________________
[१२,१०६ -
चन्द्रप्रभचरितम् तरसोभयवेतनैर्वशीक्रियतां भृत्यगणो यथोचितम् । कृतकप्रथितैश्च शासनैः परिदृष्या रिपुसामवायिकाः ।।१०६।। विनिवेद्यमिदं प्रयोजनं सकलं भीमरथस्य रहसा। स न तिष्ठति लेखदर्शनात्समदुःखोऽस्ति सुहन्न तादृशः ॥१०७।। तनयः स तनोति यः कुलं स सुहृद्यो व्यसनेऽनुवर्तते । स नृपः परिपाति यः प्रजां स कविर्यस्य वचो न नीरसम् ।।१०८।। तमनन्यसमानतेजसं समनुप्राप्य सहायमूर्जितम् । सवितेव घनात्यये भवान्भविता भासुरधामदुःसहः ॥१०९॥
प्रयतबुद्धिः । अस्तु भवतु । लोट् ।।१०५॥ तरसेति । कृत्यगणः कृत्यानां कार्याणां (भृत्यगणः भृत्यानां शत्रुकिराणां) गणः समूहः । तरमा शीघ्रम् । उभयवेतनः उभयेषां शत्रप्रतिशत्रणां वेतन: सेवकैः। यथोचितं यथायोग्यम् । वशीक्रियतां वशी विधीयताम् । वश विधेये कर्मणि लोट । कृतकग्रथितैः कृतकेन कपटेन अधित रचितः । शासनैश्च लेखनैश्च । रिपुसामवायिकाः रिपोः शत्रोः सामवायिका: सामन्तादयः। परिदृष्याः माञ्चितुं (?) योग्याः स्युः ।।१०६।। विनिवेद्यमिति । इदम् एतत् । सकलं निखिलम् । प्रयोजनं कार्यम् । रंहसा शीघ्रम् । भोमरथस्य भीमरथराजस्य । विनिवेद्यं निवेदितव्यम् । समदुःखः समं समानं दुःखं कष्टं यस्य सः । सः भीमरयः । लेखस्य लेखनपत्रस्य । दर्शनात् मालोकनात् । न तिष्ठति नास्ति । लट् । तादृशः भीमरथस्य समः । सुहृत मित्रम । नास्ति न विद्यते । लट् । उपमा (?) ॥१०॥ तनय इति । यः पुरुषः । कुलं बंशम् । तनोति विस्तारयति । सः तनयः पुत्रः । यः व्यसने दुःखे। अनुवर्तते अनुतिष्ठति । सः सुहृत् सखा । यः प्रजा: सर्वजनान । प्रतिपाति प्रतिपालयति। सः नृपः नरपतिः। यस्य पुरुषस्य । वचः वचनम् । नीरसं शृङ्गारादिरहितम् । न-न भवति । सः कविः कवीश्वरः। भवतीत्यध्याहारः ॥१०८॥ तमिति । अनन्यसमानतेजसं न विद्यतेऽन्येषां समानं सदृशं तेजः प्रतापो यस्य तम् । ऊजितं प्रसिद्धम् । तं भीमरथम् । महायं मित्रम् । समनुप्राप्य संप्राप्य" संलभ्य । घनात्ययं शरत्कालम् । प्राप्य, सवितेव सूर्य इव । भवान् त्वम् । भासुरधामदुस्सहः भासुरेण मनोहरेण धाम्ना प्रतापेन, पक्षे किरपेन दुस्सहः सोढमशक्यः । भविता
पृथिवीपालको स्थितिका अन्तर जाननेके लिए प्रयत्नशील रहिये ॥१०५॥ पृथिवीपालके यहाँसे जितना वेतन मिलता हो, उतना अपनी ओरसे भी देकर, उसके समस्त कर्मचारियोंको योग्य रीतिसे शीघ्र ही अपने वशमें कर लीजिये, और जाली लेख या आज्ञापत्र भेजकर शत्रकी पार्टी में सम्मिलित माण्डलीक राजाओं एवं अन्य विशिष्ट व्यक्तियोंको अभियोग लगवा दीजिये, ताकि फूट पड़ जाये ॥१०६॥ भीमरथको शीघ्र ही अपना सारा प्रयोजन पत्र-द्वारा सूचित कर दोजिये। आपका पत्र देखकर वह अपने घर बैठा नहीं रहेगा-यहाँ अवश्य ही आयेगा। आपके सुख-दुःखको अपना हो सुख-दुःख समझनेवाला, उस सरोखा आपका कोई मित्र नहीं है॥१०७॥ तनय-पुत्र वही है, जो कलका विस्तार करेः मित्र वही है. जो आपत्तिमें अनगमन करे; राजा वही है, जो प्रजाकी रक्षा करे और कवि वही है, जिसके वचन नीरस न हों ॥१०८।। अनुपम तेजको धारण करनेवाले और बलशाली उस भीमरथको अपना सहायक पाकर आप शरद ऋतुके सूर्यके समान इतने तेजस्वी हो जायेंगे कि आपका तेज शत्रुओंको असह्य हो
१. इ शालनैः । २. = द्विगुणितवेतनवद्धिः । ३. श 'वश विधेये' इति नास्ति । ४. आ याचितम । ५. मा सहसा । ६. श लोकनात् । ७. =नास्ते । ८. आ आनुकूलेनानुतिष्ठति । ९. एष टीकाश्रयः पाठः, प्रतिषु तु 'परिपाति' इत्येव दृश्यते । १०.प्रबलम् । ११. भा 'संप्राप्य' इति नास्ति । १२. प्रदीप्तेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org