________________
[१२, ९४
चन्द्रप्रमचरितम् अवधार्य सुवर्णनाभजामिति वाणी करणीयपेशलाम् । भवभूतिरुदाहरद्वचः प्रभुणा स्निग्धदृशावलोकितः ॥९८॥ निखिले विधिवद्विवेचिते युवराजेन विधेयवस्तुनि । अपरोऽत्र यदाह सोऽखिलः प्रतिशब्दः शुकशारिकादिवत् ॥१९॥ विशदामसमुज्झितान्वयां नयसारामविहीनसौष्ठवाम् । गिरमेष कदाचिदीदृशीमभिदध्यादथवा बृहस्पतिः ॥१०॥ न तथाप्यनुवर्तनामहं सहसास्य प्रविधातुमुत्सहे। न विमुह्यतु मद्विधः कथं गहने कृत्यविधौ विधेरपि ॥१०१॥
अभिगन्तुम् । युज्यते योग्यो भवति । भाग्यसंपदा भाग्येन संपदा च । सहित: युक्तः। स्थानगतोऽपि कोशदण्डादोनां साम्यं स्थानं गतोऽपि प्राप्तोऽपि । अरातिषु शत्रुषु । प्रभवेत् खलु समर्थो भवेत् खलु । लिङ् ॥९७॥ अवधार्येति । सुवर्णनाभ जां सुवर्णनाभेन जनिताम् । करणीयपेशलां करणीये कार्ये पेशलां मनोहराम् । इति उक्तरूपाम् । वाणी वाचम् । अवधार्य निर्णीय । प्रभुणा पद्मनाभेन। स्निग्वदृशा स्निग्धया प्रीतियुक्तया दशा नयनेन । अवलोकितः वोक्षितः । भवभूति: मवभूतिनामा मन्त्री। वचः वचनम् । उदाहरत् अवोचत् । हृञ् हरणे लङ्॥९८॥ निखिल इति । युवराजेन युवा चासो राजा च युवराजस्तेन, सुवर्णनाभेन । निखिले सकले । विधेयवस्तुनि विधातुं कर्तु योग्यं विधेयं तस्मिन् वस्तुनि । विधिवत् नीतिशास्त्रोक्तविधिरिव । विवेचिते विचारिते सति । अत्र अस्मिन् कार्ये। अपरः अन्यः । यत् वचनम् । आह ब्रवीति । ब्रूज व्यक्तायां बाचि लट् । 'ब्रुवस्तिप्पञ्चतः-' इति तिपो णशादेशः,४ ब्रुव आह इत्यादेशश्च । स: अखिलः सकलः । शुकसारिकादिवत् शुकसारिकादिपक्षिण इव । प्रतिशब्द: प्रतिध्वनिः । भवतीत्यध्याहारः ॥९९।। विशदामिति । एषः अयं युवराजः । कदाचित् एकस्मिन् समये । विशदां व्यक्तरूपाम् । असमुज्झितान्वयां क्षसमुज्झितो. ऽत्यक्तोऽन्वयः पूर्वक्रमो यस्याः ताम् । नयसारां नये नीतिशास्त्र सारामुत्कृष्टाम् । अविहीनसौष्ठवाम् अविहीनमत्यक्तं वा सौष्ठवं माधुर्यं यस्याः ताम् । ईदृशीम् एतादृशीम् । गिरं वाणीम् । अभिदध्यात् ब्रूयात् । डुधाञ् धारणे लिङ्। अथवा बृहस्पतिः सुरगुरुः। [ कदाचित् संभवतः ] अभिदध्यात् । युवराजो बृहस्पतिसमान इत्यर्थः । अतिशयः ॥१००। नेति । विधेः अपि ब्रह्मणोऽपि। गहने विषमे । कृत्यविधी कृत्यस्य कार्यस्य विधो करणे। मद्विधः मम सदृशः । कथं केन प्रकारेण । न विमुह्यतु भ्रान्तो न भवतु । तथापि चढ़ाई करने के लिए प्रेरित किया जा रहा है। भाग्य सम्पत्तिसे युक्त राजा शत्रुओंपर विजय पाने में समर्थ होता है, भले ही वह कोष और सैन्यकी दृष्टिसे उनके समान हो। क्योंकि अदृष्ट जिसका साथ देता है, वही विजयी होता है ॥९७|| इस तरहकी सुवर्णनाभकी प्रस्तुत कर्तव्यको विचारधारासे मन हरनेवाली वाणी सुनकर पद्मनाभने प्रीतिसे सनी हुई दृष्टिसे भवभूति नामक अपने मन्त्रीको देखा। उसके अवलोकनसे बोलनेका संकेत पाकर वह (भवभृति मन्त्री) यों बोला-९८॥ युवराजके द्वारा सारे प्रस्तुत कार्यके बारेमें नीतिशास्त्रके अनुकूल जो विवेचन किया गया है, वह हृदय ग्राह्य है । अब इस विषयमें यदि और कोई बोलेगा, तो निश्चय ही वह तोते-मैंनेकी भाँति युवराजके वक्तव्यको केवल दुहरा भर देगा-प्रत्युच्चारण या प्रतिध्वनि मात्र कर देगा ॥१९॥ स्पष्ट , क्रमबद्ध, नीतियुक्त और मधुर, इस प्रस्तुत वक्तव्यको युवराज सवर्णनाभ ही दे सकता था, अथवा अब ऐसे वक्तव्यको शायद बहस्पति दे दे, और तो किसीमें ऐसी योग्यता नहीं देख पड़ती ॥१००॥ तो भी मैं इसे शीघ्र ही स्वीकार नहीं कर सकता;
१. आ साम्यलक्षणस्थानं । २. = दृष्टया । ३. = नीतिशास्त्रानुसारम् । ४. आ णादेशः । ५. श 'च' नोपलभ्यते । ६. = यया। ७. = यया । ८. आ विषये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org