SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ [ १२ ५८ चन्द्रप्रमचरितम् वयमप्यगमाम कौशलं नयमाग यदयं भवद्गुणः । अवभासयतेऽखिलं जगद्दिवसोयं महिमा रवेरसौ ॥५८।। परिवर्धयति स्वकौशलैः कुशलं शास्त्यवति प्रमादतः। जननी जनिकेव तत्फलं कुरुते नः सकलं भवन्मतिः ।।५९।। अपि मेरुसमे समुद्गते मम का व्याकुलता प्रयोजने । अभिजाग्रति यस्य सर्वतो गुरवः कार्यविधौ भवद्विधाः ॥६०॥ द्विरदानिव मद्विधान्सदा मदमूढान्स्खलतः पदे पदे । अपथाद्विनिवर्तयेत को गुरवश्चेन्न भवेयुरङ्कुशाः ॥६१।। डुधाज धारणे च लुङ् ।।५७।। वय मिति । वयमपि, नयमार्गे नयस्य नोतेमार्गे शास्त्रे । कौशलं नैपुण्यम् । अगमाम अगच्छाम । गम्लु गती लुङ् । यत् यस्मात् । अयम् एषः । भवद्गुणः भवद्भयो युष्मत् जातो गुणः । दिवसः दिनम् । अखिलं निखिलम् । जगत् लोकम् । अवभासयते प्रकाशयते । भसृञ् दीप्तो लट् । अयम् इति यत् । असौ सः । रवेः सूर्यस्य । महिमा सामर्थ्यम् ।।५८।। परिवर्धयतीति । जननी माता । स्वकौशल: स्वस्थ नैपुण्यैः । परिवर्धयति पर्येधयति । वृधूङ, वृद्धो लट् । कुशलं क्षेमम् । शास्ति शिक्षते । शास् अनुशिष्टौ लट् । प्रमादतः अपायतः । अवति रक्षति । अव रक्षणादिषु लट् । प्रमादं परिहृत्य रक्षति-इत्यर्थः । भवन्मतिः भवतां युष्माकं मतिबुद्धिः । जनिकै(के)व मातेव । सकलं समस्तम् । तत्फलं तत्प्रयोजनम् । न कुरुते न विदधाति । डुकृञ करणे लट् । ५९।। अपीति । यस्य मम । कार्यविधो कार्यस्य प्रयोजनस्य विधौ करणे । भवद्विधाः भवतां युष्माकं विधाः सदृशाः । गुरवः गुणाढ्याः । सर्वतः सर्वकार्ये । अभिजाग्रति जागरणं कुर्वन्ति । मम मे। मेरुसमे महामेरुसमे । प्रयोजने कार्ये । समुद्गतेऽपि संभवेऽपि, आगतेऽपि वा । व्याकुलता आध्यानता । न कापि-इत्यर्थः ।।६०।। द्विरदानिति । पदे पदे चरणविक्षेपण (स्य)स्थाने स्थाने । 'वीप्सायाम्' इति द्विः । स्खलत: स्खलनं कुर्वतः । सदा सर्वदा । मदमूढान् मदेन मूढानन्धान् । द्विरदानिव गजानिव । मद्विधान् मम सदृशान् । गुरवः गुणाढ्याः । अङ्कुशाः सृणयः, न भवेयुश्चेत् । अपथात् दुर्मार्गात् । कः को वा । विनि राजा बोलने में बहुत चतुर था। उसने यों कहना शुरू किया-॥५७॥ हे मन्त्रिमण्डल ! हम भी जो नीति-शास्त्रके दाव-पेंच जानने लगे हैं, यह आपका प्रसाद है । दिन, पूरे संसारको प्रकाशित करता है, यह सूर्यकी ही तो महिमा है ॥५८॥ जिस तरह जन्म देनेवाला माँ अपने पुत्रको पाल पोसकर बड़ा करती है, उसे होशियार बनानेके लिए होशियारोसे शिक्षा देती है और असावधानीसे दूर रखती है । इसी तरह आपकी बुद्धि हमको आगे बढ़ातो है, कुशलता सिखलाती है और प्रमादसे बचाया करतो है-इस तरह माँका पूरा काम करती है ॥५९|| प्रत्येक कार्यको विधि बतलानेके लिए जिसके यहाँ हर काममें आप सरीखे नीतिज्ञ हमेशा जागरूक रहते हैं, उसे मेरु जैसे बड़ेसे-बड़े कामके आ पड़नेपर भी व्याकुलता कैसे हो सकती है ? ॥६०॥ मदान्ध हाथियों की भाँति पग-पगपर हमेशा गिरनेवाले ( भूल करनेवाले ) हम लोगोंको गुरुजन १. आ इ यद् महिमा । २. अर्धयते । ३. अ आ इ जनिकैव । ४. आ गम । ५. आ युष्मभ्यम् । ६. श भासृङ । ७. आ वृधु । ८. = शिक्षयते। ९. = विहस्तता । 'विहस्तव्याकुलो व्यग्रे' इति हैमः । १०, =प्रतिपदम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy