________________
३३९
-१४, ४८ ]
चतुर्दशः सगः यान्तीभिरात्मनिलयाय तुरङ्गिणीभिः सामन्तसंहतिभिरीशविसर्जिताभिः। वेलाभिरुद्धततरङ्गविभङ्गुराभिरतुभ्यदम्बुधिरिव ध्वजिनीनिवेशः ॥४५।।। राजाधिराजवसतेहयमन्दुरायाः पण्याङ्गनापरिषदो विपणिव्रजस्य । पर्याकलय्य परितो विनिवेशदेशं स्वावासमूमिरनुवासिजनेन जशे ४६|| वेश्यागणाः परिचितानुपचारहेतोरध्वश्रमातुरतनननुपालयन्तः। द्वारस्थिताः पटमयस्वनिवासपङ्क्तर्वास्तव्यवद्दशिरे पृतनाजनेन ॥४७॥ प्राप्तश्चिरादुरुपरिश्रमखिन्नजङ्घः पर्युहितुं निजनिवासपदान्यशक्तः ।
बभ्राम मुग्धधिषणः परितः स्ववर्यव्याहारनादनिहितश्रवणो जनौघ. ॥४८|| जातिः ।।४४॥ यान्तीभिरिति । ईशविजिताभिः ईशेन राज्ञा विसजिताभिः प्रहिताभिः । आत्मनिलयाय स्वगृहाय । यान्तीभिः गच्छन्तीभिः । तुरङ्गिणीभिः अश्वयुक्ताभिः। सामन्तसंहतिभिः सामन्तानां राज्ञां संहतिभिः समूहैः । ध्वजिनीनिवेशः ध्वजिन्या: सेनाया निवैशो निवासस्थानम् । उद्धततरङ्गविभङ्गराभिः उद्धतैः प्रवृद्धस्तरङ्गैः कल्लोलविभङ्गाभिर्वक्राभिः । वेलाभिः२ जलविकारैः। अम्बुधिरिव समुद्र इव । अक्षुभ्यत् क्षुभ्यतिस्म ।।४५।। राजेति । राजाधिराजवसतेः राज्ञामधिराजाना वा वसतेर्मन्दिरस्य । हयमन्दुराणां हयानां वाजिनां मन्दुराणां शालानाम् । पण्याङ्गनापरिषदः पण्याङ्गनानां गणिकानां परिषदः समूहस्य । विपणिव्रजस्य विपणीनां पण्यवीथीनां व्रजस्य समूहस्य । विनिवेशदेशं निवासप्रदेशम् । परितः समन्तात् । पर्याकलय्य । अनुयायिजनेन पश्चादागतेन जनेन प्रजया। स्वावासभूमिः स्वस्यात्मन आवासभूमिनिवासभूः । जज्ञे ज्ञायते स्म । ज्ञा अवबोधने कर्मणि लिट् ॥४६॥ वेश्येति । अध्वश्रमातुरतनून् अध्वश्रमान्मार्गश्रमाद् आतुरा पीडिता तनुः शरीरं येषां तान् । परिचितान् परिचययुक्तान्। उपचारहेतोः उपचारस्य विनयस्य हेतो निमित्तम् । अनुपालयन्तः वीक्षमाणाः । पटमयस्वनिवासपङ्क्तेः पटमयानां वस्त्रमयानां स्वनिवासानां निजनिलयानां पङ्क्तेः श्रेण्याः । द्वारस्थिताः द्वारेषु स्थिता आसिताः। वेश्यागणाः वेश्यानां गणिकानां गणाः समूहाः । पृतनाजनेन पतनाया: सेनाया जनेन । वास्तव्यवत प्राक स्थिताः इव । ददृशिरे वीक्ष्यन्ते स्म । दश वीक्षणे कर्मणि लिट् । उपमा ।४७।। प्राप्त इति । उरुपरिश्रमखिन्नजङ्घः उरुणा महता परिश्रमेणायासेन खिन्ने बाधिते जङ्घ यस्य सः। चिरात् कालविलम्बात् । प्राप्तः आयातः । निजनिवासपदानि निजस्य स्वस्य निवासस्या
बड़ा दरवाजा-प्रवेश द्वार बनाया गया था ॥४४॥ राजा पद्मनाभको ठहराकर और फिर उनसे बिदा लेकर सभी सामन्त घोड़ोंपर सवार होकर अपने-अपने ठहरनेके स्थान में चले गये। सामन्तोंके उछलते हुए घोड़ोंसे पड़ाव ऐसा सुशोभित हो रहा था, जैसे समुद्र, उत्ताल तरङ्गोंवाले ज्वारभाटेसे सुशोभित होता है ॥४५॥ राजाधिराज पद्मनाभ एवं अन्य सामन्तोंके निवास भवनोंको, घुड़सालको, और गणिकाओंके गण तथा बाजारोंके स्थानोंको सभी ओरसे देखकर पीछे आने वाले प्रजाके लोगोंने यह जान लिया कि हम सभीके ठहरनेका यही स्थान है ॥४६॥ मार्गके परिश्रमसे थके-मांदे पूर्व परिचित लोगोंकी परिचर्या करनेके लिए उनकी प्रतीक्षा करनेवाला जो गणिकाओंका गण अपने-अपने तम्बुओंकी अगली पंक्ति में खड़ा हुआ था, उसे सैनिकोंने वहींका निवासी समझा ॥४७॥ कुछ और लोग, जो सबसे पीछे आये थे, और अत्यधिक परिश्रमसे जिनकी जंघाएं भर आईं थीं-बहुत ही अधिक थक चुकी थीं, वे अपने डेरोंका स्थान खोजने
१. अ आ इ पर्याहितुं। २. श 'वेलाभिः' इति नोपलभ्यते । ३. एष टीकाश्रयः पाठः, प्रतिषु तु 'विपणिध्वजस्य' इत्येवावलोक्यते । ४. = समवलोक्य । ५. =परिचर्यायाः। ६. टोकायां 'द्वारस्थिताः' मूलप्रतिषु च 'द्वारि स्थिताः' इति दृश्यते । ७. = तत्रत्याः । ८. आ उशिर् प्रेक्षणे । ९. आ श प्राप्तेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org