SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३२८ चन्द्रप्रमचरितम् प्रभावतो लब्धमहर्द्धिकस्य प्रभावतो योगिजनस्य यस्मिन् । नरो गतो रम्यविशालटङ्गे न रोगतो गच्छति कोऽपि पीडाम् ॥७॥ नितम्बवाप्यः खचराङ्गनानामधः प्रवर्षेष्वपि वारिदेषु । विच्छिन्दते यत्र न तोयकेलिं परिस्रवन्निभरपूर्यमाणाः ।।८।। परिसूतानीन्दुमणिप्रतानात्पयांसि पीयूषवदापिबन्तः। नित्यप्रसूताभिनवप्रवाला भजन्ति यत्राजरतां द्रमौघाः ॥९॥ महौषधीगन्धगतप्रभावान्निायकृष्णाहिषु चन्दनानाम् । वनेष्वनाशङ्कितेशेमुषीकाः क्रीडन्ति कान्तैः सह यत्र कान्ताः ॥१०॥ देवानाम् । प्रियत्वं संतोषत्वम् । व्रजन्ति गच्छन्ति । व्रज गती लट् ॥६॥ प्रभेति । प्रभावतः दीप्तिमतः कान्तियुक्तस्य । लब्धमहधिकस्य लब्धाः प्राप्ता महत्य ऋद्धयो महौषध्यादयो यस्य तस्य । योगिजनस्य मुनिजनस्य । प्रभावतः सामर्थ्यतः। यस्मिन गिरी। रम्यविशालशृङ्गे रम्ये मनोहरे विशाले विस्तीर्णे शृङ्गे शिखरे। गतः यातः । कोऽपि कश्चिदपि । नरः पुरुषः। रोगतः व्याधेः सकाशात् । पीडां बाधाम् । न गच्छति न प्राप्नोति । गम्ल गतो लट् । यमकम् ॥७॥ नितम्बेति । यत्र गिरौ। वारिदेषु मेघेषु । अधःप्रवर्षेषु[अपि] अधः अधोभागे प्रवर्ष वृष्टिर्येषां तेषु अपि । परिस्रवन्निर्झरपूर्यमाणाः परिस्र वता परितो धावता निर्झरेण प्रवाहेण पूर्यमाणाः संपूर्ण गम्यमानाः। नितम्बवाप्यः नितम्बे तटे विद्यमाना वाप्यो दीधिकाः । खचराङ्गनानां विद्याधरवनितानाम् । तोयकेलि जलकेलिम् । न विच्छिन्दते अभावं न कुर्वते । छिदा द्वैधीकरणे लट् ॥८॥ परीति । यत्र गिरी। इन्दुमणिप्रतानात् इन्दुमणीनां चन्द्रकान्तानां प्रतानान् निकरात । परिस्रतानि परिस्थन्दितानि । पयांसि जलानि । पीयूषवत सुधारसवत । आपिबन्तः पानं कुर्वन्तः । नित्यप्रसूताभिनवप्रवालाः नित्यमनवरतं प्रसूता जिता` अभिनवाः प्रत्यग्रा प्रवालाः येषां ते । द्रुमौघाः द्रुमाणां वृक्षाणामोघाः समूहाः । अजरतां नवीनताम्। भजन्ति श्रयन्ते। अतिशयः ।।९।। महौषधीति । यत्र गिरी। महौषधीगन्धगतप्रभावात् महौषधीनां महामूलिकोषधीनां गन्धगताद् वासगतात प्रभावात् सामर्थ्यात् । निर्वीर्यकृष्णाहिषु निर्वीर्या निर्गतविषसामर्थ्याः कृष्णाहयः कालोरगा येषां१४ तेषु । चन्दनानां श्रीगन्धानाम् । वनेषु काननेषु । अनाशङ्कितशेमुषीका: अनाङ्किताः संशयरहिता शेमुषी यासां ताः । कान्ताः वनिताः । कान्तः सह निजदयितैः सह । क्रोडन्ति खेलन्ति । क्रीड' विहारे लट् । प्यारे लगते थे ॥६॥ रमणीय विशाल शिखरोंवाले उस पहाड़पर गया हुआ कोई भी मनुष्य, बड़ी-बड़ो ऋद्धियोंके धारक प्रभा सम्पन्न योगियोंके प्रभावसे रोगसे पीड़ित नहीं होता थास्वस्थ हो जाता था ॥७॥ वह पहाड़ बहुत ऊँचा था। जल बरसानेवाले मेघ उनके मध्यभाग तक भी नहीं पहुंच पाते थे, मध्यभागके नीचे ही वे जल बरसाया करते थे। उसके मध्यभागमें अनेक वापिकाएं थीं, जो सभी ओर बहनेवाले झरनोंसे भरी रहती थीं, और इसीलिए वे वहां विचरनेवाली विद्याधरियोंकी जलक्रीड़ामें कभी विच्छेद नहीं होने देती थी-विद्यारियां उनमें नित्य जलक्रीड़ा किया करती थीं ॥८॥ उस पर्वतपर चन्द्रकान्त मणियोंके समूहसे अमृतके समान जल बहता रहता था, उसे पीनेवाले वृक्षोंके समुदायोंमें सदा नयी-नयी पत्तियां उत्पन्न हुआ करती थीं। फलतः वे वृक्ष हमेशा नवीन ही बने रहते थे, कभी पुराने नहीं होते थे ॥९॥ वहां चन्दनके वनोंमें जहरीले काले नाग थे, पर वे सभी उत्कृष्ट जड़ी-बूटियोंके प्रभावसे निर्वीर्य-विष १. अ क ख ग घ म प्रवर्षिष्वपि । २. म वनेषु निःशङ्कित । ३. श संतोषम् । ४. आ लिट् । ५. येन । ६. श प्रवर्षो । ७. =संपूर्णतां नीयमानाः। ८. मध्यमागे। ९. = जनिताः । १०. आ जीताः ।। ११. = पल्लवाः । १२. आ नदीनताम् । १३. श श्रयन्ति । १४. = येषु । १५. श क्रीड । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy