________________
चन्द्रप्रभचरितम्
तटगतासितरत्नविनिःसृतैरविरलैः परितो निकरै रुचाम् । इह कदाचन मेचकितत्विषो निजरुचि न भजन्ति शरद्धनाः ||२९|| मानोन्मादव्यपनयचतुराश्चैत्रारम्भे विदधति मधुराः । यूनामस्मिन्घटितयुवतयो दूतीकृत्यं परभृतरुतयः ||३०|| ध्वननितम्बावनि तारमन्ते गीत्वा प्रियाणां वनिता रमन्ते । sure महीनभोगैर्निषेव्यते काममहीनभोगैः ||३१||
३३४
विनमन् । मधुकर निकरः मधुकराणां भ्रमराणां निकरो निवहः । नीलदलोपहारविषयां नीलदलेरिन्द्रनीलमणिभिः कृत उपहारो रङ्गवल्ली स एव विषयो गोचरो यस्यास्ताम् । धिषणां बुद्धिम् ।
7
सततम् अनवरतम् । जनयति उत्पादयति । जनै प्रादुर्भावे लट् । भ्रान्तिमान् ||२८|| तटेति । गिरौ । परितः समन्तात् । तटगतासित रत्नविनिःसृतैः तटं सानुं गतै रसितैनीले रत्नैर्मणिभिविनि:सृतैर्निर्गतैः । रुचां कान्तीनाम् । निकरैः समूहैः । मेचकितत्विषः मेचकिता श्यामा त्विट् कान्तिर्येषां ते । शरद्धनाः शरत्कालमेघाः । कदाचन कस्मिंश्चित् ( अपि ) समये । निजरुचि स्वकीय कान्तिम्, शुभ्रकान्तिमित्यर्थः । न भजन्ति नाश्रयन्ति । भज सेवायाम् । लट् । सामान्यालङ्कारः ४ ॥ २९ ॥ मानेति । अस्मिन् गिरौ । चैत्रारम्भे चैत्रस्यारम्भे प्रारम्भे । मानोन्मादव्यपनयचतुराः मानेन गर्वेण जातोन्मादस्य चित्तविकारस्य व्यपनये चतुराः प्रौढाः । मधुराः श्रवणप्रियाः । घटितयुवतयः घटिताः प्रेरिताः युवतयो वनिता येषां ते । परभृतरुतयः परभृतानां कोकिलानां रुतयो ध्वनयः । यूनां तरुणानाम् । दूतीकृत्यं दूत्याः कृत्यं कार्यम् । विदधति कुर्वन्ति । उत्प्रेक्षा ( ? ) ||३०|| ध्वनन्निति । इह गिरी । वनिताः कामिन्यः । प्रियाणां दयितानाम् । अन्ते समीपे । ध्वनन्नितम्बावनि ध्वनन्ती नितम्बस्य प्रस्थस्यावनिर्भूमिर्यस्मिन् कर्मणि तत्० । तारम् उच्चैःस्वरम् । गीत्वा ध्वनित्वा । रमन्ते' क्रीडन्ते । रमि क्रीडायां लट् । आदृतैः प्रीतियुक्तः । अहीन भोगैः होनै: संपूर्णेर्भोगैर्भोगद्रव्य सहितैः । नभोगैः विद्याधरैः । हेममही स्वर्णमयभूमिः । कामं यथेष्टम् । निषेव्यते
भौंरे (साक्षात् फूलों के गुच्छोंके धोखेमें आकर ) आ-आकर मडराने लगते हैं, और अपने मडरानेके प्रदेशमें दर्शकोंको नीलमणियोंसे पूरे गये चौकका भ्रम उत्पन्न कर देते हैं ||२८|| इस पर्वत के तटोंपर यत्र-तत्र सर्वत्र नील मणियोंकी अपूर्व सुषमा बनी रहती है। उन मणियों की सघन किरणें सभी ओर फैली रहती हैं। उनसे शरदऋतुके शुभ्र मेघ बिलकुल काले या नीले हो जाते हैं । इस तरह वे यहाँ पर अपनी स्वाभाविक ( शुत्र ) कान्तिको कभी भी नहीं प्राप्त कर पाते हैं ||२९|| इस पर्वत पर चैत्रमासमें मानवती युवतियोंके मान जन्य उन्मादको दूर करनेसे चतुर, मधुर और विछुड़ी हुई तरुण नायिकाओं को उनके पतियोंसे मिला देनेवाली कोकिलकी बोली arth लिए दूतीका काम देती है ||३०|| यहांपर संगीतज्ञ नायिकाएं अपने-अपने पतियोंके निकट, इसकी पूरी मध्यभागकी भूमि में गूँज उत्पन्न करनेवाले ढंगसे तारस्वरमें गाना गाकर मनोविनोद करती हैं, और समादृत विद्याधर लोग — जो उत्कृष्ट भोग गामग्री साथमें लाये हैं
१. ' सततं ' मूलग्रन्थे नास्ति । लङ्कारः । ५. आ मन इति । ७. = क्रीडन्ति ।
Jain Education International
[ १४, २९
२. श गतैराश्रितैः । ३. = श्यामीकृता । = दूरीकरणे । ७. = संयोजिताः ।
६.
=
For Private & Personal Use Only
४. = तद्गुणा
८. = याभिस्ताः ।
www.jainelibrary.org