________________
३२९
-१४,१४]
चतुर्दशः सर्गः शिलातले यस्य घनायमाने घनायमाने कमनीयभावम् । विराजते देहविभासुराणां विभासुराणामचिरांशुदेश्या ।।११।। गन्तुं पतङ्कोपलवह्नितप्तादपारयन्त्यः सहसा प्रदेशात । द्विषन्ति यस्मिन्निजमेव तुझं तुरङ्गवक्राः कुचकुम्भभारम् ।।१२।। समुद्गतैावतले पतित्वा जडीकृतो निर्भरवारिपूरैः । न तापितायोमयपिण्डतुल्यस्तपेऽपि यत्रोत्तपते पतङ्गः ।।१३।। प्रभञ्जनः खेचरसुन्दरीणां रतिश्रमापोहकृतोपकारः। यस्मिन्सुगन्धीक्रियते तदास्यश्वासैरिव प्रत्युपकर्तुकामैः ॥१४।।
महौषधिसामर्थ्येन सपणां विषरहितत्वात्तत्र क्रोडतां स्त्रीपुरुषाणां कालोरगदंशभयं नास्तीत्यर्थः ॥१०॥ शिलेति । कमनीयभावं कमनीयस्य मनोहरस्य भावं स्वरूपम् । अयमाने२ गच्छति । घनायमाने मेघायमाने । यस्य पर्वतस्य । शिलातले शिलाप्रदेशे। घना गुरू। अचिरांशुदेश्या अचिरांशोविद्युतो देश्या समाना । विभासुराणां विशेषेण भासनशीलानाम् । सुराणाम् । देहविभा देहस्य शरीरस्य विभा कान्तिः । विराजते भाति । राजन दीप्तो लट् । उपमा ॥११॥ गन्तुमिति । यस्मिन् गिरी। पतङ्गोपलवह्नितप्तात् पतङ्गोपले सूर्यकान्तशिलायामुत्पन्नेन वह्निनाग्निना तप्तात् संतप्तात् । प्रदेशात् स्थलात् । सहसा शीघ्रम् । गन्तुं यातुम् । अपारयन्त्य: असमर्थाः । तुरङ्गवक्त्राः किन्नरवनिताः । तुङ्गम् उन्नतम् । निजमेव स्वकीयमेव । कुचकुम्भभारं स्तनकुम्भानां कुचकलशानां भारम् । द्विषन्ति कुप्यन्ति । रूपकम् ॥१२॥ समुद्गतैरिति । यत्र गिरौ। तापितायोमयपिण्डतुल्यः तापितेनायोमयेन लोहमयेन पिण्डेन गोलकेन तुल्यः समानः । पतङ्गः सूर्यः । ग्रावतले शिलातले । पतित्वा निपत्य । समुद्गतैः प्रस्रुतैः । निझरवारिपुरैः निर्झरस्य प्रवाहस्य वारीणां पूरैः। जडीकृतः शोतीकृतः सन । तपेऽपि ग्रीष्मकालेऽपि । नोत्तपते न संतपते । तप संतापे लट् ॥१३ । प्रभजन इति । यस्मिन् गिरो । खेचरसुन्दरीणां विद्याधरस्त्रीणाम् । रतिश्रमापोहकृतोपकारः रत्या कामकेल्या जातस्य श्रमस्यापोहेन विनाशेन कृत उपकारो यस्य सः । प्रभञ्जन: वायुः । प्रत्युपकर्तुकामैः [इव] प्रत्युपकारं कर्तुकामैः कर्तुमिच्छुभिरिव । तदास्यश्वासैः तासां विद्याधरस्त्री
रहित हो गये थे। इसलिए वहाँपर स्त्रियाँ निर्भय होकर अपने पतियोंके साथ क्रीड़ा किया करती थीं ॥१०॥ उस पर्वतको मेघ सरीखी सुन्दर शिलापर देदीप्यमान देवोंके शरीरको घनीप्रभा बिजुलीको भाँति सुशोभित होती थी ॥११॥ उस पर्वतपर गन्धर्वोकी अंगनाएँ-जिनके मुख अश्व सरीखे थे-सूर्यकान्त मणियोंकी अग्निसे सन्तप्त प्रदेशसे सहसा भाग जाने में असमर्थ होकर अपने ही अत्यधिक, स्तन-कलशोंके बोझसे द्वेष करने लगती थीं ॥१२॥ उस पर्वतपर अनेक झरने बह रहे थे। उनके जलका पूर चट्टानोंके ऊपर गिरकर आकाशमें बहुत ऊंचाई तक उछल जाता था, उससे, तप्त लोह पिण्ड सरीखा सूर्यमण्डल बिलकुल ठण्डा हो जाया करता था, अतः ग्रीष्म ऋतुमें भी वह नहीं तपता था-उष्ण नहीं हो पाता था ॥१३॥ उस पर्वतपर विद्यारियों की रतिक्रियाकी थकानको मिटाकर वायुने उनका उपकार किया, तो उन्होंने भी मानो प्रत्युपकारकी कामनासे उसे अपनी श्वासवायुसे सुवासित कर दिया ॥१४॥ वह पर्वत बड़ी तेजीसे बढ़नेवाली और सभी ओर फैलनेवाली लताओंका अक्षय स्थान था। सघन वृक्षा
१. म तटेऽपि । २. श आयमाने । ३. = नीयमाने। ४. = देवानाम् । ५. = यमकं च। ६. = निन्दन्ति । ७. आ कुप्यन्ति । ८. = ऊर्ध्वगैः । ९. श प्रस्तुतैः । १०. = येन ।
४२ Jain Education International For Private & Personal Use Only
www.jainelibrary.org