________________
३१८
चन्द्रप्रमचरितम् कृतपरस्परवाजिविघटना नमितवारणरोहशिरोधरा। व्यधित तिर्यगुपाहितकेतना निरयणं पुरगोपुरतश्चमूः ॥३७।। विधुतपङ्कहो मधुपायिनामिव रवैर्विदधत्परिभाषणम् । वसुमतीदयितं परिरभ्य तं सुहृदिवासुखयत्परिखानिलः ॥३८। विकसिताम्बुरुहाणि सरोवराण्य कलुषाश्च पयोनिधियोषितः। पथि विलोकयतः स्पृहणीयया क्षितिभुजोऽजनि शारदयात्रया ॥३९।। हृदयहृदयसो विमलाम्बराः पृथुसमुन्नतपाण्डुपयोधराः।
नरवरेण पुनः पुनरादराद्दशिरे दयितासदृशो दिशः ॥४०॥ प्राकारस्य तले मले। निजं स्वकीयम् । रथं चक्रयानम् । सहसैव शीघ्रपेव । अलोकत पश्यति स्म । लोकुञ् दर्शने लङ् ॥३६॥ कृतेति । कृतपरस्परवाजिविघटना कृतं विहितं परस्परं वाजिनामश्वानां विघट्टनं संमईनं यस्यां सा। नमितवारणरोहशिरोधरा नमितः प्रणतो वारणरोहाणां हस्तिपकानां शिरोधर: कन्धरो यस्यां सा। तिर्यगुपाहितकेतना तिर्यक् तिर्यग्रूपेणोपाहितानि धृतानि केतनानि ध्वजा यस्यां सा। चमूः सेना । पुरगोपुरतः पुरस्य नगरस्य गोपुरतो गोपुरात्, पुरद्वारादित्यर्थः । निरयणं निस्सरणम् । व्यधित करोति स्म । लुङ् ॥३७॥ विधुतेति । विधुतपङ्कहः विधुतानि कम्पितानि पङ्क रुहाणि कमलानि येन सः । मधुपायिनां भ्रमराणाम् । रवैः ध्वनिभिः । परिभाषणं संभाषणम् । विदधत् कुर्वान्नव । परिखानिलः परिखायाः खातिकाया अनिलो वायुः । बसुमतोदयितं भूमिवल्लभम् । तं पद्मनाभम् । परिरम्य आलिङ्गय । सुहृदिव मित्रवत् । असुखयत् सुखमकरोत् । 'सुखदुःखतक्रियायां लङ् । उत्प्रेक्षा ( उपमा) ॥३८॥ विकसितेति । विकसिताम्बु. रहाणि विकसितान्यम्बुरुहाणि येषु तानि । सरोवराणि । अकलुषाः न विद्यते कलषः कल्मषो यासां ताः । पयोनिधियोषितः पयोनिधेः समुद्रस्य योषितः स्त्रियश्च ( नदीः )। पथि मार्ग। विलोकयतः वीक्षमाणस्य । क्षितिभुजः भूमिपतेः । शारदयात्रया शारदया शरत्काल संबन्धिन्या यात्रया प्रयाणेन । स्पहणोयया अभिलषितुं योग्यया । प्रजनि । जनैङ प्रादुर्भावे लुङ् ॥३९॥ हृदयेति । हृदयहृदयसः हृदयहतो मनोहरा वयसः पक्षिणो यासां ताः, पक्षे हृदयहन्ति मनोहराणि वयांसि यौवनानि यासां ताः । विमलाम्बराः विमलं निर्मलमम्बरमाकाशं यासां ताः, पक्षे विमलान्यम्बराणि वस्त्राणि यासां ताः। पृथुसमुन्नत साण्डुपयोधराः पृथवः पीनाः समुन्नताः प्रांशवः पाण्डवः शुभ्राः पयोधरा मेधा यासां ताः, पक्षे पथ समन्नतो पाण्ड धवलो पयोघरी स्तनो यासां ताः ।
रथको सहसा चहारदीवारीके बाहरकी ढाल जमीनमें जाते देखा तो उसे बड़ा आश्चर्य हुआ ॥३६॥ नगरके फाटकसे सेना निकलनेका दृश्य दर्शनीय था । एक ही साथ अनेक घोड़ोंके निकलनेसे, वे ( घोड़े ) आपसमें टकरा रहे थे; जो लोग हाथियोंपर बैठे हुए थे, उन्हें अपनी गर्दन नवानी पड़ी; और ध्वज कुछ तिरछे करने पड़े-इस तरहसे नगरके फाटकसे सेना बाहर निकली ॥३७॥ कमलोंको हिलानेवाले ( सुगन्धित ) परिखाके वायुने पद्मनाभसे आलिंगन करके, और भौंरोंके शब्दोंमें उससे कुशल-क्षेमकी बातें करके उसे एक मित्रकी तरह सुखो किया ॥३८॥ खिले हुए कमलोंसे अलंकृत तालाबों और निर्मल जलवाली नदियोंको देखकर राजा पद्मनाभको शरदऋतुको यह यात्रा बड़ी सुहावनी प्रतीत हुई ॥३९॥ नायिकाओंकी समानता करनेवाली सभी दिशाओंको राजा पद्मनाभने बार-बार आदरसे देखा ! नायिकाएं मन हरनेवाले यौवनसे युक्त होती हैं; स्वच्छ वस्त्रोंको धारण करनेवाली होती हैं; और बड़े-बड़े उन्नत एवं गोरे पयोधरोंको सुषमाका आश्रय होती हैं। इसी तरह शरदऋतुको दिशाएं मनोहर
१. °घट्टनानमित° । २. म सरोरुहाण्य। ३. = शिरोधरा कन्धरा । ४. पङ्के । ५. = सुखयति स्म । ६. = सरोवरान् । ७. = कलुषं कल्मषं यासु । ८. = वयःशब्दस्य पुंस्त्वं मृग्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org