________________
- ३२२
चन्द्रप्रभचरितम्
फलित सस्य समूहनिरन्तरास्वतिमनोरमलाङ्गलराजिषु ।
क्षितिषु गौरिव गौर्जगती भुजश्चिरतरं विचचार निरङ्कुशा ॥ ५१ ॥ जन मन: शयने शयितं मनोभवमिव प्रतिबोधयता कृतः । समदहंसकुलेन कलध्वनिर्नृपतिनावहितश्रुति शुश्रुवे ॥ ५२ ॥ परिमितैर्गमनैः कुथवाहिनीं पथि सुविश्रमयन्गजवाहिनीम् । जलधिधीरजलां जलवाहिनीं वसुमतीपतिराप स वाहिनीम् ॥५३॥ विविधभङ्गतरङ्गशिरः स्थितैस्तुहिननिर्मलफेनकदम्बकैः । वसुमतीव विराजति या शरद्धनेघनाघनरुद्धमहीधरा ||२४|| समवगाढवतां वनदन्तिनां कटतटाद्गलितस्य मदाम्भसः । उपरि संचरतामलिनां कुलैः सतिलकाभरणेव विभाति या ||२५||
४
फलितेति । फलितसस्यसमूहनिरन्तरासु फलितानां फलभरितानां सस्यानां समूहेन निचयेन निरन्तरासु संकीर्णासु । अतिमनोरमलाङ्गलराजिषु अतिमनोरमा अत्यन्तं मनोहरा लाङ्गलानां हलानां राजयो रेखा यासु तासु । क्षितिषु क्षेत्रेषु । गोरिव धेनुरिव । जगतीभुजः भूभुजः । गौः दृष्टिः । निरङ्कुशा निर्बाधा | चिरम् अनेकक्षणम् । विचचारै वर्तते स्म । उपमा ॥ ५१ ॥ । जनेति । जनमनः शयने जनानां लोकानां मन एव चित्तमेत्र शयनं पर्यङ्क ( ङ्कः ) तस्मिन् । शयितं सुप्तम् । मनोभुवं मन्मथम् । प्रतिबोधयता इव जागरयता इ । समदहंसकुलेन समदानां हर्षयुक्तानां हंसानां मरालानां कुलेन यूथेन । कृतः विरचितः । कलध्वनिः मनोहरध्वनिः । नृपतिना पद्मनाभेन । अवहितश्रुति अवहिते सन्नद्धे श्रुती कर्णौ यस्मिन् कर्मणि तत्० । शुश्रुवे श्रूयते स्म । श्रु श्रवणे कर्मणि लिट् । उपमा ( उत्प्रेक्षा ) ॥ ५२ ॥ परिमितैरिति । पथिषु मार्गेषु । कुथवाहिनीं कुथं रत्नकम्बलं वहतीत्येवंशीला कुथवाहिनी ताम् । 'कुथः स्यात् करिकम्बलः' इत्यभिधानात् । गजवाहिनीं गजानां वाहिनी सेना ताम् । गजवाहिनीमित्युपलक्षणम् । सर्वामपि सेनामित्यर्थः । विश्रमयन् विश्रान्ति नयन् । परिमितैः कतिपयैः । गमनैः प्रयाणैः । सः वसुमतीपतिः भूमिपतिः । जलधिधीरजलां जलधिरिव समुद्रवद् धोरं प्रवृद्ध जलं यस्याः सा ताम् । जलवाहिनीं जलवाहिनीनामधेयाम् । वाहिनीं नदीम् । आप ययौ । आलू व्याप्तौ लिट् । जाति: ( यमकम् ) || ५३ || विविधेति । विविधभङ्गतरङ्गशिरः स्थितैः विविधैर्नानाप्रकारैर्वक्रयुतै: ( विविधभङ्गानां नैकविधरचनानां ) तरङ्गाणां कल्लोलानां शिरस्यग्रे स्थितैः । तुहिन निर्मलफेनकदम्बकैः तुहिनमिव निर्मलानां शुभ्राणां फेनानां डिण्डीराणां कदम्बकैनिकुरम्बकैः । या नदी । शरद्घनघनाघनरुद्धमहीधरा शरद: शरत्कालस्य घनैः सान्द्रैर्घनाघनमै रुद्धा आवृता महीधराः पर्वता यस्यां सा । वसुमतीव भूमिरिव । विराजति भाति । लट् । उपमा || ५४ ॥ समेति । समवगाढवतां मज्जताम् । वनदन्तिनां वनगजानाम् । कटतटात् कपोलप्रदेशात् । गलितस्य प्रसृतस्य । मदाभ्भसः मदजलस्य । चावल आदिके दानोंसे भरे हुए धान आदि अनाज, जिन खेतोंमें लगातार लगे हुए थे, उनमें राजाकी दृष्टि बहुत देर तक एक गायकी भाँति स्वच्छन्द विचरण कर रही थी ॥ ५१ ॥ लोगों की चित्त - शय्या पर सोये हुए कामदेवको जगानेवालेके समान प्रतीत होनेवाले मतवाले हंसोंके झुण्डने जो मधुर ध्वनि की, उसे राजाने कान लगाकर बड़े चावसे सुना ॥ ५२ ॥ मार्ग में बहुत थोड़े पड़ाव डालकर झूलसे विभूषित हाथियोंकी सेनाको विश्राम कराता हुआ राजा पद्मनाभ समुद्र के समान गम्भीर नोरसे भरी हुई जलवाहिनी नामकी नदीके पास जा पहुँचा ॥ ५३ ॥ उसकी छोटी-बड़ी अनेक प्रकारकी तरंगोंके ऊपर बर्फ की तरह शुभ्र फेन लहरा रहा था, अतः
Jain Education International
[ १३,५१
१. क ख ग घ म सरिद्धन । २. = बहुकालं यावत् । ३ = संचरति स्म । ४ रा जागरता इव । ५. = गभीरं । ६. = विविधभङ्गानां नैकविधरचनानां तरङ्गाणां कल्लोलानां शिरस्यग्रभागे
स्थितैः । ७. आ दिन्दिराणां ।
For Private & Personal Use Only
www.jainelibrary.org