________________
चन्द्रप्रभचरितम्
तुहिन पाण्डुरतीरजसैकतां कमलजेन गतां रजसैकताम् । वहति सिन्धुमयं सरसामलंकृतदिशां च चयं सरसामलम् ||२१|| सुरयुवतिजनस्य सानुभाजो वदनसरोरुहमण्डनोद्यतस्य । विगलिततिमिरासु संप्रसर्पन्भवति निशास्विह दर्पणो मृगाङ्कः ॥ २२॥ न महीरुहाः परिहृताः कुसुमैर्मणिदीप कैर्विरहिता न गुहाः । ननितम्बभूः सुरजनैर्विकला न सरः समुज्झितमिहाम्बुरु हैः ||२३|| इह गगनचरैः कन्दरागोचरैः सुरभिशुचिपटैः कामिनीलम्पटैः । श्रवसितसुरतैः सानुसेवारतैः समधुकररुतः सेव्यते मारुतः ||२४||
३३२
*
घाति न करोति । लट् । यमकम् ।। २० ।। तुहिनेति । तुह्निपाण्डुरतीरजसैकतां तुहिनमिव पाण्डुरं शुभ्रं तीरजं कूलजनितं सैकतं सितामयं यस्यास्ताम् । कमलजेन ताम्रसजेन । रजसा परागेण साकम् । एकताम् अभेदत्वम् । गतां याताम् । सरसां जलसहितां स्वादुरसवतीं वा । सिन्धुं नदीम् । 'देशे नदविशेषेऽब्धी सिन्धुर्ना सरिति स्त्रियाम्' इत्यमरः । अलंकृतदिशाम् अलंकृता भूषिता दिशो येषां तेषाम् । सरसां सरोवराणाम् । चयं च समूहं च अलं भृशम् । वहति धरति । वहि प्रापणे लट् । दीपकम् ॥२१॥ सुरेति । इह गिरो । सानुभाजः सानुं तटं भाजः ( सानुं तटं भजते इति सानुभाक्, तस्य ) आश्रितस्य । वदनसरोरुहमण्डनोद्यतस्य वदनमेव मुखमेव सरोरुहं कमलं तस्य मण्डने भूषणे उद्यतस्योद्युक्तस्य । सुरयुवतिजनस्य सुरयुवतिरेव जनस्तस्य । विगलिततिमिरासु विगलितं तिमिरं यासां तासु । निशासु रात्रिषु । संसर्पन् गच्छन् । मृगाङ्कः चन्द्रः । दर्पण: मुकुरः । भवति । लट् । रूपकम् ॥ २२ ॥ नेति । इह गिरौ । कुसुमैः पुष्पैः । परिहृताः रहिताः । महीरुहाः वृक्षाः । न न सन्ति । मणिदीपकैः रत्नदीपकैः । विरहिताः शून्याः । गुहाः गह्वराणि । न न सन्ति । सुरजनैः सुरा एव जना लोकाः तैः । विकला होना । नितम्बभू: " सानु प्रदेशः । [ न ] न भवन्ति ( भवति ) । अम्बुरुहैः सरोरुहैः । समुज्झितं त्यक्तम् । सरः सरोवर: " । [ न ] न भवति ॥ २३ ॥ इहेति । इह गिरी । कन्दरागोचरैः कन्दरस्य गह्वरस्यागोचरैरविषयैः कृतसुरताः सन्तः कन्दरान्निर्गताः इत्यर्थ: । 'दरी तु कन्दरो वा स्त्री' इत्यमरः । सुरभिशुचिपटैः सुरभिः परिमलः शुचिनिर्मलः पटो येषां तैः । कामिनीलम्पटैः कामिनीषु वनितासु लम्पटैरत्या सक्तैः । अवसितसुरतैः अवसितं संपूर्ण सुरतं येषां तैः । सानुसेवारतैः सानोनितम्बस्य सेवायामाश्रयणे रतैः प्रीतैः । गगनचरैः विद्याधरैः । समधुकररुतः मधुकराणां भ्रमराणां रुतेन ध्वनिना युतः । मारुतः वायुः । सेव्यते भुज्यते । वृङ सेवने ॥२०॥ जिनके किनारोंकी बालू बर्फकी भाँति शुभ्र है और जिनका मधुर जल कमलोंकी परागके साथ एक रूप हो चुका है, न केवल उन नदियोंको ही इसने जन्म दिया है, बल्कि सारी दिशाओं की शोभा बढ़ानेवाले जलाशयोंको भी जन्म देकर यह उन्हें अपनी गोद में लिए हुए है । ॥२१॥ शुक्लपक्षकी रातों में इस पर्वत के शिखरोंपर देवांगनाएं ज्यों ही अपने मुखका शृंगार करने बैठती थीं, त्यों ही सामनेसे आया हुआ चन्द्रमा दर्पणको कमीको पूरा कर देता है ||२२|| यहाँ के वृक्ष पुष्प रहित, गुफाएं मणिदीपोंसे रहित, मध्यभागको भूमि देवोंसे रहित और सरोवर कमलों से रहित नहीं हैं - यहाँके वृक्ष सदा फूलोंसे अलंकृत रहते हैं, गुफाओं में मणिदीप जगमगाया करते हैं, मध्यभागके रम्य प्रदेशों में देवलोग विराजमान रहते हैं और सरोवरोंमें कमल लहलहाते रहते हैं ||२३|| यहाँपर स्त्रीलम्पट विद्याधर लोग सम्भोगके उपरान्त सुगन्धित और पवित्र वस्त्र पहनकर गुफाओंसे बाहर निकलते ही शिखरोंपर टहलने लगते हैं, और फिर ४. = यमकम् । ५. श
[ १४, २१
१. मनपाण्डरं । २. = सैकतं सिकतामयम्' इत्यमरः । ३ = यैः । सानु | ६. = सुर युवतीनां जनो वर्गस्तस्य । ७. = वलक्षपक्षक्षपासु । ८ = जायते । ९ = सुराणां देवानां जना वर्गाः तैः । १०. = मध्यभागः । ११. श सरोवरं । १२ = कृतसुरतः सद्भिः कन्दरान्निर्गतैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org