SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ . -१३, ४३] त्रयोदशः सर्गः रुचिररक्षकराजितविप्र हैविहितसंभ्रमगोष्ठमहत्तरैः । पथि पुरो दधिसर्पिरुपायनान्युपहितानि विलोक्य स पिप्रिये ।।४।। कुचभरादसहां शुकवारणे कलमगोपवधूमवलोकयन् । स्मितमुखः समचिन्तयदित्यसौ क्वचिदतीव गुणोऽप्यगुणायते ॥४२॥ बृहदलाबुकगौरववामनां वृतिमुपर्युपरि प्रसृतैः पपे। सतृषितैरिव गोकुलयोषितां विपुलकान्तिजलो नयनैर्नृपः ॥४३॥ दयितासदृशः दयिताभिर्वनिताभिः सदृशः समानाः । दिशः ककुभः । नरवरेण नृपतिना। पुनः पुनः भूयो भूयः । ददृशिरे वीक्ष्यन्ते स्म । कर्मणि लिट् । श्लेषोपमा ( पूर्णोपमा वा ) ॥४०॥ रुचिरेति । रुचिररल्लकराजितविग्रहैः रुचिरैर्मनोहर रल्लक:' कम्बलै राजितो विभासितो विग्रहो देहो येषां तैः । विहितसंभ्रमगोष्ठमहत्तरैः विहितः कृतः संभ्रमो येषां ते तथोक्ताः, गोष्ठस्य गोस्थानस्य महत्तरा गोपालाः, विहितसंभ्रमाश्च ते गोष्ठमहत्तराश्वतः। पथि मागें। परः अने। उपहितानि आनीतानि । दधिसपिरुपायनानि दधिसपिषोरुपायनान्युपग्राह्याणि सः राजा। विलोक्य वीक्ष्य । पिप्रिये प्रीणाति स्म । प्रोञ् कान्तितर्पणयोः । लिट् ॥४१॥ कुचेति । कुचभरात् कूचयोभराद् भारात् । शुक्रवारणे शुकानां कीराणां वारणे निराकरणे। असहाम् असमर्थाम् । कलम[गोप]वधू' कलमस्य शालिक्षेत्रस्य [गोप]वधं स्त्रियम् । अवलोकयन् वीक्षमाणः । स्मितमखं स्मितमीषद्धसितं मुखं यस्य सः । असौ राजा। इति एवम् । अचिन्तयत् चिन्तयति स्म । चितै संज्ञाने । लङ्। अतीव अत्यन्तम् । इव शब्दो वाक्यालङ्कारे। गुणोऽपि परमगुणोऽपि । क्वचित एकस्मिन् । अगुणायते अगुण इवाचरति, दोषायते इत्यर्थः । गुण इति आचारार्थे क्यङ्-प्रत्ययः । अर्थान्तरन्यासः ॥४२॥ बृहदिति । बृहदलाबुकगौरववामनां बृहतो महतोऽलाबुकस्य तुम्बीफलस्य गौरवेण गुरुत्वेन वामनां कुब्जाम् । वृतिम् आवरणम् । उपर्युपरि अग्रेऽग्रे । वीप्सायां द्विः । प्रसृतैः विस्तृतैः । गोकुलयोषितां गोकुलानां गोपालानां योषितां स्त्रीणाम् । तृषितैरिव पिपासितैरिव । नयनः नेत्रैः । विपुलकान्तिजल: विपुला रुन्द्रा कान्तिः शरीरकान्तिः सैव जलं यस्य सः। सः नृपः पद्मनाभः । ५पे पोयते स्म । पावाने कर्मणि लिट् । उपमातिशयश्च हंस आदि पक्षियोंसे युक्त होती हैं, निर्मल आकाशको धारण करनेवाली होती हैं एवं विस्तृत, उन्नत तथा शुभ्र मेघोंसे विभूषित होतो हैं ॥४०॥ राजाके दर्शन करनेके लिए गोशालाओंके प्रमुख अहीर बड़े आदरसे पद्मनाभके सामने उपस्थित हुए। वे सभी कम्बल ओढ़े हुए थे। उन्होंने राजाको उपहारमें दही और घी समर्पित किया। मार्गमें सामने उपस्थित हुई इन उपहारकी वस्तुओंको देखकर वह बहुत प्रसन्न हुआ। यात्राके समय दही देखना शकुन जो समझा जाता है ॥४१॥ एक धान के खेत में बार-बार तोते आ रहे थे, उन्हें उस खेतकी रखवाली भगाना चाहती थी, किन्तु स्तनोंके बोझसे वह विवश थी-दौड़-दौड़कर भगा नहीं पा रही थी। यह देखकर राजा मुसकराने लगा और मन-ही-मन यह सोचने लगा कि कहीं-कहींपर श्रेष्ठ गुण भी दोष बन जाता है ।। ४२॥ बड़ी-बड़ी लौकियों के बोझसे जो बाड़ी झुकती जा रही थी, उसीकी ओटमें खड़ी हुई ग्वालिनोंकी आँखें मानो प्यासी थीं, अतएव बाड़ीके ऊपरसे निकालकर उन्होंने ( आंखोंने ) अत्यधिक कान्तिजलसे सम्पन्न राजा पद्मनाभको पी लिया १. = 'रल्लकः कम्बले स्मृतः' अनेका० ३.८५ । २. =यैः । ३. 'उपायनमुपग्राह्यमुपहारस्तथोपदा' । इत्यमरः । ४. आ कलमकासवधू । ५. = कृषोबलबालामित्यर्थः । ६. =कुत्रचित् । . . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy