोहितमभ्रं मेघा यस्य तस्य (सन्धारुणाभ्रनिवहाः सन्ध्यायाः सन्ध्याकालस्यारुणानां ताम्रवर्णानामरुणवर्णानां वाभ्राणां मेघानां निवहाः समहा:)। नभस: आकाशस्य । तटेषु प्रदेशेषु । यां शोभाम् । कुर्वन्ति विदधति । लट् । सरितां नदोनाम् । ह्रदेषु अगाधजलेषु । विद्भिः गच्छद्भिः । सिन्दूररागरुचिरावयवैः वहाँ उनके बाँधनेके लिए पहलेसे ही बड़े-बड़े पत्थर डाल दिये गये थे, उनसे वे बड़ी कठिनाईसे बांध दिये गये ॥५४॥ ध्वजाएँ, झूल, आभूषण और अस्त्र-इन सबका बोझ उतारकर जब भौंरोंके समान काले शरीरवाले श्रेष्ठ हाथी जल में प्रवेश करनेके लिए चले तब उनसे व्याप्त हुई पृथ्वी ऐसी जान पड़ती थी मानो वह प्रलयकालकी वायुको प्रेरणासे लुढ़कनेवाले पहाड़ोंसे घिर गई हो ॥५५॥ जलाशयोंके जलमें प्रवेश करके हाथियोंके झुण्डने डुबकी साध ली। इससे उन्हें बड़ा सन्तोष हुआ। इस अवसरपर उन्होंने अपनी-अपनी सूंडके जिन अगले भागोंको जलके ऊपर ( श्वास लेनेके लिए ) कर रखा था, उन्होंने सैनिकोंके द्वारा जलाशयोंके तोड़े गये कमलोंके स्थानमें नवीन लाल कमलोंकी शोभा उत्पन्न कर दी ॥५६॥ पहाड़ोंके उन्नत शिखरोंका अनुकरण करनेवाले सन्ध्याकालीन लाल बादल आकशके ओर-छोरके भागोंमें जो शोभा फैलाते हैं, उसी शोभाको सिदूरसे रंगे हुए सुन्दर अवयवोंको धारण करनेवाले गज
१. क ख ग घ म गाहचकितैः । २. क ख ग घ मद्रिकूट । ३. आ क्षिप्तोपलासु । 'उलपस्तु गुल्मिनीतृणभेदयोः' अनेका० ३।४६९ । ४. = कैतवापतिश्च । ५. आ 'उत्सारिता अवरोहिताः' इति नास्ति । ६. श तुष्टिः पुष्टिय॑स्य । ७. आ 'उदधोधरत' इति नास्ति । ८. = अपहृतानि । ९. = येषां । १०. आ धारणपोषणयोः । ११. = यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org