SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ - १२,१११] द्वादशः सर्गः करिणं प्रदिशामि निश्चितं समरं वाहनि मासपूरणे । भवतेऽहमिति प्रहीयतां रिपदूतो वचनैर्द्वयाश्रयः ॥११०॥ हितमित वचनानि मन्त्रिमुख्यादिति सकलाभिमतान्यसौ निशम्य । अनलसमतिरर्थतोऽनुतस्थौ गुरुवचनं हृदयैषिणामलङ्घ यम् ॥१११।। इति श्रीवीरनन्दिकृतावुदयाङ्क चन्द्रप्रमचरिते महाकाव्य द्वादशः सर्गः ॥१२॥ भविष्यति । भू सत्तायां लुट । भवच्छब्दप्रयोगे प्रथमपुरुषः । उपमा ।।१०९। करिणमिति । अहं भवते तुभ्यम् । मासपूरणे मासस्य पूरणे संपूर्णकरणे। अहनि दिने । निश्चितं निर्णीतम्। करिणं गजपतिम् । प्रदिशामि प्रयच्छामि । दिश अतिसर्जने लट् । 'वय॑ति फलकारणे' इति भविष्यदर्थे लट् । समरं बा संग्राम वा । प्रदिशामि । इति एवम् । द्वयाश्रयः द्वयमवलम्बनमाश्रयो येषां तैः। वचनैः वचोभिः । रिपुदूतः रिपोः शत्रोतो वचोहरः । प्रहीयतां प्रेष्यताम् । हि गतिवृद्धयोः कर्मणि लोट् ॥११०।। हितेति । असो पद्मनाभः । मन्त्रिमुख्यात मन्त्रिश्रेष्ठभवभूतेः। सकलानि मतानि सकलै: सर्वेरभिमतानि संमतानि । हितमितवचनानि मितानि च तानि वचनानि च तथोक्तानि, हितानि च तानि मितवचनानि च तथोक्तानि । इति एवम् । निशम्य श्रुत्वा। अनलसमतिः सन् अनलसा आलस्यरहिता मतिबुद्धिर्यस्य सः। अर्थतः परमार्थतः । अनुतस्थो अलोकरोति स्म । छा गति निवृत्ती लिट् । उदयषिणाम् ऐश्वर्यं वाञ्छद्भिः। 'वा नाकस्य-' इत्यादिना करणार्थेः षष्ठी। गुरुवचनं गुरोः श्रेष्ठस्य । वचनं भाषितम् । अलङ्घयं हि नोल्लङ्घनीयं हि । अर्थान्तरन्यासः ॥११॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये तद्वयाख्याने च विद्वन्मनोवल्लभाख्ये द्वादशः सर्गः ॥१२॥ जायेगा ।।१०९। 'आजसे तीसवें दिन निश्चय ही मैं आपको हाथी दूंगा, या फिर युद्ध करूँगा', यह अनिश्चित उत्तर देकर पृथिवीपालके दूतको बिदा कर दीजिये ।।११०॥ इस प्रकार मुख्यमन्त्री भवभूतिसे सर्वसम्मत, हितकारी और परिमित इन वचनोंको सुनकर पद्मनाभने-जिसे नाममात्रको भी आलस नहीं था-वास्तविक रूपमें स्वीकार कर लिया। ठीक है, ऐश्वर्य चाहनेवालोंको गुरुजनोंके वचन अनुल्लङ्घनीय होते हैं ।।१११॥ इस प्रकार महाकवि वीरनन्दि विरचित उदयाङ्क चन्द्रप्रम चरित महाकाव्यमें बारहवाँ सर्ग समाप्त हुआ ॥१२॥ १. अ द्वयाश्रितः । २. म हितमिति । ३. म हृदयैषिणा । ४. श लेट । ५. श 'संमतानि' इति नास्ति । ६. शकरणेऽर्थे । ७. शहि' नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy