SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३३८ चन्द्रप्रभचरितम् [१४, ४२संपश्यता कुसुमवासितदिग्विभागा राजीगिरेरनुतटं विविधQमाणाम् । मध्याह्नवर्तिनि रवावुदितश्रमेण प्रापे नृपेण पृतनाविनिवेशदेशः ॥४२॥ धर्मोदबिन्दुभिरुपाहितभूरिशोभा गण्डस्थलीः पथि विलोकयतः प्रियाणाम् । बाधाकरोऽपि शिशिरेतररश्मिरासीत्तस्यावनीतलभुजोऽभिमतस्तदानीम् ॥४३।। द्राघोयसीरविरलं रचिता वणिम्भिरग्रे गतैः पटमयापणराजितान्ताः । 'पश्यन्क्रयाकुलजनाः क्षितिपोऽट्टवीथीरुत्तुङ्गतोरणमियाय निजं निवासम् ॥४४॥ क्रीडितुम् । बुद्धि मतिम् । बबन्ध चकार । बधि बन्धने लिट् ॥४१॥ संपश्यतेति । गिरेः पर्वतस्य । अनुतट तटस्य वप्रस्य समीपमनुतटम् । 'समीपे' इति समासः । विविधद्रमाणां विविधानां नानाविधानां द्रमाणां तरुणाम् । कुसुमवासितदिग्विभागाः कुसुमैः पुष्पैर्वासितः परिमलीकृतो दिशां ककुभां विभागो यासां२ ताः । राजी: श्रेणीः। संपश्यता वीक्षमाणेन । रवो सूर्य । मध्याह्नवतिनि मध्याति (ह) मध्याह्नकाले वतिनि सति । उदितश्रमेण उदित उत्पन्नः श्रमः परिश्रमो यस्य तेन । नृपेण पद्मनाभेन । पृतनानिवेशदेशः पतनायाः सेनाया विनिवेशस्य निवसनस्य देशः स्थानम् । प्रापे४ प्राप्यतेस्म। आप्ल व्याप्तो कर्मणि लिट ॥४२॥ धर्मोदेति । धर्मोदबिन्दुभिः धर्मोदस्य स्वेदोदकस्य बिन्दुभिः कणैः। उपाहितभूरिशोभा:६ उपाहिताः स्वीकृता भूरयो बहुलाः शोभाः यासां ताः । प्रियाणां स्त्रीणाम् । गण्डस्थलीः कपोलप्रदेशान् । पथि मार्गे । विलोकयतः पश्यतः। तस्य राज्ञः। शिशिरेतररश्मिः सूर्यः । शिशिरस्य इतर उष्णो रशिम: किरणो यस्य सः । बाधाकरोऽपि पीडाकरोऽपि । अभिमतः इष्टः । आसीत् अभवत् । अस भुवि लङ् । घर्मोदबिन्दूकलितनारीवदनदर्शनेन जातशीतस्यापहरणात् सूर्यस्येष्टत्वमिति भावः ।।४३॥ द्वाघीति । अग्ने पुरः। गतः यातैः । वणिग्भिः वाणिजः । अविरलं निरन्तरं यथा तथा । रचिता: विहिताः। द्राघोयसी: दीर्घतराः। 'प्रिय स्थिर-' इत्यादिना दीर्घशब्दस्य ईयसी-प्रत्यये द्राधी इत्यादेशः । पटमयापणराजितान्ता: पटमयैर्वस्त्रनिर्मितरापर्णविपणिभिः राजितो भासितो मध्यप्रदेशो यासां ताः । क्रयाकुल जनाः क्रये वस्तुग्रहणे बाकुलाः संकीर्णा जना याषु ताः । अट्र वीथोः पण्यवीथिकाः । पश्यन् वीक्षमाणः । क्षितिपः राजा। उत्तुङ्गतोरणम् उत्तुङ्गमुन्नतं तोरणं बहिर्द्वारं यस्य तम् । निजं स्वकीयम् । निवासम् आलयम् । इयाय जगाम । इण गती लिट् । करनेका विचार किया ॥४१॥ फिर राजा पद्मनाभ पर्वतको सुषमा देखनेके लिए चल पड़ा। उस पर्वतके सभी तटोंपर नाना प्रकारके वृक्षोंको पंक्तियाँ लगी हुई थीं, जिन्होंने अपने फूलोंकी खुशबूसे सारी दिशाओंके अन्तरालको सुगन्धित कर दिया था। उनकी छवि देखते-देखते मध्याह्न हो गया। सूर्य आकाशके ठीक मध्यमें पहुँच गया । राजाको थकानका भी अनुभव होने लगा। तब वह अपनी सेनाको ठहराने योग्य स्थानमें जा पहुँचा ॥४२॥ यों दोपहरका सूर्य सन्ताप देकर सबको पीड़ा देनेवाला होता है, किन्तु उनने पसीनेकी बूदोंसे रानियोंके कपोलोंको बहुत अधिक सुशोभित कर दिया था। उन्हें देखकर पद्मनाभका चित्त प्रसन्न हो रहा था, और इसीलिए उसे उस समय सबको बाधा देनेवाला भी सूर्य प्रिय लग रहा था ॥४३॥ व्यापारियोंने पहले पहुंचकर बड़े-बड़े बाजारोंकी रचना कर ली थी, जो पास-पासमें कपड़े तानकर बनाई गई दूकानोंसे दर्शनीय थी। सभी बाजारोंमें ग्राहकों की भीड़ लगी हुई भी। सभी बजारोंको देखता हुआ राजा पद्मनाभ अपने निवासके लिए बनाये गये उस भवन में जा पहुंचा, जिसके आगे बहुत १. अ आ इ पश्यन् क्रिया । २. = याभिः । ३. श 'निवसनस्य' इति नास्ति । ४. आ श प्रापि । ५. आ लुङ् । ६. = उपाहिता विहिता भूरिशोभा यासां ताः । ७. = शिशिराद् । ८. = हट्टवीथिकाः । 'अट्टो हट्टाट्टालकयोः' अनेका० २१८१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy