SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३१५ त्रयोदशः सर्गः परिचिते बहुशोऽप्यवनीश्वरे कमलिनीकुसुमैरिव भास्करे। विच कसे नयनैः पुरयोषितां न रमणीयमपोहति कौतुकम् ।।२६।। जनरवात्त्रसतो निपतन्त्यधस्तरलवेगसरादवरोधिका । युवजनं विदधे गलदम्बरप्रकटितावयवा सकुतूहलम् ॥२७॥ कृतकटुस्वरमायतकंधरं सपदि भाण्डमपास्य पलायितः। करिभयात्कटके समपूपुषन्नट इवाधिकहास्यरसं मयः ॥२८॥ पथि वृषः करिसूत्कृतिविद्रुतैर्मुदितधूद्वितये शकटे सति । विपुललाभकृते वणिजोऽटतो घृतघटैर्मनसा सह पुस्फुटे ॥२६॥ वोक्षितुम् । निरित: निर्गतः। जनैः प्रजाभिः । दशतयीष्वपि दशावयवा यासां ता इति दशतय्यः तासु । 'अवयवात्तयट्' इति तयट -प्रत्यय: । दिक्षु दिशासु । न ममे न माति स्म । माङ् माने लिट् । तद् अखिलं सकलम् । पुटभेदनं पत्तनम् । स्फुटदिव विभिन्नमिव । अभवत् अभूत् । लङ् । उपमा ( उत्प्रेक्षा ) ॥२५।। परिचित इति । बहुगः बहुवारान् । परिचितेऽपि अभ्यस्तेऽपि वीक्षितेऽपि वा। अवनीश्वरे भूमिपतो। पुरयोषितां नगरस्त्रीणाम् । नयनः नेत्रः। विचकसे विकस्यते स्म । कस गती भाव लिट् । भास्करे सूर्ये । कमलिनीकुसुमैरिव कमलिन्याः पग्रिन्या: कुसुमैः पुष्पैरिव । रमणीयं मनोहरम् । कौतुकम् आश्चर्यम् । नापोहति न त्यजति । ओह त्यागे लट् । अतिशयः ( उपमा, अर्थान्तरन्यासश्च ) ॥२६॥ जनेति । जनरवात् जनानां रवात् कोलाहलात् । असतः बिभ्यतः। तरलवेगसरात् तरलाच्चञ्चलात् । वेगसरात् खरभेदात् । अषः भूभागे। निपतन्तो स्खलन्ती । अवरोधिका अन्तःपुरस्त्रीजनः। गलदम्बरप्रकटितावयवा गलता शिथिलयता अम्बरेण वस्त्रेण प्रकटितोऽवयवः स्तनाद्यवयवो यस्याः सा। युवजन यौवनजनम् । सकुतूहलं सोत्सुकम् । विदधे चकार । लिट् । २७॥ कृतेति । कटके सेनायाम् । करिभयात् गजमयात् । कृतकटस्वरं कृतो विहित कटुस्वरो यस्मिन् कर्मणि तत्। आयतकन्धरम् आयता कन्धरा कण्ठो यस्मिन् कर्मणि तत्। सपदि शीघ्रम्। भाण्डं भारम् । अपास्य त्यक्त्वा । पलायितः विद्रुतः । मयः उष्ट्रः । नट इव नर्तक इव । अधिकहास्यरसं बहुलहास्यरसम् । समपूपुषत् अवर्धयत् । पुष पुष्टौ णिजन्ताल्लुङ् ॥२८॥ पथीति । पथि मागें । करिफूत्कृतविद्रुत.६ करिणो गजस्य फूत्कृतेन फूकारध्वनिना विद्रुतैः पलायितैः । वृषः अनडुद्भिः । शकटे, “मथितद्धितये मथिताया उनकी संख्या इतनो अधिक थी कि वे दसों दिशाओंमें भी नहीं समा रहे थे। इतने दर्शनार्थी कहाँसे आ गये, लगता था मानो नगर फट पड़ा हो ॥२५॥ यों राजा पद्मनाभ चिरपरिचित था, उसे बहुत बार देखा भी था, पर विजयके लिए जाते समय उसे देखकर नगरको स्त्रियोंके नेत्र खिल उठे। जैसे चिरपरिचित सूर्यको देखते ही कमल खिल उठते हैं। सच तो यह है कि सुन्दर वस्तु कभी आश्चर्य उत्पन्न किये बिना नहीं रह सकती ॥२६॥ लोगोंके शब्द-कोलाहलसे एक चंचल खच्चर डर गया और उसके ऊपर बैठी हुई, अन्तःपुरमें काम करनेवाली एक युवती गिरनेकी स्थितिमें पहुंच गयी, उसके वस्त्र इधर-उधर हो गये, स्तन आदि अवयव दृष्टिगोचर होने लगे, तथा मनचले युवकोंके मनमें कौतुक उत्पन्न हो गया ॥२७॥ हाथोको देखते ही एक ऊंट डर गया । फलतः कानोंको उद्वेजना उत्पन्न करनेवाले स्वरमें चिल्लाता हुआ, अपनी गर्दनको लम्बी करता हुआ बोस पटककर ऐसे ढंगसे भागा कि छावनीमें उसने एक नटकी भांति हास्य रसकी खूब ही पुष्टि को-उसे देखनेवाले लोग ठहाका मारकर हँसने लगे ॥२८॥ हाथोकी सूंडसे १. एष टोकाश्रयः पाठः, प्रतिषु तु सर्वासु 'निरतः' इत्येव समपलभ्यते । २. श हि तर्के । ३. = पतता। ४. आ 'स्तनाद्यवयवो' इति नास्ति । ५. = तरुणवर्गम् । ६. फूत्कृत इति टीकायामेव दृश्यते, प्रतिषु तु सर्वास्वपि सूत्कृति इति वर्तते । ७. मथित' इत्यपि पाठष्टोकाश्रय एव, प्रतिषु तु 'मृदित" इति दृश्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy