________________
- १३,५० ] त्रयोदशः सर्गः
३२१ जलदनादगभीरमथिध्वनिश्रवणजातसमुत्सुकमानसम् । नटदुदीक्ष्य कुलं भुजगद्विषामभिशशंस स गोकुलवासिनाम् ॥४८।। कलमगोपकवंशरवाहितश्रुति कुरङ्गकुलं पृतनाचरैः । हतमुदीक्ष्य जनैरिति सोऽध्यगाद्विषयिणो नियतं विपदां पदम् ॥४६।। सुगतिगामिनि भावितमानसे विमलपक्षतया परिभूषिते ।
न स शशाक निवर्तयितुं दृशौ स्वसदृशे नृपहंसकुले नृपः ।।५०।। क्रोधं कृतवतीम् । हृदयेश्वरौं कोकवनिताम् । अथो पश्चात् । अनुनयन्तम् अनुसरन्तम् । कोकं चक्रवाकम् । सः इलाधिपः पद्मनाभभूपतिः । अभिननन्द संतुतोष । टुनदु समृद्धो लिट् ।।४७ । जलदेति । जलदनादगमीरमथिध्वनिश्रवणजातसमुत्सुकमानसं जलदस्य मेघस्य नाद इव ध्वनिवद् गभीरस्य गम्भीरस्य मदिनोऽकारणस्य (मथिनो दधिमन्थनकारणस्य ) ध्वनेः शब्दस्य श्रवणेन जातं समुद्भूतं समुत्सुकं संभ्रमयुक्तं मानसं चित्तं यस्य तत् । नटत् नृत्यत् । गोकुलवासिनां गवां कुले समूहे वासिनां विद्यमानानाम् । भुजङ्गद्विषां भुजगानां सर्पाणां द्विषां शत्रणां मयूराणामित्यर्थः । कुलं यूथम् । उदीक्ष्य विलोक्य । सः राजा । अभिशशंस स्तौति स्म । शन्सूङ स्तुती लिट् । जातिः ( भ्रान्तिमान् ) ॥४८॥ कलमेति । कलमगोपकवंशरवाहितश्रुति कलमानां शालिक्षेत्राणां गोपकानां रक्षतां वंशस्य कण्ठस्य रवे ध्वनी आहिते आसक्ते श्रुती यस्य तत् । पृतनाचरैः सेनावतिभिः । जनैः लोकैः। हतं बाधितम् । कुरङ्गकुलं कुरङ्गाणां मृगाणां कुलं यूथम् । उदीक्ष्य वीक्ष्य । विषयिणः इन्द्रियविषययुक्ताः । नियतं ° निश्चयम् । विपदां विपत्तीनाम् । पदं स्थानम् । इति एवम् । सः राजा । अध्यगात् स्मरति स्म । इक् स्मरणे लुङ्" । अर्थान्तरन्यासः ।।४९।। सुगतीति । सुगतिगामिनि सुगत्या प्रशस्तगमनेन गामिनि गमनशीले, पक्षे सूगति स्वर्गादिगति गच्छतीत्येवंशीले। भावितमानसे भावितं चिन्तित मानसं मानससरोवर(रो) यस्य तस्मिन, पक्षे भावितं सम्यक्त्वादिना परिणतं मानसं यस्य तस्मिन । विमलपक्षतया विमलया शभ्रया पक्षतया पतत्रतया, पक्षे विमलेन निर्दोषेण पक्षतया प्रतिज्ञायुक्ततया निर्दष्टसहायजनतया वा। परिभूषिते अलंकृते । स्वदृशे स्वस्य समाने । न महंसकूले नपहंसानां राजहंसानां. कुले समूहे । दृशौ नयने । सः राजा निवर्तयितुं निवर्तनाय । न शशाक न शक्नोति स्म । श्लेषापमा ॥५०॥ मन पश्चात्ताप होने लगा। फलतः वह अप्रसन्न की गयी अपनी उस हृदयकी स्वामिनी चकवीका अनुनय करने लगा । यह सब देखकर पद्मनाभ बड़ प्रसन्न हुआ ||४७॥ मेघोंके गर्जनके समान गम्भीर दहीके मन्थनके शब्दको सुनकर मयूरोंके झुण्डका मन उत्कण्ठित हो उठा, और वह नाचने लगा, उसे देखकर राजाने गायोंके झुण्ड ( गोकुल )में निवास करनेकी बड़ो प्रशंसा की ॥४८॥ धानके खेतोंकी रखवाली करनेवाले बाँसुरी बजा रहे थे, उसके मधुर स्वरको मृगोंका झुण्ड बड़े ध्यानसे सुन रहा था। उसे बाँसुरीके स्वरमें बेसुध-सा देखकर सैनिकोंने आसानीसे मार डाला । यह देखकर राजाको यह भान हो गया कि विषयो जीव निश्चय ही विपत्तियोंके शिकार होते हैं ॥४६॥ अपने ही समान राजहंसोंके झुण्ड को देखकर राजा पद्मनाभ अपने नेत्रोंको उसकी ओरसे हटानेके लिए असमर्थ हो गया। पद्मनाभ स्वर्ग आदि अच्छी गतियोंमें जाने योग्य था, उसका हृदय शुभ भावनाओंसे युक्त था और वह निर्मल -निर्दोष व्यक्तियोंके पक्षसे विभूषित था। इसी तरह राजहंसोंका झुण्ड अच्छो चालसे युक्त था, उसका ध्यान मानस सरोवर झीलकी ओर लगा हुआ था और वह शुभ्र पंखोंसे सुशोभित था ॥५०॥
१. क ख ग घ म°वासिताम् । २. = अभिशशंस । ३. आमधिध्वनि, श°मदिध्वनि । ४. आ शन्सूत्र । ५. श°मरोपक । ६. श रोपौं । ७. = वेणुवाद्यस्य । ८. = मारितम् । ९. = इन्द्रियविषयाक्ताः । १०. = निश्चितम्। ११. श लङ्। १२. = येन। १३. = विमलो निर्मल: पक्षो विमलानां निर्मलानां वा पक्षोsनुरागविशेषस्तस्य भावस्तया। १४. श 'राजहंसानां' पदमिदं नोपलभ्यते ।
४१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org