SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [१२,६७ अभिधाय गिरं ससौष्ठवामिति' तूष्णीं नृपताववस्थिते । न्यगदीदिति नीतिमद्वचः पुरुभूतिः पुरुभूतिकारणम् ॥६७॥ अभवाम भवत्प्रसादतो क्यमृद्धश्च मतेश्च भाजनम् । " अतएव भुवि त्वमेव नो गुरुरीशः सुहृदेकबान्धवः ॥६८।। तव कार्यविदोऽभिजल्पितुं पुरतो दृष्टपरम्परस्य च । नयशास्त्रलवैकलिप्तधीः परिजिह्वेति कथं न मादृशः ॥६६।। नहि कार्यविपश्चितः पुरो निगदनराजति शास्त्रपण्डितः। सकलं पुरुषस्य लक्षणं ननु संदिग्धमलक्ष्यवेदिनः ॥७॥ नास्ति न विद्यते । दण्डसाध्यः-इत्यर्थः । सः दण्डोपायं विनाऽन्योपायः । अस्ति चेत् वर्तते चेत् । वद ब्रूत । बद व्यक्तायां वाचि लोट् । आसर्वविदः सर्वज्ञपर्यन्तम् । देहिनां जीवानाम् । मतिः बुद्धिः । प्रकृष्यते हि अतिशय्यते हि । कृष विलेखने कर्मणि लट् ॥६६॥ अभिधायेति । इति एवम् । ससौष्ठवां शोभायुक्ताम् । गिरं वाणीम् । अभिधाय निगद्य । नृपतो भूपती । तूष्णीं जोषम् । अवस्थिते सति स्थिते सति । पुरुभूतिः' १°पुरुभूतिनामधेयो मन्त्री । पुरुभूतिकारणं पुरोर्महत्याः भूतेः ऐश्वर्यस्य कारणं निमित्तम् । नीतिमद्वचः नीतिमद नीतियुक्तं वचो वचनम् । इति वक्ष्यमाणप्रकारेण । न्यगदीत अवोचत् । गद व्यक्तायां वाचि लङ१२ ॥६७॥ अभवामेति । भवत्प्रसादतः भवतां युष्माकं प्रसादतः कारुण्यात् । वयम्, ऋद्धः च ऐश्वर्यस्य च । मते: च बुद्धश्च । भाजनं पात्रम् । अभवाम अभूम। भू सत्तायां लुङ। अत एव एतस्मादेव । भुवि भमो। त्वमेव भवानेव । नः अस्माकम् । 'पदाद्वाक्यस्य' इत्यादिना अस्मदः षष्ठीबहवचनस्य नसादेशः । गुरुः उपाध्यायः। ईशः प्रभुः। सुहृत् मित्रम् । एकबान्धवः मुख्यबन्धुः । भवसि-इत्यध्याहारः ॥६८ । तवेति । कार्यविदः प्रयोजनवेदिनः । दृष्टपरम्परस्य दृष्टा परम्परा पूर्वक्रमो यस्य'४ तस्य । तव भवतः । पुरतः पुरस्तात् । अभिजल्पितम् अभिमुखं वक्तुम् । नयशास्त्रलवैकलिप्तधोः नयस्य नीतेः शास्त्रस्य लवैकेन लेशमात्रेण लिप्ता गविता धोर्बुद्धिर्यस्य सः। मादृशः मम समानः । कथं५ केन । न परिजिह्वेति लज्जितो न भवति, किन्तु जिह्वेत्येव ॥६९। नेति । कार्यविपश्चितः कार्यस्य६ प्रयोजनस्य विपश्चित: वेदिनः। पुरः अग्रे । निगदन् ब्रुवन् । शास्त्रपण्डितः शास्त्रे नीत्यादिशास्त्रे पण्डित: निपुणः। [नहि ] राजति [ न ] लाइये; क्योंकि सबकी बुद्धि एक-सी नहीं होती, निगोदिया जीवसे लेकर सर्वज्ञ तक समस्त प्राणियोंकी बुद्धि में तारतम्य देखा जाता है ॥६६॥ इस तरह (५८ वें श्लोकसे ६६ वें श्लोक तक ) सुन्दर शब्दोंमें अपना वक्तव्य देकर राजा पद्मनाभ चुप हो गया। फिर पुरुभूति नामके मन्त्रीने वैभवको उत्पन्न करनेवाले नीतिसे युक्त वचन कहे-॥६७॥ राजन् ! आपके प्रसादसे हम सब ऋद्धि और बुद्धि के पात्र बने हैं । अतएव इस भूतलपर आप हम सभीके गुरु, स्वामी, मित्र और एकमात्र बन्धु हैं ॥६८॥ राजन् ! आप समस्त कार्योंके जानकार हैं और सारी परम्पराओंको देख चुके हैं । अतएव नीतिशास्त्रके बहुत थोड़े ज्ञानका भी गर्व करनेवाला मुझ सरीखा व्यक्ति आपके सामने लज्जित क्यों नहीं होगा? ॥६६॥ कार्यके अनुभवी विद्वान्के सामने बोलनेवाला कोरा शास्त्रका पण्डित, जिसे कार्यका अनुभव नहीं है, केवल शास्त्रकी पंक्तियाँ आती हैं, शोभा नहीं पाता है। लक्ष्यको न जाननेवाले पुरुषका सारा शास्त्र निश्चय ही १. म स सौष्ठवा । २. अ पुरभूतिः, पुरभूतिकारणम् । ३. अ इ °पि जल्पितुं । ४. आ इ °विपश्चितुः । ५. म°लक्षवेदिनः । ६. श भिन्नोपायः । ७.श लेट । ८. श "स्थिते सति' इति नास्ति । ९. श मरुभूतिः । १०. श मरुभूति । ११. श 'निमित्तम्' इति नास्ति । १२. आ लङ । १३. आ 'अभम' इति नास्ति । १४. = येन । १५. = केन प्रकारेण । १६. = कर्तव्यस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy