________________
–१४, ३४ ]
चतुर्दशः सर्गः
व्योम्ना यातः पत्रिणोऽत्र प्रविष्टं रत्नक्षाण्यां वन्यमार्जारपोतः । बिम्बं लौल्येनानुबध्नन्न धत्ते' दिव्यस्त्रीणां गन्तुमन्यत्र दृष्टिम् ॥३२॥ अयं मुनिघनोऽघनोदनसहः सहस्तिचमरोऽमरोचिततटः । सुराद्रिसदृशो दृशोऽम्बरसदां सदाश्र्चितविभो विभो रमयते ||३३|| नीलो पलोल्लसितलोलमरीचिजाल सान्द्रीकृतान्धतमसेष्विव गह्वरेषु । क्रीडातिरोहिततनूर्युवतीः पतीनां तच्छ्राससङ्गसुरभिर्विवृणोति वायुः ॥३४॥
3
आश्रियते । लट् । यमकम् ||३१|| व्योम्नेति । अत्र गिरौ । रत्नक्षोण्यां रत्नमयभूम्याम् । व्योम्ना गगनेन । आयातः गच्छतः । पत्रिणः पक्षिणः । प्रविष्टं प्रतीताम्बरम् । बिम्बं प्रतिबिम्बम् । लौल्येन लाम्पटन | अनुबध्नन् आकर्षन् । वन्यमार्जारपोतः वम्यस्य वने जातस्य मार्जारस्य विडालस्य पोतः शिशुः । दिव्यस्त्रीणां देववनितानाम् । दृष्टि नयनम् । अन्यत्र अन्यप्रदेशे । गन्तुं गमनाय । न घत्ते न घरति ( न दत्ते न ददाति ) । डुधाञ् धारणे च लट् । भ्रान्तिः ||३२|| अयमिति । विभो भो पद्मनाम । मुनिघनः मुनिभिर्यतिभिः घनः सान्द्रः । अघनोदनसहः अघस्य पातकस्य नोदवे निराकरणे सहः समर्थः । सहस्तिचमर: हस्तिभिर्दन्तिभिश्चमरैश्चम रमृगैश्च युक्तः । यमरोचिततट: अमराणां देवानामुचितं योग्यं तटं सानुर्यस्य सः । आरचितविभः आरचिता ( अञ्चितविभः बञ्चिता ) प्रशस्ता विभा कान्तिः शोभा वा यस्य सः । सुराद्रिसदृशः सुराद्रेर्मेरोः सदृशः समान: । अयं गिरिः । अम्बरसदां सुराणाम् । दृशः नयनानि । सदा अनवरतम् । रमयते क्रीडयति । रमि क्रीडायाम् । पिजन्ताल्लट् | यमकम् ||३३|| नीलेति । इह गिरौ । नीलोपलोल्लसितलोलमरीचिजालसान्द्रीकृतान्तममैषु नीलोपलस्येन्द्रनीलस्योल्लसितानां भासितानां लोलानां चञ्चलानां मरीचीनां कान्तीनां जालन कदम्बेन सान्द्रीकृतं निरन्तरीकृतमन्धतमसं येषां तेषु । गह्वरेषु दरीषु । क्रीडातिरोहिततनूः क्रीडया विलासैन तिरोहिता व्यवहिता तनुः गात्रं यासां ताः । युवतीः तरुणीः । तच्छ्वाससङ्गसुरभिः तासां युवतीनां श्वासस्योच्छ्वासस्य सङ्गेन संसर्गेण सुरभिः परिमलसहितः । वायुः मारुतः । पतोनां दयितानाम् । 'स्त्रियोऽत्र
३३५
यहाँकी स्वर्णमयी भूमिका भरपूर उपयोग करते हैं ||३१|| यहां पर रत्नजटित भूमिमें, आकाशमागंसे धीरे-धीरे जाते हुए एक पक्षीको परछाईं देखकर, जंगली बिलावका बच्चा बड़ी तृष्णासे उसे पकड़नेके लिए बार-बार प्रयत्न कर रहा है, और अपनी इस चेष्टासे आकृष्ट की गयी देवांगनाओं की दृष्टिको अन्यत्र नहीं जाने देता है - वे और कुछ न देखकर उसीकी ओर घूर घूरकर देख रहीं हैं ||३२|| राजन् ! वीतराग मुनियोंसे व्याप्त होनेके कारण यह पर्वत भव्यजीवोंके पापों को नष्ट करने में समर्थ है । यहाँ हाथी और चमरी मृगोंकी बहुलता है । इसके तट देवोंके विहार करने योग्य हैं । यहाँ सदा प्रकाश रहता है । अतएव यह सुमेरु सरीखा है, और इसी - लिए यहाँ देवी-देवताओंकी दृष्टि रम जाती है ||३३|| नीलमणियोंसे निकली हुई चञ्चल किरणोंसे जब यहाँकी गुफाओंमें अन्धकार और भी अधिक गाढ़ हो जाता है, तब युवतियाँ अपने पतियों से आँख बचाकर उनके भीतर जा छिपती हैं । उनके पतियोंको जब खोजने पर भी उनके शरीर नहीं दिखाई देते, तब उनकी श्वास वायु ही उनके छिपनेकी सूचना देती है
१. अ क ख ग घ धत्ते । २. क ख ग घ म दृष्टेः । ३. श आश्रीयते । ४ = पतितं प्रवेशं गतं वा । ५. 'धत्ते' इति टोकाश्रयस्य पाठस्य स्थाने प्रतिषु 'दत्त' इत्येव दृश्यते । ६.
= = साधुभि: । ७. = येषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org