________________
- १४, ४१ ]
चतुदशः सर्गः
तरुह कुटजावनी रुहाणामतिमहतीषु शिखासु सक्तबिम्ब: । जनयति रजनीषु तारकाणामिह कुसुमस्तबकश्रियं समूहः ||३८|| निकरै रुचां तिमिरहानिकरैरमितै रवेर्वियदपारमितैः । विहतैः स्फुरन्मणिरुचाविह तै रजनीष्विव ग्रहपते रजनि ||३९|| निष्कान्तैः शिखरचयान्निरन्तरालैरालीढाः सरसिजरागरश्मिजालैः । श्रीमत्तां दधति दिशो दशाप्यमुष्मिन्नीर तैरिव वसनैः परिष्कृताङ्गाः ||४०|| सेनापतेरिति वचो ललितैकवर्णमाकर्ण्य भूमिपतिर प्रतिवार्यवीर्यः । तस्मिन्नदीर्णमणिरोचिषि शैलराजे रन्तुं कियन्त्यपि दिनानि बबन्ध बुद्धिम् ॥४१॥
३३७
यैस्तान् । नीलकण्ठान् मयूरान् । मदयितुं संतोषयितुम् । अलं शक्तः ।। ३७ । तटेति । इह गिरौ । रजनीषु रात्रिषु । तटहकुटजावनीरुहाणां तटरुहाणां सानुभवानां कुटजावनीरुहाणां कुटजभूरुहाणाम् । अतिमहतीषु अत्युन्नतासु । शिखासु अग्रभागेषु । सक्तबिम्बः सक्तं संबद्धं बिम्बं मण्डलं यस्य सः । तारकाणां नक्षत्राणाम् । समूहः निवहः । कुसुमस्तव कश्रियं कुसुमानां पुष्पाणां स्तबकस्य २ मञ्जर्याः श्रियं शोभाम् । जनयति उत्पादयति । उत्प्रेक्षा ॥ ३८|| निकरैरिति । इह गिरौ । तिमिरहानिकरैः तिमिरस्यान्धकारस्य हानिकरैर्नाशकारिभिः । अपारम् अनन्तम् । वियत् आकाशम् । इतैः गतैः । स्फुरन्मणिरुचौ स्फुरन्त्यां प्रज्वलन्त्यां मणीनां रत्नानं रुचौ कान्त्याम् । विहतैः बाधितैः प्रतिहतैर्वा । रवेः सूर्यस्य । रुचां किरणानाम् । निकरैः समूहः । रजनी रात्रि | ग्रहपतेः चन्द्रस्य । तैः इव किरणैर्यथा तथा । अजनि अजायत । जनैङ् प्रादुर्भावे लुङ् । उपमा ||३९|| निष्क्रान्तैरिति । अमुष्मिन् गिये। शिखरचयात् शिखराणां कूटानां चयान् निवहात् । निष्क्रान्तैः निर्गतः । निरन्तरालैः निरन्तरैः । सरसिजरागरश्मिजालैः सरसिजरागाणां पद्मरागमणीनां रश्मीनां किरणानां जालैनिकरैः । आलोढाः व्याप्ताः । दश अपि दशसंख्य अपि । दिशः ककुभः । नीरक्तैः नितरां रक्तैररुणवर्णैरित्यर्थः । वसनैः वस्त्रैः । परिष्कृताङ्गा इव परिष्कृतमलङ्कृतमङ्गं गात्रं यासां ता इव । श्रीमत्तां शोभावत्त्वम् । दति धरन्ति । डुबान धारणे च लट् | उत्प्रेक्षा ॥ ४० ॥ सेनापतेरिति । अप्रतिवार्यवीर्यः अप्रतिवार्य निवारयितुमशक्यं वीर्यं प्रतापो यस्य सः । भूमिपतिः पद्मनाभः । सेनापतेः सेनान्याः । ललितैकवणं ललित मनोहर एको मुख्यो वर्णो वर्णनं यस्य ( ललिता मनोहरा एके मुख्या वर्णा अक्षराणि यस्मिन् ) तत् । वचः वचनम् । इति एवम् आकर्ण्य श्रुत्वा । उदीर्णमणिचिषि उदीर्णं व्याप्तं मणीनां रत्नानां रोचिः कान्तिर्यस्य तस्मिन् । शैलराजे मणिकूटपर्वते । कियन्त्यपि कतिपयान्यपि । दिनानि दिनपर्यन्तम् । रन्तुं इस पर्वतके तटवर्ती कुटजवृक्षोंको बहुत लम्बी-लम्बो ऊपरी शिखाओं - चोटियों पर रात्रिके समय लगा हुआ तारा मण्डल, फूलोंके गुच्छोंकी शोभाको उत्पन्न कर देता है ॥ ३८ ॥ यहाँ दिन में खूब चमत्र मानेवाले मणियोंका तीव्र प्रकाश रहता है । अतः असीम आकाशकी सीमाओंमें फैलकर सूर्यकी जो किरणें अन्धकारको मिटा देती हैं, वे यहाँ आकर हतप्रभ हो जाती हैं, फलतः रात्रि के समय चन्द्रकिरणोंकी जैसी शोभा होती है, वैसी शोभा फैलाने लगती हैंदिन में सूर्य चन्द्रसरीखा हो जाता है, और उसकी किरणें चन्द्रमाकी किरणोंकी भाँति मन्दप्रकाश फैलाया करती हैं ||३६|| राजन् ! इधर भी दृष्टिपात कीजिए, यहाँ शिखरों के समूहसे निकली हुई पद्मराग मणियोंको किरणोंने सभी ओर लगातार फैलकर दसों दिशाओंको रंग दिया है— लाल कर दिया है, अतः वे ऐसी सुशोभित हो रही हैं; मानो लाल रंगके वस्त्र पहने हों ||४०|| सेनापति इन सुन्दर वर्णोंवाले वचनों को सुनकर अप्रतिहत शक्तिवाले राजा पद्मनाभने मणियोंकी जगमगाती ज्योतिसे प्रकाशमान उस मणिकूट नामक पर्वतपर कुछ दिन ठहरकर क्रीडा
१. अनारक्तैरिव । २ = गुच्छकस्य । ३ = निदर्शना । ४. आ शोभित्वम् । ५. = यस्मिन् ।
For Private & Personal Use Only
Jain Education Internatioal
www.jainelibrary.org