SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ -१३,१३] त्रयोदशः सर्गः चलितवद्भिरजीयत वाजिभिस्त्वरितमभ्यधिकेन निजोजसा । कृतपदैनिखिलेऽपि महीतले यदनिलः किमिवात्र महाद्भुतम् ।।११।। निरवधि प्रसृतैर्वसुधातले नृपबलमहिमा मम स्खण्डितः । इति नभस्त्रपयेव तिरोभवद्रजसि वाजिखुराहतिबृंहिते ॥१२॥ सतडिदाभरणाः प्रवितन्वते धृतजला जलदा दिवि यां श्रियम् । स्फुरितरत्नकुथैरलिकोमल प्रचलितैर्भुवि सा विदधे गजः ॥१३॥ निखिल: सकलः । गगननोरनिधिः गगनमेवाकाशमेव नीरनिधिः समुद्रः। तरङ्गितविग्रहः तरङ्गितः संजाततरङ्गयुक्तो (तरङ्गो) विग्रहो गात्रं यस्य सः, इव । समजनि जन्यते स्म । जनैङ् प्रादुर्भावे लुङ् । उत्प्रेक्षा ॥१०। चलितेति । निखिले सकले । महीतले भूतलेऽपि। कृतपदैः कृतं पदं चरणं येषां तै, स्थानमिति ध्वनिः । चलितवद्धिः चलनयुक्तैः । वाजिभिः अश्वैः । अभ्यधिकेन बहलेन । निजीजसा निजस्यात्मन ओजसा सामhन । त्वरितं शीघ्रम् । कृतम् ( ? )। अनिलः वायुः । न विद्यते इला भूमिर्यस्य ( सोऽ- ) अनिलः । इलारहित इति ध्वनिः। अजीयत जीयते स्म । जी जी अभिभवे कर्मणि लट् । यदत्र निजस्थानीकृतनिखिलमहीतलरिलारहितस्य जये न किमप्याश्चर्यमिति छलार्थ: । महाद्भूतं महदाश्चर्यम् । किमिव किम् ? इवशब्दो वाक्यालङ्कारे ॥११॥ निरवधीति । वसुधातले वसुधाया भूमेस्तले प्रदेशे । निरवधि अपरिमितम। । प्रसतैः विस्ततः। नपबलैः नपस्य पद्मनाभस्य बलश्चतुरङ्ग बलः। मम मे। महिमा सामर्थ्यम् । खण्डितः निराकृतः । इति एवम् । त्रपयेव लज्जयेव । नमः गगनम् । वाजिखुराहतिबंहिते वाजिनां तुरगाणां खुराणामाहत्या पीडया बृंहिते प्रवृद्धे । रजसि धूल्याम् । तिरोभवत् प्यदधात् । लङ् । उत्प्रेक्षा ॥१२॥ सतडिदिति । सतडिदाभरणाः तडिदेव विद्युदेवाभरणं भूषणं तेन सहिताः। वृतजलाः श्रुतं जलं यैस्ते धृतजलाः । जलदाः मेघाः । दिवि नभसि । यां श्रियं यां शोभाम् । प्रवितन्वते विस्तारं कुर्वन्ति । स्फुरितरत्नकुथैः स्फुरितर्भासित रत्नकुथै रत्नकम्बलैः । 'परिस्तोमः कुथो द्वयोः' इत्यमरः । 'कुथः स्यात्करिकम्बल:' इति वा। अलिकोमलः अलिभिभ्रमरैः कोमलैः सदृशैः । प्रचळितः निर्गतैः । पजैः करिभिः । भुवि भूमौ । ओर-ऊपर उछलने लगे, जिससे सारा आकाश-समुद्र तरंगोंसे युक्त-सा दृष्टिगोचर होने लगा ॥१०॥ वेगसे चलनेवाले घोड़ोंने सारे भूतलपर अपने पैर जमा लिये ( अधिकार कर लिया )। ऐसी स्थिति में उन्होंने अपने सर्वाधिक बलसे अनिल-वायु ( न विद्यते इला भूमियंस्य सोऽनिल:-जिसके पास भूमि न हो) को जीत लिया, इसमें क्या आश्चर्य है ? ॥११॥ 'भूतलपर जिधर-देखो-उधर पद्मनाभकी चतुरंगिणी सेना फैल गयी है। किसी भी ओर सेनाका ओर-छोर नहीं देख पड़ता। इससे तो मेरो महिमा ही नष्ट हो गयी है- मेरा महत्त्व खण्डित हो गया है। अभीतक तो में अकेला ही ओर-छोर रहित ( अनन्त ) था, अब यह सेना भी मेरी बराबरी कर रही है। इससे तो मेरी नाक-सी कट गयी है' मानो यह सोचकर आकाश शमिन्दा होकर घोड़ोंकी टापोंके प्रहारसे ऊपर उड़कर सभी ओर बढ़नेवाली धूलमें छिप गया ॥१२॥ बिजली रूपी आभूषणको धारण करनेवाले सजल बादल आकाशमें जो शोभा उत्पन्न करते हैं, उसी शोभाको चमचमाते रत्नोंसे जड़ो हुई झूलको धारण करनेवाले और भौंरोंके समान काले, १. = यः । २. आ जी जयेऽभिभवे च। ३. श यत्त्वत्र । ४. आ दलार्थः । ५. श अप्रमितम् । ६. = महत्त्वम् । ७. = आषावेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy