SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभचरितम् [१३. त्रयोदशः सर्गः ] अथ स विक्रमवान्नयभूषणो मिलितभीमरथप्रमुखः प्रभुः। निरगमत्प्रतिशत्रु जिगीषया प्रशमितप्रकृतिव्यसनो नृपः ॥१॥ सकललोकमनोरममुल्लसत्कुमुदपाण्डु विकासितदिङ्मुखम् । पथि रराज धृतं धरणीपतेः स्वयशसा सममातपवारणम् ॥२॥ जलदवीथिविशालमुरः प्रभोः पृथुलहारलतामणिभिर्बभौ । मुखसरोजमुपासितुमागतैरुडुगणैरिव जातशशिभ्रमः ॥३।। अयेति । अथ मन्त्रालोचनानन्तरम् । विक्रमवान् पराक्रमयुक्तः । नयभूषणः नय व नोतिरेव भूषणं यस्य सः । मिलितभीमरथप्रमुखप्रभुः मिलिता युक्ता भीमर पप्रमुखाः प्रभवो राजानो यस्य सः। प्रशमितप्रकृतिव्यसनः प्रशमितमुपशमितं प्रकृतीनाममात्याद्यानां व्यसनं दुःखं येन सः । 'अमात्य श्च स्वपौराश्व' सद्धिः प्रकृतयः स्मृताः। स नृपः पद्मनाभनपतिः । जिगीषया जेतुमिच्छया। जि ना अभिभव लिट् । 'जेलिट् सनि' इति कवर्गादेशः। प्रतिशत्र शत्रोरभिमुखं प्रतिशत्रु निरगमत् निर्गच्छति स्म । रूपकम् ॥१॥ सकलेति। सकललोकमनोरम सकलानां सर्वेषां लोकानां जनानां मनोरम मनोहरम् । उल्लसत्कुसुमाण्डु उल्लसद् विकसत् कुसूममिव पाण्ड शभ्रम । उपमा। विकासित दिमखं विकासितानि प्रकाशितानि दिशां ककुभां मुखानि वदनानि येन तत् । स्वयशसा स्वस्य आत्मनो यशसा कोा। समं समानम् । धरणीपतेः पद्मनाभस्य । धृतं भृतम् । आतपवारणम् आतपत्रम् । पथि मार्गे । रराज भाति स्म । राजञ् दीप्तो लिट् । उपमा ।।२।। जलदेति । प्रभोः पद्मनाभस्य । जलदवीथिविशालं जलदवीथिवद् गगनवद् विशालं विस्तीर्णम् । उरः वक्षः । जातशशिभ्रमैः जात उत्पन्नः शशीति चन्द्र इति भ्रमो भ्रान्तिर्येषां तैः। भ्रान्तिमान् । मुखसरोज मुख मेव सरोज कमलं तत् । रूपकम् । उपासितुम् आराधितुम् । आगतः आयातैः । उडुगणैः उडूना नक्षत्राणां गणैरिव समूहैरिव । पृथुलहारलतामणिभिः पृथुलहरिलताया हारयष्टेमणिभिः । बभी रराज । इसके पश्चात् पराक्रमो एवं नीतिनिपुण राजा पद्मनाभने पहले अपने मन्त्रियों और पुरवासियोंके कष्टोंका निवारण किया, फिर भीमरथ आदि अनेक मित्र राजाओंको अपने साथ लिवाकर विजय की अभिलाषासे पृथिवीपालके नगरकी ओर प्रयाण कर दिया ।।१।। पद्मनाभके ऊपर छत्र लगा हुआ था। उसे उनके भृत्य पकड़े हुए थे। उसका सफेद रंग कुमुदसे मिलताजुलता था । वह उसके यशकी भांति शुभ्र था और सभी ओर दृष्टिगोचर हो रहा था। मार्ग में वह सभी लोगोंके मनको हर रहा था॥२॥ पद्मनाभका वक्षस्थल आकाशकी भाँति विशाल था। वह हारके बड़े-बड़े मणियोंसे ऐसा प्रतीत हो रहा था, मानो पद्मनाभके मुवमें चन्द्रमाका भ्रम हो जानेसे उसकी उपासना करनेके लिए आये हए नक्षत्रगणसे व्याप्त हो गया हो ॥३॥ १. = येन । २. श°ममात्यानां । ३. श पौराश्च । ४. भा जी। ५. श 'शत्रोरभिमुखं प्रतिशत्रु' इति नास्ति । ६. एष टीकाश्रयः पाठः प्रतिषु तु "कुमुदपाण्डु' इत्येव दृश्यते । ७. अयमपि टीकाश्रयः पाठः प्रतिषु तु 'विभासित" इति समुपलभ्यते । ८. = मुखं सरोजमिवेति मुखसरोज, तत् । उपमा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy