SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३१. चन्द्रप्रमचरितम् [१३,८गुरुमताभिरतामलमानसं विहितदिव्यशरीरपरिग्रहम् । त्रिदिवनाथमिव त्रिदिवौकसस्तमवनीपतयो नृपमन्वयुः ।।८।। तुरगवारकठोरकरद्वयीधृतकुशागुणपीडितकंधरैः । पथि भयापसरच्छिशुसंकुले स्खलितवेगमगामि तुरंगमः ॥९॥ तुरगियत्ननिरुद्धमहारयैर्हरिभिरुत्पतितैर्जलदोन्मुखम् । गगननीरनिधिनिखिलस्तदा समजनीव तरङ्गितविग्रहः ॥१०॥ राकारो' यस्य तेन । रुचिचयेन रुचीनां कान्तीनां चयेन समहेन। निरन्तरपुरितं निरवकाशं परितं व्याप्तम् । क्षितिपतेः पद्मनाभस्य । नाभिसरोवरं नाभिरेव सरोवरम् । रूपकम् । अखिला सकलाम् । यमुनाह्रश्रियं यमुनाया यमुनानद्या हृदस्यागाधजलस्य । श्रियं शोभाम् । अलुम्पत निराकुरुत। लुप्लम् छेदने लङ । उत्प्रेक्षा ॥७॥ गुरुमतेति । गुरुमताभिरतामलमानसं गुरुणा हितोपदेशकेन बृहस्पतिना वा मतमभिमतमभिरतं मनोहरं निर्मलं मानसं चित्तं यस्य तम् । विहितदिव्यशरीरपरिग्रहं विहितः कृतो दिव्यं शरीरं गात्रं तदेव परिग्रहः परिकरो यस्य तम । तं नपं पद्मनाभभपतिम । दिवौकसः सुराः । त्रिदिवनाथमिव स्वर्गनाथमिव देवेन्द्र मिवेत्यर्थः । अवनीपतयः भूमिपतयः । अन्वयुः अनुजग्मुः । या प्रापणे लङ् । उपमा ॥८॥ तुरगेति । तुरगवारकठोरकरद्वंयीघृतकुशागुणपीडितकन्धरैः तुरगवाराणामश्वारोहाणां कठोरयोः कर्कशयोः करयोहस्तयोर्द्वय्या द्वयेन तेन भुतेन कुशागुणेन वल्गारज्जुना ( रज्ज्वा) पीडिता बाधिताः कन्धरा येषां तैः। तुरङ्गमः अश्वैः। भयापसरच्छिशुसंकुले भयाद् भीतेरपसरद्भिरितस्ततो गच्छद्भिः शिशुभिर्वालकैसंकुले संकीर्णे । पथि मागें। स्खलितवेगं स्खलितो रुखो वेगः शैघ्यं यस्मिन् कर्मणि तत् । अगामि बगम्यत् । गम्ल गतो मावे लुङ् ॥९॥ तुरगीति । तुरगियत्ननिरुद्धमहारयः तुरगिणामश्वारोहाणां यत्नेन प्रयत्नेन निवारितो रयो वेगः शीघ्रं [रयो] येषां तैः । जलदोन्मुखं जलदस्य मेघस्योन्मुखमभिमुखम् । उत्पतितः दुर्लड्वितः१५ ( उद्गतैः ) उड्डोनैर्वा । हरिभिः वाजिभिः । तदा गमनसमये । की किरणोंसे-जिनका रंग मयूरके गलेके रंगसे बिलकुल मिलता-जुलता था- सभी ओरसे व्याप्त होकर उसको नाभि, यमुनाके कुण्डको-जिसमें कालिय नाग रहा करता था-सारी छविको छीन रही थी ॥७॥ जिस प्रकार बृहस्पतिके द्वारा दी गयी शिक्षामें निर्मल मनको लगानेवाले और दिव्य शरीरको धारण करनेवाले इन्द्रके पीछे देव लोग चला करते हैं, उसी प्रकार गुरुजनोंके अभिमत नीतिमार्गमें स्वच्छ हृदयको लगानेवाले-स्वच्छ हृदयसे गुरुजनोंकी शिक्षा माननेवाले और अत्यन्त सुन्दर शरीरवाले राजा पद्मनाभके पीछे-पीछे अन्य राजे-महाराजे चल रहे थे- अनुगमन कर रहे थे ॥८॥ भयसे इधर-उधर भागते हुए छोटे-छोटे बच्चोंसे घिरे हुए मार्गमें घुड़सवारोंने अपने कठोर हाथोंसे घोड़ोंकी रासोंकी रस्सियोंको खूब जोरसे खींच लिया, जिससे वे अपनी गर्दन टेढ़ी किये हए, और उसकी पोडाका अनुभव करते हुए धीरे-धीरे चलने लगे ॥९॥ घुड़सवारोंने ज्योंही बड़े यत्नसे घोड़ोंको तीव्र गतिको रोका, त्यों ही वे मेघोंको १. म मुखे। २. = वर्णों । ३. निखिलासु प्रतिषु 'नाभिसरोरुहम्' इत्येव पाठो वर्तते । ४. = द्रहस्पेति यावत् । 'द्रहोऽगाघजलो ह्रः' इति हैमः । ५. = गुरुमतामिरतामलमानसं गुरोमन्त्रिणः, पक्षे बहस्तेमतेऽभिरतं निरतममलं निर्मलं मानसं हृदयं यस्य तम् । विहितदिव्यशरीरपरिग्रहं विहितः कृतो दिव्यस्य सुन्दरस्य, पक्षे वैक्रियिकस्य शरीरस्य परिग्रहः स्वीकारो येन तम्, अतिरुचिरशरीरधारिणमिति यावत् । ६. आ रोहकाणां। ७. = 'कुशा वल्गा कुशं जले' अनेकार्य । ८. आ कर्मणि । ९. एष टोकाश्रयः पाठो मूलप्रतिषु तु 'जबः' इत्येव दृश्यते । १०. =जवों । ११. आ उल्लवितैः । १२. श 'उडोनर्वा' इति नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy