SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ [१४, १५ चन्द्रप्रमचरितम् . कान्तैर्विचित्रोज्ज्वलचन्द्रकान्तै रूढलतानां निव हैः प्ररूद्वैः। यस्य द्यतिः केकिभिरक्षयस्य तेने तटे शाखितिरोहितेने ॥१५।। मध्वासवापानमनोशगानाः समुन्नयन्तो मनसो विकारम् । सकोपकान्तानुन येषु यूनां साहायकं यत्र भजन्ति भृङ्गाः ॥१६॥ श्रुत्वा धनध्वाननिभं नटन्तः शिखडिनो निर्भरवारिनादम् । कुर्वन्ति यत्सानुगतं सुरौघं दिव्याङ्गनानृत्यविधौ वितृष्णम् ।।१७।। गुहोदरे ध्येयहिमे हिमतु निदाघमब्यन्त्रिषु गह्वरेषु।। सानुष्वधोगामिघनेषु वर्षाः सुखेन यस्मिन्गमयन्ति सिद्धाः॥१८।। णामास्यानां श्वासैः । सुगन्धीक्रियते परिमलोक्रियते । अतिशयः४ ॥१४॥ कान्तैरिति । कान्तः कमनीयः । विचित्रोज्ज्वलचन्द्रकान्तः विचित्रं नानाविधमुज्ज्वलं (रूपं) येषां ते तथोक्ताा, विचित्रोज्ज्वलाश्चन्द्रका मेचकः अन्ते येषां तैः। केकि भिः मयूरैः। रूढः आरूढः । प्ररूद्वैः प्रवृद्धः । लतानां वल्लरीणाम् । निवर्हः समूहः । अक्षयस्य अविनाशस्य । यस्य गिरेः। द्युतिः कान्तिः । शाखितिरोहितेवे शाखिभिवृक्षस्तिरोहित आच्छादित इनः सूर्यो यस्मिन् तस्मिन् । तटे सानो । तेने वस्तीर्यतेस्म । तनन विस्तारे लट् ।यमकम् ॥१५॥ मध्विति । यत्र गिरौ । मध्वासवानमनोज्ञगानाः मधोगुंडपुष्पवृक्षस्यासवस्य पुष्परसस्य बापान पानगोष्ठिकया मनोज्ञं मजलं गानं येषां ते। मनसः चित्तस्य । विकारं पल्लटम् । समुन्नयन्त: वर्धयन्तः । भृङ्गाः मधुकराः । युनां तरुणानाम् । सकोपकान्तानुनयेषु सकोपानां कोपसहितानां कान्तानां स्त्रीणामनुनयेष्वाश्वास यकं सहायत्वम । व्रजन्ति गच्छन्ति । लट । भङ्गध्वनिश्रवणे स्त्रीणां भोगकांक्षा जायते, इत्यर्थः । समाहितः ।।१६।। श्रत्वेति । घनध्वाननिभं घनस्य मेघस्य ध्वानस्य वनेनिभं सदशम् । निझरवारिनादं निझरस्य प्रवाहस्य वारिणो जलस्य नादं ध्वनिम् । श्रत्वा आकर्ण्य । नटन्तः नृत्यन्तः । शिखण्डिन: मयूराः । यत्सानुगतं यस्य गिरेः सानुगतं तटयातम् । सुरोधं सुराणां देवानामोघं समूहम् । दिव्याङ्गनानृत्यविधो दिव्याङ्गनानां देवस्त्रीणां नृत्यविधी नटनकरणे । वितृष्णं कांक्षारहितम् । कुर्वन्ति विदधति । लट् । अत्रैव नर्तनासक्तं कुर्वन्ति, इत्यर्थः । अतिशयः ॥१७॥ गुहोदर इति। यस्मिन् गिरी। सिद्धाः देवविशेषाः । ध्येयहिमे घ्गातुं योग्यं हिम शीतलं यस्मिन् तस्मिन् । प्रत्यक्षप्रमेयं हिमं नास्ति, इत्यर्थः । गुहोदरे गुहाया गह्वरस्योदरे मध्ये । हिमतुं हेमन्तर्तुम् । सुखेन' निरायासेन । गमयन्ति यापयन्ति" । गम्लु गतौ णिजन्ताल्लट् । अब्यन्त्रिषु वलीसे सूर्य तिरोहित हो जानेसे उसके तटोंपर अन्धकार छाया रहता था। पर उन अन्धकारमय तटोंपर सुन्दर, वृक्षोंपर चढ़े हुए और अद्भुत स्वच्छ चन्द्राकृतियोंसे-जो पंखोंमें बनी हुई थीं-युक्त मयूरोंके द्वारा प्रकाश कर दिया जाता था ॥१५।। उस पर्वतपर पुष्परस रूपी आसवका पान कर लेनेसे सुस्वर गान करनेवाले और मनके विकारको बढ़ानेवाले भौंरे, रूठी हुई नायिकाओंको मनानेमें युवकोंको सहायता पहुंचा रहे थे ॥१६॥ उस पर्वतपर मेघध्वनिके समान जल-प्रपातके शब्दको सुनकर नाचनेवाले मयूर तटों या शिखरोंपर बैठे हुए देववृन्दको देवियोंके नृत्य देखनेकी तृष्णासे मुक्त कर देते थे-मयूरोंका नृत्य देखकर उन्हें देवियोंका नृत्य देखनेकी उत्सुकता नहीं रहती थी ।।१७।। उस पर्वतपर रहनेवाले देवलोग हिमके प्रभावसे सर्वथा मुक्त गुफाओंमें और फुहारेसे युक्त गुफाओं में क्रमशः हेमन्त और ग्रीष्मऋतुको सुखसे १. म तिरोहितेन । २. आ इ मनोज्ञरागाः। ३. अ आ क ख ग घ म निर्भर । ४. = उत्प्रेक्षा. अन्योन्यालङ्कारश्च । ५. आ मवेति । ६. = मधु पुष्परसः तद्रूपस्यावसस्य मद्यस्य । ७. = विकृतिम् । ८. श सहायकं । ९. आ लङ्। १०. = शैत्यं । ११. = १२. श 'यापयन्ति' इति नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy