________________
- १२,१०५ ]
द्वादशः सर्गः
सुविचार्य करोति बुद्धिमानथवा नारभते प्रयोजनम् । रमसात्करणं हि कर्मणां पशुधर्मः स कथं नु मानुषे ॥ १०२ ॥ प्रविचेष्टितमेवमेव चेदुभयोरप्यविवेकपूर्वकम् । पशुमानुषयोस्तदा भवेत्किमृते शृङ्गयुगाद्विभेदकम् || १०३ || युवराणमतमस्तु किं 'तु नः प्रतिपाल्यः समयः कियानपि । विदितारिवला प्रयुञ्जते ननु षाङ्गुण्यमुदारबुद्धयः ॥ १०४॥ सकलं प्रविगाह्य तं चरै रिपुसर्वस्वमुपेत्य सर्वतः । स्वपरप्रविभागवेदने स्वयमस्तूद्यतधीर्भवानपि ॥ १०५।।
अहम् अस्य कार्यस्य ! अनुवर्तनाम् अङ्गीकारम् । सहसा शीघ्रम् । प्रविधातुं कर्तुम् । न उत्सहे उद्युक्तो न भवामि । षहि मर्षणे । अहंकारपरिहारः । १०१ ।। सुविचार्येति । बुद्धिमान् सम्यग्ज्ञानी । प्रयोजनं कार्यम् । विचार्य परीक्ष्य | करोति विदधाति । अथवा तथा नो चेत् । न आरभते नोपक्रमते । रमि रामस्ये लट् । कर्मणां कार्याणाम् । रभस'त् शीघ्रम् । करणं विधानम् । हि पशुधर्मः मूढधर्मः । स मानुषे मनुष्ये । कथं नु कथं भवेत् ? ।। १०२ । प्रविचेष्टितमिति । अविवेकपूर्वकम् अविवेकपूर्वकमेव । विचेष्टितं व्यापृतम् । चेत्, तदा तहि । पशुमानुषयोः पशुमनुष्ययोः उभयोरपि । शृङ्गयुगात् शृङ्गयोविषाणयोर्युगाद् युगलात् । ऋते विना । विभेदकं भेदः । [ किं ] भवेत् ( कि ) स्यात् ? । लिङ् । आक्षेपः ।। १०३ । युवराडिति । नः अस्माकम् । युवराड्मतं * युवराजः सुवर्णनाभस्य मतं संमतम् । अस्तु भवतु । अस भुवि लोट् । किन्तु विशेषोऽस्ति । कियानपि स्वल्पोऽपि' | 'बत्विदं किमः' इति घतु प्रत्ययः । किमिदमः कीश्' इति किरादेशः । समयः कालः । प्रतिपाल्यः रक्षणीयः । विदितारिबलाः विदितं ज्ञातमरीणां शत्रूणां बलं स्वरूपं येस्ते । उदारबुद्धयः उदारा महतो बुद्धिर्येषां ते । षाड्गुण्यं सन्ध्यादिषाड्गुण्यम् । प्रयुञ्जते प्रयोगं कुर्वन्ति । युज् योगे लट् । अर्थान्तरन्यासः ।। १०४ ॥ । सकलमिति । सकलं निखिलम् । रिपुसर्वस्वं रिपूणां शत्रूणां सर्वस्वं सर्वस्वरूपम् । चरैर्गृढ़चरैः। सर्वतः सर्वस्मात् । उपेत्य ज्ञात्वा ( गत्वा ) । प्रविगाह्यतां ज्ञायताम् । गाहौङ् विलोडने लोट्" । स्वपरप्रविभाग वेदने स्वस्य परेषामन्येषां प्रविभागस्य वेदने । भवानपि त्वमपि । स्वयम् उद्यतधीः
3
10
३०५.
क्योंकि जो काम विधाता के लिए भी कठिन है, उसमें मुझ सरीखेको भला भ्रम क्यों नहीं होगा ? ॥ १०१ ॥ बुद्धिमान् मनुष्य खूब आगा-पीछा सोचकर कार्य प्रारम्भ करता है, या फिर प्रारम्भ हो नहीं करता; क्योंकि सहसा कार्य प्रारम्भ कर देना पशुओंका धर्म है, वह मनुष्य में कैसे पाया जा सकता है ? ॥ १०२ ॥ यदि पशु और मनुष्य दोनोंकी ही चेष्टाएँ अविवेक पूर्वक - बिना सोचे-समझे हों, तो दो सींगोंके सिवा, दोनोंमें भेद बतानेवाला चिन्ह कौन-सा होगा ? ॥ १०३ ॥ युवराजका मत हम सबको मान्य हो, किन्तु अभी कुछ समय प्रतीक्षा करनी चाहिए । शत्रुओं के बलका पता लगाकर, बुद्धिमान् पुरुष निश्चय ही छह गुणों - सन्धि विग्रह, यान, आसन, संश्रय और द्वैधीभाव - का प्रयोग करते हैं ॥ १०४ ॥ | पहले सभी ओरसे जासूसों को भेजकर, पृथिवीपाल के सर्वस्वका ठीक-ठीक पता लगा लेना चाहिए। आप भी अपनी और
"
१. = निश्चयेन | २. = धर्मः । ३. = भेदकारि । ४. आ 'राण्मतं । ५. = अभिमतम् । ६. आ स्वल्पमपि । ७. = सामर्थ्यम् । ८. भा लङ । ९ = परितः । १०. श लेट् ।
=
३९ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org