________________
- १३, २१]
प्रयोदशः सर्गः न सहते करपातमयं नृपो विजयवानपरस्य महीतले। रविरितीव रथध्वजचीवरैरविरलैर्विदधेऽन्तरितं वपुः ।।१८।। नृपपराक्रमबीजविवप्सुभिरिव रथैर्यदकृष्यत भूतलम् । मदपयोभिरपूर्यत तन्मधुव्रतकुलाकुलगण्डतलैगजैः ॥१९॥ चलितशैलचयेन गरीयसा पलभरेण निपीडितदेहया। बधिरितास्त्रिलदिप्रथमण्डलध्वनिपदैरिव निःस्वनितं भुवा ॥२०॥ कतिपयानि न यावदयुः पदान्यनुचरै रभसेन विनिर्गताः ।
कतिपयः पथि तावदुपेत्य तान्भटगणा नृपतीन्परिवबिरे ॥२१|| तया। रथकड्यया रथसमूहेन । 'गोरथवातात् कड्योलम्' इति समूहे कड्य-प्रत्ययः। चलितं प्रयातम् ॥१७॥ नेति । विजयवान् विजययुक्तः । अयं न पतिः एष नरपतिः । महीतले भूतले । अपरस्य अन्यस्य । करपातं करस्य सिद्धायस्य किरणस्य च पातं पतनम् । न सहते न क्षमते। षहि मर्षणे लट् । इति एवमिव ( इतीव इति हेतोरिव)। रविः सूर्यः। अविरलैः बहुलैः। रथध्वजचीवरैः रथानां स्यन्दनानां पताकानां चीवरैर्वस्त्रैः। वपुः अवयवम् । व्यवहितम् वन्तरितम् । विदधे करोति स्म। डुधाज धारणे च लिट् । उत्प्रेक्षा ।।१८॥ नपेति । नुपपराक्रमबीजविवप्सुभिः नपस्य नरपतेः पराक्रम एव प्रताप एव बोजस्य विवप्सुभिर्वप्तुमिच्छभिः । वररथैः परमरः । यद् भूतलं भूमितलम् । अकृष्यत अलिख्यत। कृष विलेखने कर्मणि लट् । मधुव्रतकुलाकुलगण्डतलैः मधुव्रतानां भ्रमराणां कुलेन समूहेनाकुलं संकोणं गण्डतलं कपोलप्रदेशो येषां तैः । गजः करिभिः । मदपयोभिः मदजलः। अपूर्यत अजम्भ्यत । पृ पालनपूरणयोः कर्मणि लङ् । पर्यायोक्तिः (?) । १९।। चलितेति । चलितशैलचयेन चलितः कम्पितः शैलानां पर्वतानां चयो येन तेन । गरीयसा गुरुतरेण । 'प्रियस्थिर-' इत्यादिना गुरुशब्दस्य ईयसि परे गरादेशः । बलभरेण बलस्य सेनाया भरेण भारेण । निपीडितदेहया निपीडितो बाधितो देहोऽवयवो यस्यास्तया। भुवा भूम्या । बधिरिताखिलदिग्रथमण्डलध्वनिपदैः बधिरिता अखिलदिशः समस्तककुभो यैस्ते तथोक्ता:, बधिरिताखिलदिशश्च ते रथाश्च तेषां मण्डलं सम हस्तस्य ध्वनिरिति पदैः व्याजैः । स्वनितमिव ध्वनितमिव ।। उत्प्रेक्षा॥२०॥ कतीति । कतिपयः कश्चित् । अनुचरैः भटैः। यावत् यावत् पर्यन्तम् । कतिपयानि कियन्ति । पदानि चरणनिक्षेपणानि । न अयुः न जग्मुः। या प्रापणे लिट् । तावत् तावतपर्यन्तम । पथि मार्गे। रभसेन शीघ्रम् । विनिर्गताः निर्याताः। भटगणाः भृत्यसमूहाः । तान् नृपतीन् भूपतीन् । उपेत्य प्राप्य । परिवनिरे
रहा था ॥१७॥ यह विजयी राजा इस भूतलपर किसी दूसरेके टैक्स ( हस्तक्षेप, किरणोंका पड़ना) सहन नहीं कर सकता। मानो यही सोचकर सूर्यने रथोंके सघन ध्वजपटोंमें अपनेको छिपा लिया ॥१८॥ मानो राजाके पराक्रमके बीज बोनेकी कामनासे रथोंने जिस भूतलको जोत डाला, उसे उन हाथियोंने अपने मदजलसे खूब सींचकर तर कर दिया, जिनके गण्डस्थलोंपर भौंरोंके झुण्ड बैठे हुए थे ॥१९॥ समस्त पहाड़ोंको कम्पित करनेवाली बड़ो-भारी सेनाके बोझसे दबकर पृथिवीके शरीरमें पीड़ा उत्पन्न हो गयो, मानो इसीलिए वह समस्त दिशाओंको बहरा कर देनेवाली रथसमुदायको आवाजके बहानेसे चिल्ला रही थी ॥२०॥ राजा लोग अपने थोड़े-से नौकरोंके साथ निकलकर जबतक कुछ ही कदम आगे नहीं पहुंच पाये थे तबतक बड़े वेगसे और भी नौकरोंने पास पहुँच कर उन्हें चारों ओरसे घेर लिया-बीचमें राजा चल रहे थे और
-
१. क ख ग घ विविस्तुभि । २. श कटघ। ३. = पराक्रमः प्रतापस्तस्य बीजानि । ४. श विखिख्यत । ५. 'अजम्भ्यत' इति नास्ति । ६. श 'कर्मणि' इति पदं नास्ति । ७. = ध्वनि: शब्दस्तत्पदैः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org