SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [१२,७५'नयमार्गममुञ्चतः स्वयं विघटेतापि यदि प्रयोजनम् । पुरुषस्य न तत्र दूषणं स समस्तोऽपि विधेः पराभवः ।।७।। नयशास्त्रनिदर्शितेन यः सततं संचरते न वर्त्मना । शिशुवत्स कुबुद्धिरुल्मुकं स्वयमाकर्षति कृच्छमात्मनः ॥७॥ त्वमतः प्रथमो विवेकिनां सहसा दण्डमरौ प्रयुव मा । स हि शाम्यति साममात्रतः पृथिवीपालनृपोऽभिमानवान् ।।७७।। अभिमानधनो हि विक्रियां व्रजति प्रत्युत दण्डदर्शनेः । प्रशमं न तु याति जातुचित्परिनिर्वाति किमग्निरग्निना ||८|| शबराः । उपायत: उपायात् । बध्नन्ति बन्धनं कुर्वन्ति । ननु निश्चयम् । अर्थान्तरन्याशः ॥७४॥ नयेति । नयमार्ग नीतिशास्त्रम । अमञ्चत: अत्यजतः पुरुषस्य । यदि प्रयोजनं कार्यम । स्वयं विघटेत २ अपि वियोजयेत् । घटिष चेष्टायां लिङ । तत्र कार्याभावे । पुरुषस्य न स्य। दूषणं निन्दा । न न भवति । सः समस्तोऽपि सकलोऽपि । विधे: पापकर्मणः । पराभवः तिरस्कारः। नयशास्त्रमार्गेण विहितकार्यस्य विघ्ने कर्मणोऽपराधो न तु पुरुषस्य-इत्यभिप्रायः । 'स दैवस्यापराघो न मन्त्रिणां यत्सुघटितमपि कार्य न घटते ।' इति नीतिवाक्यामृते ।।७५॥ नयेति । यः पुरुषः। नयशास्त्रदर्शितेन नयशास्त्रेण नीतिशास्त्रेण शितेन' दृष्टान्तविहितेन। वर्त्मना मार्गेण । सततम् अनवरतम् । न संचरते न प्रवर्तते । कुबुद्धिः कुत्सितबुद्धियुक्तः । सः पुरुषः । आत्मन: स्वस्य । कृच्छ्र कष्टम् । उल्मकम् अलातम् । शिशुवत् बालकवत् । स्वयम्, आकर्षति आकर्षणं करोति । उपमा ( निदर्शनालङ्कारः)॥७६।। त्वमिति । अतः कारणात् । विवेकिनां सम्यग्ज्ञानिनाम् । प्रथमः मुख्यः । त्वं भवान् । सहसा शीघ्रम् । अरौ शत्रो। दण्डं दण्डोपायम् । मा प्रयुक्ष्व मा प्रयोजस्व । युजअ योगे। अभिमानवान् अभिमानयुक्तः। स हि 'पृथिवीपालनृपः पृथिवीपालभूपतिः । प्रियपूर्व बचः ( ? )। साममात्रतः सामोपायमात्रादेव । शाम्यति उपशमं प्राप्नोति । शम् दम् उपशमने ॥७७।। अमिमानेति । प्रत्युत न चेत् -साधुवचो न प्रयुक्तं चेद्-इत्यर्थः । अभिमानधन: अभिमान एव धनं यस्य मः। दण्डदर्शन: दण्डप्रयोगैः । विक्रिया विकारम् । व्रजति गच्छति । व्रज गती लट । प्रशमम् उपशमम् । न तु याति न गच्छति । जाचित् सकृदपि । अग्नि: वह्निः। अग्निना वह्निना । परिनिर्वाति कि नश्यति शिकारी लोग अपने उपायसे मदमाते हाथीको भी बाँध लेते हैं ॥७४॥ नीति मार्गको न छोड़नेवाले पुरुषका यदि कोई काम बिगड़ भी जाये तो उसमें उस पुरुषका कोई दोष नहीं। वह तो सारा-का-सारा विधिका विधान है, जो उस पुरुषका विनाश करनेवाला है। 'विधि-विधान कभीटलता नहीं ॥७५।। जो पुरुष सदा नीतिशास्त्रके द्वारा दिखलाये गये मार्गसे नहीं चलता, वह दुर्बुद्धि छोटे बच्चेकी तरह स्वयं ही काष्ठको जलती हुई लकड़ो को अपनी ओर खींचने लगता है । जिस प्रकार अबोध शिशु जलती लकड़ीको खींचकर दुःख उठाता है, उसी प्रकार नोतिसे न चलनेवाला पुरुष भी अपने-आप संकटमें डालनेवाले कामको हाथ में ले लेता है ॥७६॥ राजन् ! आप विवेकी पुरुषोंमें प्रमुख हैं, अतः शत्रुके ऊपर सहसा दण्डका प्रयोग नहीं कीजिये । राजा पृथिवीपाल बड़ा अभिमानी है । फलतः वह केवल प्रिय वचनोंसे शान्त हो जायेगा। यदि गुड़ देनेसे काम बन जाये तो ईंट मारनेकी क्या आवश्यकता ।।७७।। अभिमानी पुरुष दण्ड दिखलानेसे दण्डनीतिका प्रयोग करनेसे कभी शान्त नहीं हो सकता, उल्टा भड़क ही उठता है । क्या १. क ख ग घ ननु मार्ग । २. = विनश्येत् । ३. आ घट । ४. = दोषः। ५. = उपदिष्टेन । ६. आ युजिर । ७. श 'अभिमानवान्' इति नास्ति । ८. श पृथ्वी । ९. श पृथ्वी । १०. आ नृपतिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy