________________
चन्द्रप्रभचरितम्
अभिवाञ्छति पादसङ्गमप्यखिलः कर्तुमतिग्मदीधितेः । तपनं न दृशापि वीक्षितुं महिमा नन्वखिलः स तेजसः ॥६०॥ कृपणस्य परानुवर्तनैः सततार्तस्य धिगस्तु जीवितम् । अनुनीय परं निजोचितैलॅलनैर्जीवति किं न मण्डलः ॥९१॥ अनुगच्छति यः शठं प्रियैः प्रविहायोचितमात्मसौष्ठवम् ।
निजां विवृणोत्सारतामपवृष्टिनिंनदन्निवाम्बुदः ||२२|| मृत एव विलीन एव वा वरमप्राप्तभवः पुरैव च । न पुमान्परिभूतिजीवितः सहते कः खलु मानखण्डनम् ||१३||
३०२
मार्ग: । [बहुना ] विप्रकृष्यते दूरीक्रियते । कृषो विलेखने कर्मणि लट् । ननु निश्चयम् ||८९ || अभिवाञ्छतीति । अतिग्मदोधितेः चन्द्रस्य । पादसंगं पादस्य किरणस्य पादेन संगम् इति ध्वन्यते । अखिलोऽपि सकलोऽपि । कर्तुं विधातुम् । वाञ्छति इच्छति । वांछ इच्छायां लट् । तपनं सूर्यम् । दृशापि नत्रेणापि ।
द्रष्टुम् । नन वाञ्छति । सः अखिलः सकलः । तेजसः प्रतापस्य | महिमा सामर्थ्यम् । ननु निश्चय: " ( निश्वयेन ) । अर्थान्तरन्यासः || ९०|| कृपणस्येति । परानुवर्तनैः परेषामन्येषामनुकूलवर्तनैरनुसारवृत्तिभिः । सततार्तस्य सततमनवरतमार्तस्य पतितस्य कृपणस्य दीनस्य । जीवितं जीवनम् । धिगस्तु विनिन्दितमस्तु । मण्डल: सारमेयः । ' मण्डलो रात्रिजागरः' इत्यभिधानात् । निजोचितैः निजस्य स्वस्वोचितैर्योग्यैः । ललनैः लाङ्गूलचालनादिदैन्यैः । परम् अन्यम् । अनुनीय संतोषयित्वा । न जीवति कि प्राणधारणं न करोति किम् ? किन्तु करोत्येव । अर्थान्तरन्यासः ॥ ९१ ॥ अनुगच्छतीति । यः पुरुषः । उचितं योग्यम् । आत्मसौष्ठवम् आत्मनः स्वस्य सौष्ठवं महत्त्वम् । प्रविहाय विमुच्य । शठं दुर्जनम् । प्रियैः प्रियवचनादिभिः । अनुगच्छति:" अनुकूलं याति । गम्लु गतो लट् । सः पुरुषः । निनदन् ध्वनन् । अपवृष्टिः अपगता रहिता वृष्टि - वर्ष यस्य सः । अम्बुद इव मेघ इव । निजां स्वकीयाम् । असारतां निस्सारत्वम् । विवृणोति व्यक्तीकरोति । वृञ् वरणे लट् । उपमा || ९२ ॥ मृत इति । मृत एवं त्यक्तप्राण एव । विलीन एव प्रच्छन्न एव । पुरैव च प्रागेव च । अप्राप्तभवो वा अलब्धमनुष्य भवो वा । वरम् उत्कृष्टम् । परिभूतजीवितः परिभूतं पराभवं गतं जीवितं जीवनं येन सः । पुमान् पुरुषः । [न] वरं न भवति । मानखण्डनां मानस्याभिमानस्य खण्डनां
[ १२,९०
दूसरेका मार्ग दूर है । उत्तम क्षमा गृहस्थोंके लिए नहीं, साधुओंके लिए उपयोगी है ॥ ८६ ॥ सारा संसार चन्द्रमाकी किरणोंका ( पैरोंका भी ) सम्पर्क चाहता है, पर सूर्यको वह आँख उठाकर भी नहीं देखना चाहता । यह सब तेजकी महिमा है ||१०|| दूसरोंको खुशामद करनेवाले और इसीलिए हमेशा परेशान रहनेवाले दीन-हीन पुरुषके जीवनको धिक्कार है । क्या एक कुत्ता अपने योग्य व्यवहार — पूछ हिलाना, पीछे-पीछे चलना और पैरोंमें गिरना आदि - स दूसरेको खुश करके पेट नहीं भर लेता ? ||१|| जो पुरुष अपने योग्य गौरवको खोकरके खुशामदसे किसी धूर्तको प्रसन्न करना चाहता है और उसके पीछे-पीछे लगा फिरता है, वह वृष्टि न न करके गरजनेवाले मेघकी भाँति अपनी असारताको प्रकट करता है ||२|| पुरुषको अपमानित होकर जीवन बिताना उचित नहीं । अपमानित जीवनसे उसका मर जाना हो अच्छा है; माँके पेट में विलोन हो जाना- - गर्भस्राव हो जाना अच्छा है अथवा गर्भ में न आना भी उत्तम है ।
१. आ इ "खिलस्य तेजसः । २ म 'ललितै । ३. अ नतु गच्छति । ४ अ दण्डनम्, आ इ ' खण्डनाम् । ५. आ कृप । ६. आ दृश्यते । ७. = महत्त्वम् । ८. आ 'ननु निश्चयः' इति नोपलभ्यते । ९. = परेषामन्येषामनुवर्तन र नुवृत्तिभिः । १०. = पीडितस्य । ११
= अनुसरति । १२. = यस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org