________________
चन्द्रप्रमचरितम्
[ १३, १४पथिषु हस्तिपकाहतडिण्डिमध्वनितनष्टजनेषु यदृच्छया। कुपितधोरविवर्तितदृष्टिभिः पदमदीयत मत्तमतङ्गः ॥१४॥ नृपतिरेकक एव कुलं द्विषां क्षपयितुं क्षम एष किमित्र वः । जगुरितीव रवैर्बत' दन्तिनां श्रितमदाकटा मधुलिड्गणाः ।।१५।। यमवनीशगमावसरे मदं जगृहिरे करिणो जयशंसिनः। रजसि तेन तुरङ्गखुरोत्थिते प्रशमिते ददृशुः पदवीं जनाः ।।१६।। खुरनिपातविदारितभूमिभिः प्रजविभिस्तुरगैर्विषमीकृते ।
पथि परिस्खलनेन समुच्छलच्चरणया चलितं रथकड्यया ।।१७।। सा शोभा। विदधे क्रियते स्म । डुधा धारणे च कर्मणि लिट। उत्प्रेक्षा परिवृत्तिर्वा ॥१३॥ पथिष्विति । हस्तिपकाहतडिण्डिमध्वनितनष्ट जनेषु हस्तिपकैराधोरणैराहतस्य वादितस्य डिण्डिमस्य डिण्डिमवाद्यस्य ध्वनितेन रवेण नष्टा निवारिता जना येषु तेषु । पथिषु मार्गेषु । कुपितधोरविवर्तितदृष्टिभिः कुपिते क्रुद्धे धीरं भयरहितं यथा तथा वितिते दृष्टी नयने येषां तैः । मत्तमतङ्गः मत्तवारण: । यदक्षया स्वेच्छया। पदं चरणन्यासः । अधीयत व्यक्षिप्यत । कर्मणि लङ ।।१४। नृपतिरिति । एषः अयम् । एक एव एककः । नृपतिः नरपतिः । द्विषां शत्रूणाम् । कुलं वंशम् । क्षपयितुं नाशयितुम् । क्षमः समर्थः। वः युष्माकम् । ‘पदाद्वाक्यस्य-' इत्यादिना युष्मच्छब्दबहुवचनस्य वसादेशः। अत्रकार्य किमिति ? अतीव' अत्यन्तम् । इव शब्दो वाक्यालङ्कारे । बलदन्तिनां बलयुक्तगजानां चतुरङ्गबलगजानां वा। श्रितमदाद्र कटा: श्रित आश्रितो मदेन मदजलेनाः कटो गजगण्डो येषां ( यः ) ते । मधुलिड्गणाः मधुलिहां भ्रमराणां गणाः समूहाः । [रवैः] । जगुः ऊचुः । गै शब्दे लिट् । उत्प्रेक्षा ॥१५॥ यमिति । जयशंसिनः जयसूचिनः । करिणः गजाः । अवनीशगमावसरे अवनीशस्य भूमिपतेर्गमस्य गमनस्यावसरे प्रस्तावे। यं मदं मदजलम् । जगहिरे स्वीकुर्वन्ति स्म । ग्रही उपादाने लिट् । तुरङ्गखुरोत्थिते तुरङ्गाणामश्वानां खुरैः खुरपुटैरुत्थिते समुत्पन्न । रजसि रेणौ। तेन मदजलेन । प्रशमिते उपशमिते सति । जनाः लोकाः। पदवी मार्गम् । ददृशुः पश्यन्ति स्म । दृश प्रेक्षणे लिट। पर्यायोक्तिः ( ? ) ॥१६॥ खरेति । खुरनिपातविदारितभूमिभिः खुराणां खुरपुटानां निपातेन घातेन विदारिता विभेदिता भूमिर्येषां तैः । प्रजविभिः वेगवद्भिः। तुरगैः अश्वैः। विषमीकृते निम्नोन्नतीकृते । पथि मार्गे। परिस्खलनेन स्खलनक्रियया। समुच्चलच्चरणया समुच्चलत् प्रस्खलच् चरण पादो यस्याःचलते हुए हाथियोंने पृथिवीपर उत्पन्न कर दिया ॥१३॥ हाथियोंपर महावत डिण्डिम बजा रहे थे, उनकी आवाज सुनते ही लोग रास्तोंसे अलग हट गये। फिर खाली रास्तोंसे मदमाते हाथी अपनी क्रुद्ध एवं निर्भय दृष्टि इधर-उधर डालते हुए स्वच्छन्दतापूर्वक चले जा रहे थे ॥१४॥ सेनामें जो हाथी चल रहे थे, उनके गण्डस्थलोंपर भौंरोंके झुण्ड बैठे हुए थे, उनके मुखसे 'गुन गुन' शब्द निकल रहा था, जिससे ऐसा प्रतीत हो रहा था मानो वे उन ( हाथियों ) से यह कह रहे हों कि यह राजा पद्मनाभ अकेला ही शत्रुओंके वंशका ध्वंस करनेके लिए समर्थ है, फिर आपका यहाँ-सेनामें क्या काम ? ॥१५॥ पद्मनाभके जानेके अवसरपर विजयको सूचना देनेवाले हाथी जो मदजल बहा रहे थे, उससे घोड़ोंकी टापोंसे उड़ायी गयी धूलि शान्त हो गयी। फिर लोगोंको रास्ता दीख पड़ने लगा। ॥१६॥ वेगसे चलनेवाले घोडोंने अपनी टापोंके प्रहारसे जमीनको खोदकर नीचा-ऊंचा कर दिया, जिससे रास्ता विषम हो गया। उसमें दचक लगनेसे रथोंका समूह उछलता हुआ जा
१. अ°वीर। २. अआ इ रवैर्बल । ३. आइ जगहिरे। ४. श 'नरपतिः' पदं नोपलभ्यते। ५. एष टीकाश्रयः पाठः प्रतिषु तु 'इतीव' इत्येव दृश्यते । ६. = समुत्पितते । ७. श पथि । ८. = यः । ९. = चक्रं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org