SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ १४, २८ ] चतुर्दशः सर्गः अलिनीनिकुरुम्बचुम्बितायैः शिखरेऽस्य स्थलपुण्डरीकखण्डैः । भवतीव विकासशालिभिद्यरुदितानेकस लाञ्छनेन्दुबिम्बा ||२५|| विध्यातेऽप्यनिलवशेन मङ्गलार्थे दीपानामिह निकरे लतागृहेषु । वीक्षन्ते गगनचरा महौषधीनामुद्दयोतै रतिषु वधूमुखाम्बुजानि ||२६|| मत्वानुपप्लवशिखानिह रत्नदीपान्गत्यन्तरव्यपगमात्पिदधत्करेण । नेत्रे नितम्बगतवस्त्रहृतां प्रियाणां प्रीत्यै भवत्यधिगुहं खचराङ्गनौघः ॥२७॥ बिम्बितपुष्पगुच्छनिचितव्रततिषु निपतन्नस्य तडिल्लतानुकरणक्षमरुचिषु गिरेः । काञ्चनमेदिनीषु जनयति धिषणां नीलदलोपहारविषयां मधुकरनिकरः ||२८|| कर्मणि लट् । यमकम् ||२४|| अलिनीति । अस्य गिरेः । शिखरे शृङ्गे । अलिनीनिकुरम्बचुम्बिताग्रैः अलिनीनां भ्रमरवनितानां निकुरम्बेण समूहेन चुम्बितमालिङ्गितमत्रं येषां तैः । विकासशालिभिः विकासेन विकसनेन शालिभिः शोभिभि: । स्थलपुण्डरीकषण्डैः स्थलपुण्डरीकाणां स्थलपद्मानां षण्डैः कदम्बकैः । द्यौ: गगनम् । उदितानेकसलाञ्छनेन्दुबिम्बा' उदितं समुद्भूतमनेकेन बहुलेन लाञ्छनेन युक्तमिन्दुबिम्बं यस्याः सा इव । भवति । उत्प्रेक्षा ||२५|| विध्यात इति । इह गिरौ । गगनचराः विद्याधराः । लतागृहेषु र लतासदनेषु । मङ्गलार्थे मङ्गलनिमित्ते मङ्गलमेवार्थः प्रयोजनं यस्य ( तस्मिन् ) । दीपानां प्रदीपानाम् । निकरे समूहे । अनिलवशेन अनिलस्य वायोर्वशेन । विध्यातेऽपि विनष्टेऽपि । रतिषु रतिक्रीडासु । वधूमुखाम्बुजानि वधूनां वनितानां मुखान्येवाम्बुजानि सरोजानि । महोषधीनां काष्ठज्योतिरादीनाम् । उद्योतः प्रकाशैः । वीक्षन्ते विलोकयन्ते । ईक्षि दर्शने लट् । सामान्यालङ्कारः ||२६|| मत्वेति । इह गिरी । रत्नदीपान् अनुपप्लवशिखान् अनुपप्लवा निर्बाधा शिखा ज्वाला येषां तान् । इति मत्वा बुध्वा । गत्यन्तराभावात् गत्यन्तरस्योपायान्तरस्य व्यपगमादभावात् । नितम्बगतवस्त्रहृतां नितम्बगतस्य कटिगतस्य वस्त्रस्य दुकूलस्य हृतामपहारिणाम् । प्रियाणां दयितानाम् । नेत्रे नयवे । करेण हस्तेन । पिदधन् पिनह्यन् । खचराङ्गनीघः खचराङ्गनानामोघः समूहः । अधिगृहं गुहास्वधिकृत्याधिगुहम्, गुहास्वित्यर्थः । प्रीत्यै प्रीतिनिमित्तम् । भवति । लट् ॥२७ । विम्बितेति । अस्य गिरेः । बिम्बितपुष्पगुच्छ निचितव्रततिषु बिम्बिता: पुष्पाणां गुच्छैर्मञ्जरी भिनिचिता निरन्तरिता व्रतत्यो लता यासु तासु । तडिल्लतानुकरणक्षमरुचिषु तडिल्लताया विद्युल्लताया अनुकरणे क्षमा समर्था रुचिर्यासां तासु । काञ्चनमेदिनीषु सुवर्णमयभूमिषु । निपतन् भौरोंका मधुर संगीत सुनते हुए वायु सेवन करते हैं ||२४|| इस पहाड़ के शिखरों पर सफेद स्थल कमल खिले हुए हैं और उनके ऊपर भौंरियोंके झुण्ड बैठे हुए हैं । उन्हें देखकर ऐसा प्रतीत होता है मानो आकाश, लाञ्छन सहित अनेक ( पूर्णमासीके ) चन्द्रमण्डलों अलंकृत हो ॥ २५॥ विद्याधर युवक विवाह के बाद यहाँ आया करते हैं । उनके प्रथम मिलनकी मंगलवेला में यहाँके लतामण्डपों में मंगल दीप जलाये जाते हैं, हवा के झौंकेसे वे कभी बुझ भी जायें तो भी रतिक्रीड़ाके अवसरपर विद्याधर युवक अपनी नववधूका मुखकमल जड़ी-बूटियोंके प्रकाशसे देख लेते हैं । ॥२६॥ यहाँकी गुफाओं में सम्भोगके अवसरपर विद्याधर लोग ज्यों ही अपनी प्रियाओं के नितम्ब - से वस्त्र हटाते हैं, त्यों ही वे शर्मिन्दा होकर रत्नद्वीपोंको बुझानेका प्रयत्न करती हैं । पर जब वे नहीं बुझते, तब वे और उपाय न रहनेसे अपने हाथसे पतिके नेत्रोंको मूद लेती हैं । यह देखकर वे अपने मन-ही-मन बड़े प्रसन्न होते हैं ||२७|| इस पर्वतकी बिजुलीके समान चकाचौंध उत्पन्न करनेवाली स्वर्णभूमिमें, जहाँ फूलोंके गुच्छोंसे लदी हुई लताएँ प्रतिबिम्बित हो रही हैं, वहाँ १. = उदितान्येकानि सलाञ्छनानीन्दुबिम्बानि यस्यां सा । २. = निकुञ्जेषु । ३. = आच्छादयन् । ४. आ भोतेति । ५. श यासां । Jain Education International ३३३ For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy