________________
२९३
- १२, ५७ ]
द्वादशः सर्गः ससुतः समुपेत्य तत्सभाक्षितिमभ्यर्चय मुक्तमत्सरः । प्रणति गमितैः शिरोम्बुजै रणभूमीमथवा गलच्युतैः ॥५४॥ क्षुभितामिति तस्य भाषितैर्युवराजप्रमुखामसौ सभाम् । परवागनुवादिनोऽस्य कः खलु दोषः प्रभुरित्यवारयत् ॥५५॥ वज योग्यगृहासनादिकं व्यवहारोचितमस्य कारय ।। अभिधाय नियुक्तमित्यसावुदतिष्ठत्प्रविसर्जिताखिलः ॥५६।। अथ मन्त्रगृहे स मन्त्रवित्सममाहूय समस्तमन्त्रिणः ।
युवराजसमन्वितोऽभ्यधादिति वाचं वचने विचक्षणः ||५७।। उपेक्षणं हि औदासीन्यं हि । अनुगतकवृत्तिषु अनुगता अनुकूल ( तां ) गता एका मुख्या वृत्तिर्वर्तनं येषु तेषु अनुकूलगतजनेषु---इत्यर्थः । हितशिक्षा हितोपदेशः, सफल:-इत्यर्थः ॥५३॥ ससुत इति । मुक्तमत्सरः त्यक्तमत्सरः । ससुतः सुतेन सहितः त्वम् । तत्समाक्षिति तां सभाया आस्थानस्य क्षिति भूमिम् । समुपेत्य प्राप्य । प्रणति प्रणमनम् । गमितैः प्रापितैः । शिरोऽम्बुजैः शिरांस्येवाम्बुजानि तैः। अभ्यर्चय पूजय । अथवा गलच्युतः गलेभ्यश्च्यतः पतितः शिरोऽम्बजः रणभूमि रणस्य संग्रामस्य भूमिम् । अभ्यर्चय पजय । अचि पूजायां ण्यन्ताल्लिट् । दोपकः ( कम् ) ॥५४।। क्षुमितामिति । इति उक्तप्रकारेण । तस्य दूतस्य । भाषितैः वचनैः क्षुभिता' कोपिताम् । युवराजप्रमुखां युवराज एव प्रमुखो यस्यां ताम् । सभाम् आस्थानम् । असो प्रभुः पद्मनाभः । परवागनुवादिनः परस्य शत्रोर्वाचं वचनमनुवादनशीलस्य (अनुवदतीत्येवंशीलः, तस्यपरोक्तिमनुवदत:-इत्यर्थः) अस्य दूतस्य । कः खलु स्फुटं, दोषः । इति एवम् । अवारयत निवारयतिस्म । वृञ् वरणे लङ् । रूपकम् ।।५५।। व्रजेति । व्रज गच्छ। व्यवहारोचितं व्यवहारस्योचितं योग्यम् । योग्यगृहासनादिक योग्ये गृहासने आदी" यस्य तत । अस्य दतस्य । कारय विधापय । डुकृञ करणे णिजन्ताल्लोट् । इति एवम् । नियुक्तं नियोगिपुरुषम् । अभिधाय निगद्य । प्रविसजिताखिल: प्रविसर्जिताः प्रहिता अखिला येन सः। असौ पद्मनाभः। उदतिष्ठत उत्तिष्ठतिस्म । ष्ठा गतिनिवृत्तौ लुङ ॥५६।। अथेति । अथ उत्थानानन्तरम् । मन्त्रवित् मन्त्रालोचनवेदी। युवराजसमन्वितः युवराजेन समन्वितो युक्तः । वचने भाषणे । विचक्षणः प्रौढः । स: पद्मनाभः । समस्तमन्त्रिणः समस्तान् सर्वान् मन्त्रिणः सचिवान् । समं युगपत् । मन्त्रगृहे मन्त्रशालायाम् । आहूर्य आह्वानं कृत्वा । इति वक्ष्यमाणप्रकारेण । वाचं वचनम् । अभ्यधात् अब्रवीत् । शिक्षा उन्हें दी जानी चाहिए, जो केवल अनुकूल व्यवहार कर सकते हों-जो शिक्षा दी जाय, उसे मान सकते हों ॥५३।। अब डाह करना छोड़ो और अपने राजकुमारको साथ लिवाकर पृथिवीपालकी सभामें जाकर उस ( सभा ) की भूमिकी अपने विनम्र मस्तकरूपी कमलोंसे पूजा करो, अथवा धड़से विलग हुए अपने मुण्डरूपी कमलोंसे संग्रामभूमिको अर्चना करना ॥५४॥ दूतके इस कथनसे सारी सभा-जिसमें युवराज सुवर्णनाभ प्रमुख था-क्षुब्ध हो उठी, किन्तु राजा पद्मनाभने उसे यह समझा-बुझाकर प्रतीकार करनेसे रोक लिया कि, यह दूसरे की कही हुई बातको उसी रूप में दूसरी बार कह रहा है, इसमें इसका क्या अपराध ? ॥५५॥ फिर एक अधिकारीको पासमें बुलाकर पद्मनाभने कहा कि जाओ व्यवहारके अनुकूल इस दूतका ठहरने और भोजन आदिका योग्य प्रबन्ध करवा दो। इसके उपरान्त सभी सभासदोंको बिदा करके वह अपने सिंहासनसे उठकर खड़ा हो गया ।।५६। इसके पश्चात् मन्त्रणाके मर्मको समझनेवाले राजा पद्मनाभने मन्त्रशालामें सभी मन्त्रियोंको आमन्त्रित करके युवराजके साथ प्रवेश किया।
१. भ क ख ग घ म तत्सभां क्षिति। २. अ गृहाशना । ३. = तस्य । ४. = कुपिताम् । ५. = आदो। ६. श नियोगहारिणम् । ७. आ लङ । ८. = आकार्य । Jain Education International For Private & Personal Use Only
www.jainelibrary.org |