________________
३४१
-१४,५४]
चतुर्दशः सर्गः अन्योन्यदर्शनसमुच्चरितेन भूयः संमूर्च्छताद्रिविवरे हयहेषितेन । सेनाचरैर्बधिरितश्रुतिभिर्मुहूर्त मूकैरिव प्रकृतवस्तुकथासु तस्थे ।।५२।। मध्येजलं प्रकटचञ्चलपृष्ठभागे पानाय सप्तिनिकरे परितोऽवतीर्ण । संचारितोद्रिसदृशैः शलिलाशयानां प्राचुर्यवद्भिरिव वीचिचयैर्बभूवे ॥५३।। पीताम्भसः श्रमलवानिव वारिबिन्दुव्याजेन वाजिनिवहाः स्नपिताः क्षरन्तः।
संयेमिरे युगपदेव समापतन्तः क्षिप्तोलपास्वथ कथंचन मन्दुरासु ॥५४॥ शिबिरमेवाम्बुराशिः समुद्रः । रूपकम् । आवर्तवानिव रोमावर्तयुक्त इव । बभी भाति स्म । लिट् । उत्प्रेक्षा ।।५१॥ अन्योन्येति । भूयः भृशम्" । अन्योन्यदर्शनसमुच्चरितेन अन्योन्यदर्शनेन परस्परदर्शनेन समुच्चरितेन समद्भतेन । अद्रिविवरे अद्र: पर्वतस्य विवरे गहायाम् । संमर्छता प्रतिध्वनि कुर्वता । यहेषितेन हयानां तुरगाणां हेषितेन रवेण। बधिरितश्रतिभिः बधिरिते श्रुती कौँ येषां तैः । सेनाचरैः ध्वजिनीचरैः । प्रकृतवस्तुकथासु प्रकृतस्य प्रस्तुतस्य वस्तुनः कार्यस्य कथासु कथनेषु । मुहूर्त मुहूर्तपर्यन्तम् मूकैरिव अभाषणैरिव । तस्थे आस्यते स्म । ष्ठा गतिनिवृत्ती भावे लिट् । उपमा (उत्प्रेक्षा) ॥५२।। मध्ये जलमिति । [मध्ये जलं] जलस्य मध्यं मध्ये जलं तस्मिन, जलमध्ये, इत्यर्थः । 'पारे मध्येऽन्तष्षष्ठया' इति साधुः। प्रकटचञ्चलपष्ठभागे प्रकटो व्यक्त: चञ्चलः पष्ठमागो यस्य तस्मिन् । सप्तिनिकरे सप्ति (प्ती ) नामश्वानां निकरे निवहे। पानाय पाननिमित्तम् । परितः समन्तात् । अवतीर्णे सति याते सति । संचारिमाद्रिसदृशः संचारिम्णां चलनयुक्तानाम् । अद्रीणां पर्वतानां सदृशैः समानः प्राचुर्यवद्भिः बाहुल्यसहितैः । सलिलाशयानां जलाशयानाम् । वीचिचयरिव वो चीनां तरङ्गाणां चयैरिव निक रैरिव । बभूवे भूयते स्म । भावे लिट् । चपमा ॥५३॥ पीतेति । अथ वाजिनां जलपानगमनानन्तरम् । पीताम्भसः पीतं सेवितमम्भो यैस्ते । स्नपिताः मज्जिता:"। युगपदेव सकृदेव। समापतन्तः लङ्घयन्तः वारिबिन्दुव्याजेन वारिणो जलस्य बिन्दुरिति कण इति व्याजेन । श्रमलवान् श्रमलेशान् क्षरन्त इव विमुञ्चन्त इव । वाजिनिवहा वाजिनामश्वानां निवहाः तथा और जो भी बोझ था, उतार लिया गया और पृथवी पर लोट लगवानेके लिए उन्हें गोल दायरोंमें घुमाया जा रहा था। उनसे पड़ाव रूपी समुद्र ऐसा जान पड़ता था मानो वह बड़ीबड़ी भंवरोंसे युक्त हो ॥५१॥ एक दूसरेको देखकर घोड़े हिनहिनाने लगे। पहाड़की गुफाओंमें प्रतिध्वनित होनेसे उनकी हिनहिनाहटकी आवाज और भी अधिक बढ़ गई। फलतः सेनामें सञ्चार करनेवाले लोगोंके कान बहरे हो गये, अतः वे अपनी प्रारम्भकी गई चर्चाओंमें कुछ समय तक, मूक-से होकर चुप-चाप बैठकर रह गये-उन्होंने आपसकी चर्चा बन्द कर दी ॥५२॥ पानी पीनेके लिए घोड़ोंका झुण्ड, जब चारों ओरसे जलाशयोंमें उतरकर उनके बीच तक पहुँच गया, तब उनकी चञ्चल पीठ स्पष्ट ही दृष्टिगोचर हो रही थी। उनकी पीठकी चञ्चलताके कारण उन जलशयोंमें बड़ो-बड़ो लहरें प्रचुर मात्रामें उत्पन्न हो गईं, जो जङ्गम पहाड़ियों सरीखी प्रतीत हो रहीं थीं ॥५३॥ जल पीनेके बाद नहलाये गये घोड़े जब जलाशयोंसे निकलकर बाहर आ गये, तब उनके शरीरसे जल-बिन्दु टपक रहे थे, जो पसीनेके बिन्दुओं सरीखे जान पड़ते थे। फिर वे एक ही साथ घुड़सालोंमें घुसने लगे।
१. क ख ग घ म मच्छलितेन । २. आ इ संचारिता । ३. आ इ लवास्वथ, क ख ग घ म पलास्वथ । ४. = 'स्यादावर्तोऽम्भसां भ्रमः' इत्यमरवचनादत्राम्भसा भ्रम इव-इति स्यात् । ५. आ 'भूयः भृशम्' इति नास्ति। ६. मूलप्रतिषु तु "समुच्छलितेन' इत्येव वर्तते । ७. श तुरङ्गाणां। ८. आ ध्वजनीभिः । ९. = स्वल्पकालं यावत्। १०. प्रविष्टे। ११. आ संयाते. १२. = जङ्ग मानाम् । १३. = उत्प्रेक्षा च। १४.आजलपानानन्तरम्। १५.श मार्जिताः। १६.=समुत्तरन्तः। १७. = वारिणो जलस्य बिन्द्रनां कणानां व्याजेन च्छलेन।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org