________________
३१४ चन्द्रप्रमचरितम्
[.१३, २२परिहितायसकञ्चुकमेचकं पिहितभूमि पदातिकदम्बकम् । नरपतेररुचच्छरणागतं तिमिरशत्रुभयादिव तामसम् ॥२२॥ कृतसमुन्नतवंशपरिग्रहा गुणविशेषविभूषितविग्रहा। कुलवधूरिव मुष्टिगता मुदं व्यधित योधजनस्य धनुर्लता ॥२३॥ घनघटासदृशीषु कृतासना गजवधूववरोधपुरंध्रयः । विपुलकान्तिपरिप्लुतविग्रहा विदधिरे श्रियमाचिररोचिषीम् ॥२४॥ तदखिलं पुटभेदनमुद्भटैः स्फुटदिवाभदासकुतूहलैः ।
न निरितैर्यवेक्षितुमीश्वरं दशतयीष्वपि दिक्षु जनममे ॥२५॥ आवृण्वन्ति स्म । वृञ् वरणे लिट् । समाहितम् ।। २१॥ परिहितेति । परिहितायसकञ्चुकमेचकं परिहितेन परिधृतेन आयसेन अयसा निमितेन कच्चुकेन तनुत्राणेन मेचकं नीलम् । पिहितभूमिः पिहिता आच्छादिता भूमियेन तत् । नरपतेः पद्मनाभस्य । पदातिकदम्बकं पदातीनां पदगामिनां कदम्बकं निकुरम्बकम् । तिमिरशत्रुभयात् तिमिरशत्रोः सूर्यस्य भयाद् भीतेः। शरणागतं रक्षणार्थमागतम् । तामसं तिमिराणां समूह इव । अरुचत् अभात् । रुचि दीप्तो लुङ्। 'घद्भयो लुङ' इति ति ॥ उत्प्रेक्षा ।।२२।। कृतेति । कृतसमुन्नत. वंशपरिहा कृतसमुन्नतस्य विहित उच्छ्रितस्य वंशस्य वेणोः, पक्षे विशिष्टगोत्रस्य परिग्रहः स्वीकारो यस्याः सा। गुणविशेषविभूषितविग्रहा गुणेन मोा, पक्षे पातिव्रत्यादिगुणेन विशेष भूषितो विग्रहो यस्याः सा। मुष्टिगता मुष्टि हस्तमुष्टि, पक्षे अधीनं गता। धनुर्लता धनुषश्चापस्य लता यष्टिः । कुलवधूरिव कुलस्त्रीव । योधजनस्य योध एव भट एव जनस्तस्य । रूपकम् (?)। मुदं संतोषम् । व्यधित अकरोत् । डुवाञ् पारणे च ल। श्लेषोपमा ॥२३॥ धनेति । घनघटासदशीषु घनानां मेघानां घटायाः समूहस्य सशोषु समानासु । गजवधूषु करेषुषु । कृतासनाः कृतं विहितमासनं याभिस्ताः। विपुलकान्तिपरिलुप्तविग्रहाः विपुलया महत्या कान्त्या किरणेन परिप्लत उत्तीर्णो विग्रहो यासां ताः। अवरोधपुरंध्रयः अवरोधस्यान्तःपुरस्य पुरंध्रयः स्त्रियः । आचिररोचिषीम् अचिररोचिषो विद्युतः संबन्धिनीम् । श्रियं शोभाम् । विदधिरे घरन्ति स्म । डुधान धारणे च लिट् । सामान्यालङ्कारः ( निदर्शनालङ्कारः ) ॥२४।। तदिति । सद्भट: अधिकः । बट भट परिभाषणे। आत्तकुतूहलैः आत्तं स्वीकृतं कुतूहलं यस्तैः । ईश्वरं प्रभुम् । अवेक्षितुं
उनके चारों ओर नौकर चाकर एवं अंगरक्षक गण ॥२१॥ पयादोंके समुदायने सारी पृथिवी घेर ली थी, सभी पयादे लोहेका कवच पहने हुए थे और इसीलिए वे बिलकुल काले देख पड़ते थे। उन्हें देखकर ऐसा जान पड़ता था मानो सूर्यके भयसे सारा अन्धकार शरणागतके रूप में पद्मनाभके पास चला आया हो ॥२२॥ जिस प्रकार उन्नत वंशमें उत्पन्न होनेवाली, पातिव्रत्य आदि गुणोंसे अपनेको भूषित करनेवाली और आज्ञाकारिणी कुलीन स्त्री अपने पतिको आनन्द देती है, इसी प्रकार श्रेष्ठ बांससे बनी हुई, चढ़ी हुई प्रत्यंचा-डोरीसे सुशोभित और मुट्ठोमें स्थित धनुर्यष्टि सिपाहीवर्गको सन्तोष दे रही थी ॥२३॥ मेघोंकी घटा सरीखी काली हथिनियोंपर अत्यधिक कान्ति युक्त शरीर धारण करनेवाली रानियां बैठी हुई थीं, जो बिजली की शोभाको उत्पन्न कर रही थीं । वर्षा कालीन काली घनघटा जिस तरह बिजुलोसे सुशोभित होती है, उसी तरह हथिनियोंकी पंक्ति रानियोंसे सुशोभित हो रही थी ॥२४॥ राजा पद्मनाभको देखने के लिए लोग-जिन्हें कुतूहल उत्पन्न हो रहा था-अपने-अपने घरोंसे निकल पड़े।
१. आ तिस् । २. = कृतो विहित: समुन्नतस्य । ३. = यया। ४. = अधीनतां । ५. = धनुवल्लरी । ६. श 'मेघानां' पदं नोपलभ्यते । ७. = व्याप्तः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org