SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ -१२, ८९] द्वादशः सर्गः विषये खलु संनियोजितः सदुपायः फलवान्न चान्यथा । नहि वज्रधरायुधोचिते क्रमते ग्रावणि लौहमायुधम् ॥८६।। मदभाजि परापमाननाप्रवणे दण्डमुशन्ति सूरयः । उपयाति सुखेन वश्यतां किमनडवानपनाथनासिकः ॥८॥ पुरुषस्तपनीयवद्गुरुर्न पर्यावदसौ विगाह्यते । तुलितस्तु स एव तत्क्षणात्तृणराशौ निपतत्यसंशयम् । ८८।। शिवहेतुरुदाहृता क्षमा वतिनामेव न मेदिनीभुजाम् । बहुना ननु विप्रकृष्यते पदवी संसृतिमुक्तिधर्मिणोः ॥८६|| अर्थान्तरन्यासः ।।८५ | विषय इति । विषये योग्य। संनियोजित: प्रयोजितः। समुदायः सामोपायः । फलवान् सफल: । खलु । अन्यथा अन्येन प्रकारेण, अविषये इत्यर्थः । न च-प्रयुक्तोपायः फलवान न भवतीत्यर्थः । वज्रधरायुधोचिते वज्रधरस्य देवेन्द्रस्य आयुधस्य वज्रस्य उचिते योग्ये, वज्रेण भेत्तुं योग्ये इत्यर्थः । ग्रावणि पर्वते । 'ग्रावाणी शैलपाषाणो'' इत्यमरः। लोहं लोहनिर्मितम् । आयुधं प्रहरणम् । न क्रमते हि समर्थ न भवति हि । अर्थान्तरन्यासः । ८६॥ मदभाजीति । मदभाजि गर्वयुक्ते । परापमाननाप्रवणे परेषामपमाननाामुदासीनकरणे प्रवणे समर्थे । सूरयः नीतिविदः । दण्डं दण्डोपायम् । उशन्ति वदन्ति । वश कान्तौ लट् । अपनायनासिकः अपनाथा अछिद्रिता नासिका घोणा यस्य सः। अनड्वान् सौरभेयः । सुखेन अनायासेन । वश्यताम् अधीनताम् । उपयाति प्राप्नोति किम् ? नोपयातीत्यर्थः । अर्थान्तरन्यासः ।।८७।। पुरुष इति । पुरुषः नरः । परैः अन्यपुरुषः । यावत् यावत् पर्यन्तम् । न विगाह्यते नापहीयते' । गाहो विलोडने कर्मणि लट् । असो पुरुषः । (तावत्) तपनीयवत् सुवर्णवत् । गुरु: भारभूतो भवति । अन्यैः साकं यावत् पर्यन्तं नोपमितस्तावत्पर्यन्तं तुलारोपणरहितसुवर्णवत् गुरुगुणयुक्तो भवतीत्यर्थः । तुलितश्चेत् उप. मितश्चेत् । स एव पुरुषस्तु । तत्क्षणात् स्वल्पकालादेव । तृणराशौ तृणानां राशी पुजे। असंशयं निस्संदेहम् । निपतति लघुत्वं प्राप्नोतीत्यर्थः। उपमा आक्षेपश्च ।।८८।। शिवहेतुरिति । तिनामेव तपस्विनामेव । क्षमा उत्तमक्षमा । शिवहेतुः शिवस्य मोक्षस्य हेतुः कारणमिति । उदाहृता निगदिता। मेदिनीभुजां भूपतीनाम् । न नोदाहृता । संसृतिमुक्तिर्मिणोः संसृतेः संसारस्य मुक्तेर्मोक्षस्य धर्मिणोः धर्मयुक्तयोः । पदवो 'सतां हि प्रह्वता शान्त्यै खलानां दर्पकारणम्' ॥८५॥ साम उपाय तभी सफल होता है, जब उसका प्रयोग उसके योग्य पुरुषके साथ किया जाता है, अन्यथा नहीं-अयोग्य पुरुषके साथ सामका प्रयोग सफल नहीं होता । वज्रसे तोड़ने योग्य पहाड़पर लोहेका हथियार या औजार काम नहीं दे सकता ॥८६॥ अहंकारी और दूसरोंको अपमानित करनेमें तत्पर रहनेवाले पुरुषके साथ दण्डका प्रयोग करना चाहिए, यह राजनीतिज्ञ विद्वान् कहते हैं। बिना नथा बैल क्या सुखसे वशमें किया जा सकता है ? बैलकी नाकमें रस्सी पिरो दी जाती है तभी वह वशमें आता है ॥८७॥ जबतक दूसरोंके द्वारा विरोधीकी तहका पता नहीं लगा लिया जाता-थाह नहीं ली जाती तब तक वह सोनेकी तरह भारो जान पड़ता है। किन्तु बादमें तौलनेपर वही विरोधी तत्काल निश्चय ही तृण पुंजमें जा गिरता है-बिलकुल हलका हो जाता है ॥८८॥ क्षमा कल्याण या मुक्तिका कारण बतलाई गयी है, किन्तु किनकी क्षमा ? व्रतियों की, न कि राजाओंकी । मंसार और मुक्तिके पथिकोंका मार्ग बिलकुल अलग-अलग है-एकके मार्गसे १. म मानता। २. अ मुखेन । ३. क ख ग घ म निगृह्यते । ४. श समोपायः। ५. आ ग्राष्णि। ६. आ°लपर्वतो। ७. आ 'लौंह' इत्यस्य स्थाने पताह' इत्यपलभ्यते । ८. = तिरस्करणे। ९. भा निरायासेन । १०. =नाक्रम्यते । ११. आ नोपहीयते। १२. आग्राह । १३. = गौरवान्वितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy